सर्गः ११९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् ४४९ एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा । अमर्षवशमापन्नो राघवाननमैक्षत ॥ २० ॥ स विज्ञाय तत्रैश्छन्दं रामस्याकारस्रचितम् । चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥२१॥ [ वै हि रामं तदा कश्चित्कालान्तकयमोपमम् । अनुनेतुमथो वक्तुं द्रष्टुं वाऽप्यशकरसुहत् ॥२२] अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् । उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥ २३ ॥ प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली । बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ २४ ॥ यथा मे हृदयं नित्यं नापसर्पति राघवात् । तथा लोकस्य साक्षी मां सर्वेतः पातु पावकः ॥२५॥ यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः। तथा लोकस्य साक्षी मां सर्वतः पातु पाचकः ॥२६॥ कर्मणा मनसा वाचा यथा नातिचराम्यहम् ॥ राघवं सर्वधर्मज्ञ तथा मां पातु पावकः ॥ २७ ॥ आदित्यो भगवान्वायुर्दिशश्चन्द्रस्तथैव च ॥ अहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा । यथाऽन्येपि विजानन्ति तथा चारित्रसंयुताम् ॥ २८ ॥ एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् । विवेश ज्वलनं दीप्तं निस्सद्धेनान्तरात्मना ॥ २९ ॥ जनः स सुमहांस्त्रस्तो बालवृद्धसमाकुलः । ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ॥ ३० ॥ सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा ॥ पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ॥ ३१ ॥ दॐशुस्तां महाभागां प्रविशन्तीं हुताशनम् ॥ सीते कृत्नत्रयो लोकाः पुण्यामाज्याहुतीमिव ॥ ३२ प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ॥ पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे ॥ ३३ ॥ र्ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः ॥ शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव ॥ ३४ ॥ तस्यामतिं विशन्त्यां तु हाहेति विपुलः खनः ॥ रक्षसां वानराणां च संबभूवाद्भुतोपमः॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ॥११९॥ अमर्षवशं दैन्यवशं ॥ २० ॥ आकारः भृसंज्ञादिः । | पावक इति संबन्धः । २८ ॥ परिक्रम्य प्रदक्षिणी मते सिद्धन्ते । स्थित इति शेषः ।।२१-२२॥। अधो- कृत्य । निःसङ्केन शरीरे निरभिलाषेण । अन्तरामना मुखमिति । पतिव्रतायाः कथं निर्याजं प्रत्ययं | मनसा । उपलक्षणे तृतीया ॥ २९-३१ ॥ आज्या- पश्यामीति लज्जया मुखदर्शने दाक्षिण्यं भविष्यतीति | हुतीमिवेत्यादिदृष्टान्तेन देव्याः परमपावनत्व द्योत्यते बुद्ध्या चवनतमुखं । शनैः रामानुभवेन मन्दं यथा ॥ ३२ ॥ वसोर्धारां संततां घृतधारां । अनेनाश्यु तथा ।। २३–२५ ॥ यथा शुद्धचारित्रामेव माम- उनृम्भणं गम्यते ॥३३। देवाः स्वर्गवासिनः । गन्धं न्यायेन दुष्टां जानाति । तथा चेत् अदुष्टां दुष्टेति | व भूलोकवासिनः । दानवाः पातालवासिनः । जानाति चेत् । पावकः पातु । रामस्य मथि दोषज्ञानं | सकलभोगार्हरूपवत्याः सीतायाः अनलप्रवेशस्यानर्ह- यथार्थं चेत्पावित्यर्थः ॥ २६-२७ ॥ आदित्य | त्वान्निरयपतनानर्हस्वर्गीयदेवतादृष्टान्तः ॥ ३४ ॥ इत्यादिसार्धश्लोक एकान्वयः ॥ आदित्याद्योन्ये च | अद्भुतोपमः अद्भुततुल्यः । रावणागमनमारभ्य एता यथा मां चारित्रसंयुतां विजानन्ति तथा मां पातु | वरपर्यन्तं सीतायाः परमभागवतभूतलक्ष्मणापचार ति० राघवःशुद्धचारित्रां अदुष्टामेवमांयदिदुष्टांजानति अहंतथाचेत् अदुष्टाचेत् पावकोमांसर्वतःपातु केशांबरादिकमपिमाधाक्षी दित्यर्थः ॥२६॥ ति० साततेत्यादि । एतदर्थमेवत्रतायाअलङ्कारयुतायाआनयनंकारितं ॥ ३१ ॥ ति० सर्वाणिरूपाणि सर्वाणि भूतानि । ‘सर्वाणिरूपाणिविचित्यधीरः’ इत्यादौतद्वोधकतयाप्रसिद्धोरूपशब्दः ॥३२॥ इत्येकोनविंशत्युत्तरशततमःसर्गः ॥११९ ॥ [ पा० ] १ ङ, झ. ट. सनछन्दं. २ अयंलोकः ङ. झ. अ. ट. पाठेघश्यते. ३ ङ. झ. . ट. मैथिलींदीप्तां• ४ क. च. छ. ल. ददृशुस्तांविशालाक्षींपतन्तींहव्यवाहनं, ५ सीतांसर्वाणिरूपाणिरुक्मवेदिनिभांतदा. ६ इ. झ. ट. ऋषयोदेवगन्धर्वा यज्ञेपूर्णाहुतीमिव. वा. रा. ३३४
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५३
दिखावट