पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः १०४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३९३ राममार्त तदा दृष्ट्वा सिद्धाश्च परमर्षयः ॥ व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ॥ ३१ ॥ रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ॥ प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् । समाक्रम्य बुधस्तस्य प्रजानामशुभावहः॥ ३२ ॥ सधूमपूरिवृत्तोर्मिः प्रज्वलन्निव सागरः ॥ उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ॥ ३३ ॥ शत्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः । अदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना ॥ ३४ ॥ कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ॥ आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ॥३५॥ दशास्यो विंशतिभुजः प्रगृहीतशरासनः॥ अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥ ३६ ॥ निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ॥ नाशक्नोदभिसंधातुं सायकात्रणमूर्धनि ॥ ३७ ॥ स कृत्वा भृकुटिं क्रुद्धः किंचित्संरक्तलोचनः॥ जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥ चतुरुत्तरशततमः सर्गः ॥ १०३ ॥ रामेण मातलिसमानीतेन्द्रशत्वया रावणविसृष्टशूलविभेदनपूर्वकं रावणललाटोरसिबाणैः प्रहरणम् ॥ १ ॥ तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ॥ सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ॥ १॥ सिंहशार्दूलवाञ्शैलः संचचाल चलङ्गमः ॥ बभूव चातिसृभिः समुद्रः सरितांपतिः ॥ २ ॥ खगाश्च खरनिर्घषा गगने परुषा घनाः। औत्पातिकानि नर्दन्तः समन्तात्परिचक्रमुः ॥ ३ ॥ रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्च सुदारुणान् । वित्रेसुः सर्वभूतानि रावणस्याभवद्भयम् ॥४॥ विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः॥ ऋषिदनवदैत्याश्च गरुत्मन्तश्च खेचराः॥ ५॥ ददृशुस्ते महायुद्धं लोकसंवर्तसंस्थितम् । नानाप्रहरणैर्भीमैः शूरयोः संप्रयुध्यतोः ॥ ६ ॥ ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः ॥ प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥ ७ ॥ कृत्य । रथात् रथावयवदण्डात् ॥ २९-३१ ॥ | श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या- रामस्य तादृशदशादर्शनेन संजातानि दिव्यानि | ख्याने युत्तरशततमः सर्गः ॥ । १०३ ॥ भौमानि च वैकृतान्याह-रामचन्द्रमसमित्यादिना । प्राजापत्य नक्षत्रं प्रजापतिदेवताकनक्षत्रभूतां रोहिणीं । अथ रावणस्य शैलोद्धरणं चतुःशततमे-तस्येत्यादि बुधे रोहिणीं प्राप्ते जगत्पीडा भवतीति भावः ॥३२-॥१-२।। औत्पातिकानि उत्पातसूचकानि । नर्दन्तः ३३ ॥ शत्रवर्णः असिश्यामः ॥ ३४ ॥ कोसळानां | गर्जन्तः ॥ ३–४ ॥ विमानस्था इत्यादिश्लोकद्वयमे इक्ष्वाकूणां । विशाखायास्तन्नक्षत्रत्वमेतकाण्डचतुर्थ- | कान्वयं। लोकसंवर्तस्य प्रलयस्येव संस्थितं संस्थानं यस्य सर्गे दार्शतं ।। ३५-३६ । अभिसंधातुं धनुष्यारो- | तत्तथोक्तं ॥ ५–६ ॥ विग्रहमागताः विग्रहं युद्धे पयितुं ॥ । ३७ ॥ अथैतद्दर्शनेन रामकोपं दर्शयति-स | उद्दिश्यआगताः । युद्धे द्रष्टुमागता इत्यर्थः । यद्वा कृत्वेति ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते विग्रहमागताः रामरावणपक्षपातात् परस्परं कलहाय ति० एतेउत्पातारामस्यतथामनुध्यधर्मेनटनसूचकाइतिबोध्यं ॥ ३७ ॥ ती० क्रुद्धः सरामः सुमहाक्रोधंजगाम । सुमहाक्रोधप्राप्तौ खजनार्तिभृतवैपरीत्यंरावणपराक्रमश्चनिमित्तं ॥ ३८ ॥ इतियुत्तरशततमःसर्गः ॥ १०३ ॥ स० उत्तरमन्थेनसहैकखण्डःएकोनसप्ततिश्लोकात्मासर्गइतिकेचिदाहुः । सर्गान्तिमश्लोकवृत्तादिभेदस्यप्रायिकत्वात् ‘तस्यक्र- द्धस्य’इतिसर्गप्रारंभपयामिति केचित् ॥ १ ॥ [ पा० ] १ ख. ग. ङ.-ट, तदायुद्धे. वा, रा. २२७