४१६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ दशरथसुतर्राक्षसेन्द्रयोर्जयमनवेक्ष्य रणे स राघवस्य ॥ सुरवररथसारथिर्महैत्रणगतमेनमुवाच वाक्यमाशु ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशोत्तरशततमः सर्गः ।। ११० ॥ एकादशोत्तरशततमः सर्गः ॥ १११ ॥ रावणस्य पूर्वपूर्वस्मिञ्शिरसिछि नेछिने पि पुनः पुनः शिरोन्तरप्ररोहेसति मातलिसमुद्रोधितेन रामेण ब्रह्मास्त्रेण रावण हृदयविभेदनम् ॥ १ ॥ रावणेहते हर्षादिन्द्रादिभी रामरथोपरिपुष्पवर्षणम् ॥ २ ॥ सुग्रीवविभीषणादिभिर्हर्षाच्छीरामाभि पूजनम् ॥ ३ ॥ अथ संसारयामास राघवं मातलिस्तदा ॥ अजानन्निय किं वीर त्वमेनमनुवर्तसे ॥ १ ॥ विसृजासै वधाय वमस्त्रं पैतामहं प्रभो॥ विनाशकालः कथितो यः सुरैः सोद्य वर्तते ॥ २ ॥ ततः संसारितो रामस्तेन वाक्येन मातलेः। जग्राह सशरं दीप्तं निश्वसन्तमिवोरगम् ॥ ३ ॥ यमैसै प्रथमं प्रादादगस्त्यो भगवानृषिः । ब्रह्मदत्तं महाबाणर्ममोघं युधि वीर्यवान् ॥ ४॥ ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ॥ दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्किणः ॥ ५॥ यस्य वाजेषु पवन फले पावकभास्करौ । शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥ ६ ॥ जाज्वल्यमानं वपुषा सुपुर्जे हेमभूषितम् ॥ तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ॥ ७ ॥ सधूममिव कालाग्निं दीप्तमीशीविषं यथा ॥ पर्लनागाश्ववृन्दनां भेदनं क्षिप्रकारिणम् ॥ ८ ॥ द्वाराणां परिघाणां च गिरीणामपि भेदनम् ॥ नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ॥ ९॥ इति द्वितीया ।। ३८ ॥ दशरथेति । निर्धारणे षष्ठी । | रावणं अनुवर्तसे अस्त्रस्य प्रत्यस्त्रप्रयोगमात्रं करोषि । दशरथसुतराक्षसेन्द्रयोः रामरावणयोर्मध्ये । राघवस्य विनाशकालः मानुषेण वध इत्युक्तः कालः ॥ १. जयमनवेक्ष्य महान् महाबुद्धिरित्यर्थः । सुरवररथ २ ॥ ततः संस्मारित इत्यावेकादश श्लोका एक सारथिः एनं रामं उवाच ॥३९॥ इति श्रीगोविन्दरा जविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने न्वयाः ॥ । ३–४ ॥ प्रथमं पूर्वं दण्डकारण्ये । ब्रह्मा युद्धकाण्डव्याख्याने दशोत्तरशततमःसर्गः ॥११०॥ | दत्तमित्येतद्विवृणोति-ब्रह्मणेत्यादिना ।। ५ । यस्य वाजेष्विति । पवनादीनामधिदेवतात्वेनावस्थानं । फले अथ रावणवधः-अथ संस्मारयामासेत्यादिश्लोक- | शल्ये । तेजसा सारांशेन कृतं ।। ६--८॥ द्वाराणां इयमेकान्वयं । अजानन्निव ब्रह्मास्त्रमजानन्निव एनं | रिपुगोपुराणां । नानारुधिरेति वध्यासुरभेदात् । ति० तयोर्मध्येराघवस्यजयमनवेक्ष्याऽदृष्टससुरवरस्यसारथिरिति । रणेरतोरणरतः। रणरतश्चासौरामश्च ॥ ३९ ॥ इतिदशोत्तर शततमःसरैः ॥ ११० ॥ स० संमारयामास रावणस्यब्रह्मास्त्रवध्यतामितिशेषः । अजानन्निवेत्यनेन रामस्यसार्वज्ञसूचयति ॥ १ ॥ ति० अस्यबाणस्य ब्रह्मानुग्रहवैशिष्ट्यमाह-यस्येति । वनेषु वेगसाधनपक्षेषु । तत्रतत्रपवनादीनामधिदेवतात्वेनावस्थानंबोध्यं । शरीरं मध्यभागः । आकाशमयं आसमन्ताकाशतेप्रकाशतेइत्याकाशोब्रह्मा भगवान् भूताकाशोवा । तेनव्याप्तिसामर्थे । पवनवत्वेनगतिसामर्थे । पावकादिमत्वेनदुस्सहत्वं । तर्हिलधुःस्यात्तत्राह -गौरवे इति ॥ ६॥ रामानु० द्वाराणां पुरद्वाराणां गोपुराणामितियावत् ॥ [पा० ] १ क, ख. च. -झ. राक्षसेन्द्रयोस्तयोर्जयं २ ज. रणेपराजयंच. ३ क-ट. महात्मारणरतराममुवाच . ४ ख, च, छ, ज, विनाशःकथितोरामसुरैःसोद्यप्रवर्तते ५ ज, झ. ट. यंतस्मै. ६ ज. मादाय. ७ क. ख. ङ. च. झ. अ. ट. माशविषोपमं. ८ झ. नरनागाश्वः ख, ङ, छ, ज, ट. रथनागाश्व• ९ ग. ङ. च. छ. झ. तः ट. दिग्धाङ्ग.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२०
दिखावट