पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४०१

एष ब्रह्म च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपां-पतिः ॥८॥ पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाप्राण अतुकर्ता प्रभाकरः ॥ ९ ॥ सर्वदेवात्मकत्वमाह-एष ब्रहोत्यादिना । अयमेव | कालशब्देन मृत्युरुच्यते । यमस्तु ततोन्यः। मरुतः ब्रह्मादिसमस्तदेवताशरीरे वर्तत इत्यर्थः । प्रजापति- | आवहादिवायवः । वायुभूलोकसंचारी । प्राणः रिति जात्येकवचनं । नव प्रजापतय उच्यन्ते । शरीरान्तःस्थो वायुः । अतुकर्तेति प्रभाकरविशेषणं । सर्वदेवामकायनमः। तेजस्वी सर्वभासनसमर्थतेजोयुक्तः । तेजस्खिननमः । रश्मिभिः ज्ञानरश्मिभिः सर्ववस्तुजातं भावयति सत्तास्फूर्तिमत्संपादयतिसः। रश्मिभिर्योगिनोभावयति ब्रह्मलोकंप्रापयतीत्यर्थ इत्यन्ये । अत्रएषपातीत्युक्तया सूर्यस्यपुरतःस्थितः त्वनिर्देशेनसूर्योदयकालेएतत्स्तोत्रदानमितिलभ्यते । स० सर्वसत्ताप्रदत्वाचासावुपास्यइत्याह-सर्वेति । एषः सूर्यनारायणः । सर्वदेवात्मकः सर्वदेवसत्तानांभगवदधीनत्वात्तदात्मकत्वोक्तिः । सर्वदेवानामपि आस्मकं स्वरूपानन्दो यस्मादितिव । शि० रश्मिभानां सूर्यकिरणदीप्तीनां अवनोरक्षकः एषसूर्यान्तर्वतरामः तनि० स्कन्दःसंसारदुःखंस्कलंकरोतीतिस्कन्दः महेन्द्रवरुणइतिपाठे वरुणोवर्णपदाभिधेयः । ‘‘वरुणोवारुणवृक्षः” इतिसहस्रनामोक्तेः । ती० ‘‘यएषोन्तरादित्ये हिरण्मयः पुरुषोडश्यते”इत्युक्तयोगिजनसाक्षात्कारेणएषइतिपुनःपुनर्निर्देशः । ब्रह्म चतुर्मुखशरीरः । ‘तवान्तरात्माममचयेचन्येदेहिसं- ज्ञिताः"इतिशिवंप्रतिचतुर्मुखवचनात् । विष्णुः उपेन्द्रावतारः शिवः। शिवशरीरकः ‘सब्रह्मसशिवःसहरिः सेन्द्रः” इत्युभयत्रापि श्रुतेः । स्कन्दः ‘स्कन्दिगतिशोषणयोः’ इतिधातोः शशून्शोषयतीतिस्कन्दः । षण्मुखशरीरकोवा । प्रजापतिः ‘प्रजापतिश्चर ति गर्भ अन्तः” इत्युक्तप्रजापतिशब्दवाच्यः । महेन्द्रः स्खरूपतऐश्वर्यंतश्वनिरवधिकः । ‘इन्द्रनिचिक्युःपरमेव्योमन् इन्द्रोमायाभिः पुरुरूपईयते’इतिश्रुतेः। धनदः ‘‘अन्नादोवसुदान’’ इतिश्रुतिप्रसिद्धःसकलफलप्रदः। कल: जगत्संहारकः। ‘कालायमहाग्रासायवै . नमः । अत्ताचराचरभहणात्” इतिश्रुतिसूत्राभ्यां ‘अनदिर्भगवान्कालःइतिपराशरस्मरणच । यमः यमयति शिक्षयतीतियमः। ‘यमोवैवस्खतोराजायस्तवैषहृदि स्थितःइतिमनुस्मरणात् । सूते अमृत मितिसोमः। ‘षु प्रसवैश्वर्ययोःइतिधातुः । ‘सोमःपवतेजनिता म तीनां जनितादिवःइत्याद्युक्तसकलकारणसोमशब्दवाच्यः। अपांपतिः ‘आपोनाराइतिप्रोक्ताआपोवैनरसूनवः। अयनंतयताः पूर्वतेननारायणस्मृतः”इत्युक्तेः । ‘अपएवससर्जादौइत्युक्तेश्वछंदवाच्यानांस्वामी ॥ ति० एषः ‘एषोन्तरादित्येहिरण्मयः पुरुषः’ इतिश्रुतेर्योगजनितसाक्षात्कारविषयःपुरोदृश्यमानश्च। ब्रह्म निस्तुलैश्वर्यविद्यास्रहृत्वशक्तिः । ब्रह्मणेनमः। विष्णुः खसृष्ट परिपालनप्रयोजकतयापरिगृहीतविष्णुमूर्तिर्नारायणः । विष्णवेनमः। शिवः अपरिमितकल्याणपुण्यस्वभावः । मृगपरश्वादिचि होभगवान्महादेवश्च। शिवायनमः । जीवज्योतिह्रासर्वाणीन्द्रियाणिस्कन्दतीतिस्कन्दः। भगवान्मयूरवाहनश्व। स्कन्दायनमः प्रजानां जन्यवस्तूनांस्वामी । खशक्तिद्वारासर्वोपादानखात् । दशयज्ञायुधचिहभगवान्यज्ञेश्वर । प्रजापतयेनमः । महेन्द्रः ‘इदिपरमैश्वर्यं’ ‘‘ष्टन्सर्वधातुभ्यः ” परमैश्वर्यंकाष्ठांप्राप्तः । वब्रहस्तत्वादिचिह्नदेवराजश्च। महेन्द्रायनमः। धनचैतन्यंसवनुग्र हायसर्वस्यान्तर्ददातिस्थापयतीतिधनदः। ‘अन्नादवसुदानःइत्युक्तसकलफलदः। कुबेरश्च । धनदायनमः । कालः बुद्धिवृत्ति जातमपरोक्षतयाकलयतीतिकालः । मण्डलस्पन्दानुमेयक्रियापरिच्छेदकश्चकालः । कालयनमः । यमयतीतियमः सर्वान्तर्यामी । ‘यमोवैवस्खतोराजायस्तवैषहृदिस्थितः। तेनचेद विवादस्तेमागङ्गांमाकुरून्गमः । अविवादोऽभेदाभावइतिमनुः । पितृपतिश्च । यमायनमः । सोमः उमा उः केवलनिपातः । मा प्रभा उ सर्वदाप्रभयासहितःसोमोभगवानर्धनारीश्वरश्च । ‘‘सोमःपवतेजनित मतीन”इतिश्रुतेः सर्वकारणंसमशब्दवाच्यं । उमयाशक्त्याप्रकृत्याख्ययासहितइत्यर्थमन्ये । सोमायनमः । आपःसत्त्वंचित्ता- मकं तस्यान्तःकरणोपाधिवशतोऽनन्तस्यपतिः वरुणश्च । अपांपतयेनमः स० एषः प्रत्यक्षमण्डलान्तर्वत । ब्रह्मा गृहयति वर्धयतिभतानितितथा ।‘सर्ववेष्टयितृत्वाच्चविशिष्टबलतस्तथा । विष्णुरित्यभिधामयंसा नयुक्तादिवौकसाम्'इत्यैतरेयभाध्यदि शाप्यथबोध्यः । शिवमङ्गलमस्यास्तीतिशिवः। अर्शआद्यच् । शिवयतीतिवातथा ।‘‘तत्करोतीतिण्यन्तात्पचाद्यच ।‘‘शःस्यान्नपुं सकेशास्त्रेयशसीन्ब्रशरासने । तूष्णींगतेसुखे’’इतिनानार्थरत्नमालोक्तेः । शंसुखमेषामस्तीतिशिनोमुक्ताः तान्वर्तयतीतिवा। स्कन्द नात् जलशोषणात् स्कन्दः । स्कन्दान्तर्गतत्वेनच्युतत्वारस्कन्दः । ‘‘स्कन्नवात्स्कन्दतांप्राप्तः'इतिभारतदानधमोंक्तेः । प्रजापा लकत्वात्प्रजापतिः। प्रकर्षेणजनयतीतिप्रजः । नविद्यतेपतिर्यस्यसोपतिः । प्रजश्वसावपतिवेतितथेतिवा ॥ स० मनुः सर्वज्ञः। ‘मनुअवबोधने’इतिधातुः। ती० पितरः अग्निष्वात्तादयः। सदावसन्तीतिवसवः। तेचाळूौ । सिद्धिरेषामस्तीतिसाध्याः अर्शआद्यच्। तेचद्वादश । अश्विनौ बडबारूषिण्यांआदियमहिष्यांसंज्ञयाऽश्वरूपयुक्तस्यादित्यस्यतस्यांजातावश्विनौ । म्रियन्तेन कदाचिदितिमरुतः । तेचवायुपुराणोक्ताः शुक्रज्योतिःप्रभृतय एकोनपञ्चाशत् । मननान्मनुः । ‘नान्योतोस्तिमन्ता'इतिश्रुतेः। वाति सुरभीकरोतीतिवायुः। ‘वा गतिगन्धनयोः’ इतिधातुः । “सर्वगन्धःसर्वरसःइतिश्रुतेः। वहतिहव्यमितिवहिः ‘वहप्रा पणे’। प्रजाप्राणः प्रजानांप्राणनहेतुः । इयतीतिक्रतुः । ‘ऋगतौ’। ‘‘तुः सुदर्शनः कालः” इतिसहस्रनामपाठात् । कर्ता तेन वा• रा. ३२८