सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ [ युद्धकाण्डम् ६ अपनीयाश्रमाद्रामं यन्मृगच्छद्मना त्वया । आनीता रामपत्नी सीं तत्ते कातरैलक्षणम् ॥ ६९ ॥ कातर्यं च न ते युद्धे कदाचित्संसराम्यहम् । तत्तु भाग्यविपर्यासानूनं ते पकलक्षणम् ॥ ७० अतीतानागतार्थज्ञो वर्तमानविचक्षणः॥ मैथिलीमाहतां दृष्ट्वा ध्यात्वा निश्वस्य चायतम् ॥ ७१ ॥ सत्यवाक्स महाभागो देवरो मे यदब्रवीत् ।। सोयं राक्षसमुख्यानां विनाशः पर्युपस्थितः । कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ॥ ७२ निधृत्तस्त्वत्कृतेऽनर्थः सोयं मूलहरो मुहान् ॥ त्वया कृतमिदं सर्वमनाथं ऍक्षसां कुलम् ॥ ७३ ॥ न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः ॥ स्त्रीस्खभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ॥ ७४ सुकृतं दुष्कृतं च त्वं गृहीत्वा खां गतिं गतः आत्मानमनुशोचामि त्वेंद्वियोगेन दुःखिता ॥७५॥ सुहृदां हितकामानां न श्रुतं वचनं त्वया ॥ भ्रातृणां चापि कातर्येन हितमुक्तं त्वयाऽनघ ॥७६॥ हेत्वर्थयुक्तं विधिवच्छेयस्करमदारुणम् । विभीषणेनाभिहितं न कृतं हेतुमवया ॥ ७७ ॥ मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तदा ॥ नैं श्रुतं वीर्यमतेन तस्येदं फलमीदृशम् ॥ ७८ ॥ नीलजीमूतसंकाश पीताम्बर शुभाङ्गद । खगात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः । प्रसुप्त इव शोकार्ता किं मां न प्रतिभाषसे ॥ ७९ ॥ महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः ॥ यातुधानस्य दौहित्र किं च मां नाश्युदीक्षसे ॥ ८० ॥ उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे । अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः ॥ ८१ ॥ येन मृदयसे शत्रुन्समरे सूर्यवर्चसा ॥ वजो वजधरस्येव सोयं ते सततार्चितः॥ ८२ ॥ रणे शत्रुप्रहरणो हेमजालपरिष्कृतः । परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ॥ ८३ ॥ प्रियामिवोपगुह्य त्वं शेषे समरमेदिनीम् ॥ अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् ॥ ८४ ॥ धिगस्तु हृदयं यस्या ममेदं न सहस्रधा त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् ॥ ८५ ॥ शानिना ।। ६८ ॥ त्वया कर्ता मृगच्छना मृग- | तं वचनं त्वया हेतुमद्युक्तिमद्यथा भवति तथा न रूप्रकृपद्रोपायेन । कातर्यलक्षणं कातर्यसूचनं ।।६९ गृहीतं । ज्ञातित्वेन मद्यसनं काझसे इत्यादिना ते युद्धे कार्ये काचिदपि न स्मरामि न जानामी- हेतूपपादनपूर्वकं न गृहीतमित्यर्थः ७७ मारीच त्यर्थः। एवमसतरप्रकृतेस्तव भाग्यविपर्यासात् य- | कुम्भकर्णाभ्यां सह मम पितुर्मयस्य वाक्यं न श्रुतं कातर्यं चौर्यरूपमस्ति तत् पकलक्षणं पकत्वलक्षणं । तस्य अश्रवणस्य ईदृशं फलं आगतमिति शेषः विनाशझपकमिति यावत् । महतो हीनकृत्यं हानि- | अत्रानुवादान्मयोप्यस्तीत्यवगन्तव्यं ७८ ॥ नीले करमिति लोकप्रवादादिति भावः । ७० अतीते- | यादि सार्धश्लोक एकान्वयः विनिक्षिप्य भूमौ त्यादिसार्धश्लोकद्वयमेकान्वयं ॥ देवो यदब्रवीत् प्रसार्य प्रसुप्त इव शेषे, शोकार्ता मां च किमिति न अयं तद्वाक्यार्थभूतो विनाशः प्रसङ्गिना प्रसक्तेन । प्रतिभाषस इत्यन्वयः ७९ ॥ यातुधानस्य माल्य व्यसनेन हेतुना पर्युपस्थितः ।। ७१-७२ । त्वङ्- | वतः। सुमालिनो वा त्संबन्धकीर्तनमप्रतिहतकु ते त्वन्निमित्तं । निद्रेतः प्रवृत्तः ७३ कारुण्ये । लप्रभावप्रकटनाथे ८० -८१ ॥ येनेत्यादिश्लोक दैन्ये ॥ ७४-७५ कात्येंनोक्तं हितं त्वया न । इयमेकान्वयं ते त्वया । सततार्चितः बाणैः श्रुतमित्यनुषज्यते ।। ७६ ॥ हेत्वर्थयुक्तं युक्तिप्रयोज- रामबाणैश्छिन्नः वअधरस्य वज इव स्थितः ते नाभ्यां युक्तं । विधिवत् शास्त्रोक्तप्रकारवत् । श्रेयस्करं | परिघः अद्य विशीर्णः ॥ ८२-८४ यस्या मम हितभूतं । अदारुणं सान्त्वपूर्वकं । विभीषणेनाभिहि- | हृदयं न फलते न स्फुटति । तादृशीं मां धिगित्यन्वयः [ पा० ] १ ङ.झ. साअपनीयचलक्ष्मणं. २ ट. महाबाहुर्देवो. ३ क~ट, अयं ४ ड.झ. राक्षसंकुलं. ५ ङ. च. छ. झ. म, ३. वद्विनाशेन, ६ ख, इ, झ अ ट, मुलंदशानन. ७ . चः छ. झ. ल. नक्कृतं. ८ इ. श. अ, किंमनप्रतिभाषसे.