३९४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ दशग्रीवं जयेत्याहुरसुराः समवस्थिताः ॥ देवा राममथोचुस्ते त्वं जयेति पुनः पुनः ॥ ८ ॥ एतस्मिन्नन्तरे क्रोधाद्राघवस्थ स रावणः॥ प्रहर्तुकामो दुष्टात्मा स्पृशन्प्रहरणं महत् ॥ ९ ॥ वज्ञसारं महानादं सर्वशत्रुनिबर्हणम् ॥ शैलशृङ्गनिभैः कूटैधितं दृष्टिभयवहम् ॥ सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् । अतिरौद्रमनासाधं कालेनापि दुरासदम् ॥ ११ ॥ त्रासनं सर्वभूतानां दारणं भेदनं तदा ॥ प्रदीप्तमिव रोषेण शूलं जग्राह रावणः॥ १२ ॥ तच्छूलं परमक्रुद्धो मैध्ये जग्राह वीर्यवान् । अनेकैः समरे शूरै राक्षसैः परिवारितः॥ १३ ॥ समुद्यम्य महाकायो ननाद युधि भैरवम् । संरक्तनयनो रोषात्स्खसैन्यमभिहर्षयन् ॥ १४ ॥ पृथिवीं चान्तरिक्षे च दिशश्च प्रदिशस्तथा ॥ प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः॥ १५॥ अतिनादस्य नादेन तेन तस्य दुरात्मनः ॥ सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ॥ १६ ॥ स यहीत्वा महावीर्यः शूलं तद्रावणो महत् ॥ विनद्य सुमहानादं रामं परुषमब्रवीत् ॥ १७ ॥ शूलोऽयं वङ्गसारस्ते राम रोषान्मयोद्यतः। तव भ्रातृसहायस्य सद्यः प्राणान्हरिष्यति ॥ १८ ॥ रक्षसामद्य शराणां निहतानां चमूमुखे । त्वां निहत्य रणश्लाघिन्करोमि तरसा समम् । तिष्ठेदानीं निहन्मि त्वामेष शलेन राघव ॥ १९ ॥ एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥ २० ॥ तद्रावणकरान्मुक्तं विद्युज्ज्वालासमाकुलम् ॥ अष्टघण्टं महानादं वियद्गतमशोभत ॥ २१ ॥ तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम् ॥ ससर्ज विशिखत्रामश्चापमायम्य वीर्यवान् ॥२२॥ आपतन्तं शरौघेण वारयामास राघवः ॥ उत्पतन्तं युगान्तानिं जलौघेरिव वासवः॥ २३ ॥ निर्ददाह स तान्बाणानामकार्मुकनिस्टुतान् । रावणस्य महाशूलः पतङ्गानिव पावकः ॥ २४ ॥ दृष्टुतान्भस्मसाद्भुताञ्शलसंस्पर्शचूर्णितान् ॥ सायकानन्तरिक्षस्थात्राघवः क्रोधंमाहरत् ॥ २५ ॥ स तां मातलिनाऽऽनीतां शक्तिं वासवनिर्मिताम् ॥ जग्राह परमक्रुद्धो राघवो रघुनन्दनः ॥ २६ ॥ माना इत्यर्थः । भक्त्या प्रेक्षमाणाः सन्तः प्रहृष्टवद्वा- | शत्रुभिरप्रधृष्यं । कालेन यमेन दारणं क्रकचवत्कृ क्यमूचुरिति संबन्धः ॥ ७ ॥ तद्वाक्यं विविच्य | न्तनं । भेदनं द्विधाकरणं । दुष्टात्मा रावणः राघवस्य दर्शयति-दशमीवमिति । यद्यप्यसुराणामपि रावणो | क्रोधात् प्रहर्तुकामः महस्प्रहरणं स्पृशन्सन् वङ्गसार बाधकः तथापि देवानामतिशयो मा भूदित्यसूयया | त्वादिविशिष्टं शूलं रोषेण प्रदीप्त इव स्थिता रावणो रावणं वर्धयन्तीति बोध्यम् ॥ ८ ॥ । एतस्मिन्नन्तर | जग्राहेति संबन्धः ॥ ९–१६ ॥ विनयेति । पूर्व इत्यादिश्लोकचतुष्टयमेकान्वयं । राघवस्य क्रोधात् । शलोद्यमनजनितोरसाहकृतो नाद उक्तः । इह प्रक्षेप राघवविषयक्रोधात् । प्रहरणं आयुधं । स्पृशन् परामृजनितोत्साहकृतो नाद इति विवेकः ॥ १७-१८ ॥ शन् । किं वेदानीं ग्रहीतुमुचितमिति क्षणं चिन्तय- | रक्षसामित्यादिसार्धश्लोकमेकान्वयं । त्वां विनिहत्य न्नित्यर्थः । कूटैः शिखराकारैरयःशत्रुभिः चितं युक्त- | रक्षोभिः समं करिष्यामीत्यर्थः । “ तुल्यार्थः ” इत्या मित्यर्थः । अतिरौद्रं रौद्रं शूलमतिवर्तमानं । अनासाद्य दिना षष्ठी । १९--२० ॥ विद्युज्वाला विद्युत्सह- स० यद्यपि पूर्वसुरासुराइतिसमीरणाद्देवाराममथोचुरितिपूर्वेदेवाः पूर्वदेषास्तुतदनन्तरमुदाहर्तव्याः । तथापि तेषांबाहुल्यात द्याच्यायानैष्फल्यान्निर्देशमात्रेणमाननीयताभिषेणनद्वप्रथमतोनिर्देशः । तत्रापिसाधवोसुरारामपक्षपातिनःसन्तीति विशेषद्योतनाय युक्रमनिर्देशध्वेतिवारामपराजयरूपोव्युत्क्रमोन। अपितु निर्देशमात्रतिज्ञापनायवाऽयंनिर्देशइतिीयम् ॥८॥ स० भ्रातृसहायस्य लक्ष्मणमात्रसहायकस्य मड्रातृविभीषणसहायस्यया ॥ १८ [ पा० ] १ क, ख. झ. ज. ट, कूटैश्चित्तदृष्टि, २ च. छ, भयावहैः , ३ क ख. ङ. च. छ. झ. अ, ट, जग्राहयुधि ४ ङ, झ , क्रोधमूर्चिछतः
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९८
दिखावट