पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः. १२] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४ १ ते मे भवन्तश्च तथा सुग्रीव्रप्रमुखान्हरीन् ॥ २३ ॥ परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ । सीतायाः पदवीं प्राप्तौ संप्राप्तौ वरुणालयम् ॥ २४ ॥ अदेया च यथा. सीता वध्यौ दशरथात्मजौ ॥ भवद्भिर्मध्यतां मत्रः सुनीतं चाभिधीयताम् ॥२९॥ न हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित् ॥ सागरं वानरैस्तीर्वा निश्चयेन जयो मम ॥ २६ ॥ तस्य कामपरीतस्य निशम्य परिदेवितम् ॥ कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥ २७ ॥ [ संगैधायैव तत्कार्यं करणीयं स्त्रधा विभो । संप्रधार्य सहामात्यैः पूर्वमेव यथातथम् ]॥ २८ ॥ यदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता । सकृत्समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यनुनेव यामुनम् ॥ २९ ॥ सर्वमेतन्महाराज कृतमप्रतिमं तव ॥ विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ ३०॥ न्यायेन राजकार्याणि यः करोति दशानन ॥ न स संतप्यते वैश्वान्निश्चितार्थमतिर्नुपः ॥ ३१ ॥ अनुपायेन कर्माणि विपरीतानि यानि च ॥ क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ३२ ॥ यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति । पूर्वं चपरकार्याणि न स वेद नयानयौ ॥ ३३

  • कमेकं वाक्यं। मानुषात् भयाभावे हेतुमाह-तदे- | कुरुते तमाहुर्मध्यमं नरं’इत्युक्तमध्यममत्रयितृभावेपि

ति । अजयमिति च्छेदः । लङन्तमैकवचनं । इन्द्र | नावस्थितोसीत्याह-यदेति। यदा सकृत्समीक्ष्यैव स्व- जितवतो मे मनुष्यः कियानतिभावः । ते मे भव | यमेव विचार्यं । रामस्य सीता इहहृता तदैव चित्तं कर्तुं न्तश्च तथा । ते देवासुरे युद्धे जेतारो भवन्त । तथा | यमुना यामुनं पर्वतमिव सुनिश्चितं सुनिश्चयम् भजेत सहायभूताः । वर्तन्त इत्यर्थः। सुग्रीवप्रमुखान्हरीन- खलु । स एवास्माभिः सह विचारकालः। इदानीं त्युत्तरशेषः ॥ २३ ॥ प्राप्तौ ज्ञातवन्तौ । वरुणालये | विचारणं गते जले सेतुबन्धनमिति भावः।२९। तदा समुद्रं संप्राप्तौ । प्राप्नुतां नाम का नः क्षतिरितिभावः । ऋते किं स्यादित्यत्राह--सर्वमिति । कृतमिति कर्मणि ॥ २४ ॥ विमृश्यतामित्युक्तं विमर्शप्रकारं दर्शयति - | निष्ठा । एतत्कृतं सर्वं मत्रकर्म । अस्य कर्मणः सी अदेयेति । मनो मन्यतां मत्रः क्रियतामित्यर्थः। | ताहरणरूपस्य । आदावेव यदि विधीयेत तदा अप्रः सुनीतं सुनिश्चितं ॥ २५ ॥ मा भूद्रामस्य समुद्र- | तिमं समञ्जसं स्यादित्यर्थः । ३० । आदौ विचार्य वा शक्तिः तत्सहयस्यान्यस्य कस्य- कृतस्य साफल्यप्रदर्शनपुरःसरमविचार्यकृतस्य फर चित्स्यात्तत्राह-नहीति ।। वानरैः सह सागरं ती- | वैपरीत्यं दर्शयति श्लोकद्वयेन-न्यायेनेति । न्यायेन त्। आगन्तुमिति शेषः । रामादन्यस्य शक्तिं न | विचारणेन ॥ ३१ ॥ अनुपायेन क्रियमाणानि पश्यामिनिश्चयेन जय इत्यन्वयः ॥२६॥। | कर्माणि विपरीतानि विपर्यस्तानि यानि तानि च । अतो मम कामपरीतस्य कामेन विपरीतस्य । कामातुरतया | दुष्यन्ति दोषवन्ति च भवन्ति । न केवलं निष्फ- विपरीतबुद्धेरित्यर्थः। परिदेवितं परिदेवनं । तद्वदसंग- | लानि प्रत्युतानर्थकराण्यपिभवन्तीत्यर्थः । अप्रयतेषु तभाषणमित्यर्थः ।।२७-२८“मत्रिभिर्हितसंयुतैः | अशुचिषु अपात्रेषु । दीयमानानीति शेषः ॥ ३२ ॥ समथैर्मद्वनिर्णये । सहितो मत्रयित्वा यः कर्मारम्भा अकालकृतं मत्रकरणमनुचितमित्याह--य इति प्रवर्तयेत् । इत्युक्तोत्तममत्रयितृभावे ॐ एकोथे | पूर्वकार्याणि पूर्व कर्तव्यानि मत्रकर्माणि । अपरका विमृशन्नेको धमें प्रकुरुते मनः । एकः कार्याणि र्याणि उत्तरकालकर्तव्यकर्मारम्भान् । पूर्वं मत्रवि- ती० नहिशक्तिमित्यस्यवास्तवार्थस्तु । अन्यस्यशक्तिनपश्यामि । रामंविनेतिशेषः। एवंनिश्चयेसतिममजयोनेत्यन्वयः ॥ २६ ॥ ति० यदा सलक्ष्मणस्यरामस्यसीतासकृत्समीक्ष्यैव तात्कालिकापातविचारंकूवैवप्रसह्यहृता । तदैव तेचित्तं यमुना यामुनंहदमिव सुनिश्चितंभजेत निश्चयभजनाहैं । यथायमुनापृथिव्यामवतारसमयएव स्खहृदंपूरयति कालान्तरेतुसमुद्गतत्तज्जलयतत्पूरण संभवः । एवमस्माभिःसह विचारस्य सएवकालः । इदानींEनर्थनिश्चयोजात एवेति विचारोनिष्फलइतिक्रोधजाव्यङ्गयोक्तिः ॥ २९ ॥ [ पा० ] १ घ. तढं. २ अयंश्छकः घ. पाठेदृश्यते. ३ घ. पञ्चमुखीहिभवतिप्रभो. वा, रा. १८३