सर्गः १०५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३९५ सा तोलिता बलवता शक्तिर्घण्टाकृतखना । नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ॥ २७ ॥ सा क्षिप्त राक्षसेन्द्रस्य तसिशूले पपात ह ॥ भिनः शक्त्या महाञ्शूलं निपपात हैतद्युतिः। [ साधुसाध्विति भूतानि प्रशशंस् रघूत्तमम् ॥ २८ ॥ निर्बिभेद ततो बाणैर्हयानस्य महाजवान् ॥ ऍमस्तीक्ष्णैर्महावेगैर्वजकल्पैः शितैः शरैः ॥ २९ ॥ । निर्बिभेदोरसि ततो रावणं निशितैः शरैः॥ राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ॥ ३० ॥ स शरैर्भिन्नसर्वाङ्गो गात्रमनुतशोणितः। राक्षसेन्द्रः समूहस्थः क्रुद्धाशोक इवाबभौ ॥ ३१ ॥ स रामबाणैरभिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः॥ जगाम खेदं च समाजमध्ये क्रोधं च चक्रे भुभृशं तदानीम् ॥ ३२॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरुत्तरशततमः सर्गः ॥ १०४ ॥ पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥ रामेणरावणंप्रति सीताहरणरूपकुकर्मानुव्याहरणेनगर्हणपूर्वकं बाणगणाभिवर्षणम् ॥ १ ॥ रामबाणगणाभिघातनिर्विण्ण- तया कर्तव्यमूढेसतिरावणे तसारथिना रणाङ्गणादन्यतोरथापवाहनम् ॥ २ ॥ स तेन तु तथा क्रोधात्काकुत्स्थेनार्दितो रणे । रावणः समरश्लाघी महक्रोधमुपागमत् ॥ १ ॥ स दीर्तनयनो रोषाच्चापमायम्य वीर्यवान् ।। अभ्यर्दयन्सुसंक्रुद्धो राघवं परमाहवे ॥ २॥ बाणधारासहस्रैस्तैः सतोयद इवाम्बरात् । राघवं रावणो बाणैस्तटाकमिव पूरयत् ॥ ३ ॥ पूरितः शरजालेन धनुर्मुक्तेन संयुगे। महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ॥ ४ ॥ स शरैः शरजालानि वारयन्समरे स्थितः । गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥ ५ ॥ ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ॥ निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥ ६ ॥ स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः ॥ दृष्टः फुछ इवारण्ये सुमहान्कियुकद्रुमः ॥ ७ ॥ शराभिघातसंरब्धः सोपि जग्राह सायकान् ॥ काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः । ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ ॥ शरान्धकारे समरे नोपलक्षयतां तदा॥ ९॥ ततः क्रोधसमाविष्टो रामो दशरथात्मजः ॥ उवाच रावणं वीरः प्रहस्य परुषं वचः ॥ १० ॥ शज्वाला ।२१--२८ । । बाणैः शब्दायमानैः। ‘अण | युद्धकाण्डव्याख्याने चतुरुत्तरशततमः सर्गः ॥१०४॥ बाण शब्दे’ इत्यस्मात् पचाद्यच् । बाणशब्दः शरभेद संज्ञेत्यप्याहुः ।२९। पत्रिभिस्त्रिभिरिति प्रयोगभेदान्न- | अथ श्रान्तस्य रावणस्य सूतेन रथापवाहनं पञ्च- पुनरुक्तिः। पत्रिभिः पत्रवद्भिरित्येके ॥३०॥ समूहस्थः | शततमे-स तु तेनेत्यादि । १-२। बाणधारास युद्धस्थः ॥ ३१ ॥ समाजे युद्धे ॥३२। इति श्रीगोवि- | हलैः हेतुमिः तोयद इव रावणः तैः धाराभूतैः बाणैः न्द्रराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने | तटाकमिव रामं पूरयत् अपूरयत् ।।३-८॥ अन्योन्यं स० बाणवद्भिः ‘‘वणशब्दे बाणेयेके” इयुकेःशब्दायमानैः । बाणवद्भिः केषुचित्प्रधानेषुसाऽऽयाविसृष्टेर्विषुषु तेभ्योपिराम- माहात्म्येननिस्सरन्तिबाणाइतिबाणानांबाणवत्वंसंभवतीतिवातथोक्तिः ॥ १९ ॥ ति० समूहस्थः समूहतयास्थितः । बहुशिरः पाणित्वात्तथाङ॥ ३१ ॥ इतिचतुरधिकशततमःसर्गः ॥ १०४ ॥ ३ झ, [पा० ] १ क. ङ. --ट. गतद्युतिः, ख. ग. महाद्युतिः . २ इदमर्घ क. ख. च. छ. पाठेघश्यते. , ठरामः क्षितैर्महावेगैर्वाणवद्भिरजिह्मगैः.४ च, छ, ज, ट. सुभृशंदशास्यः. ५ ङ.--ट, भृशं, ६ ख. ङ. ---ट. दीप्तनयनोमर्षाच्चापमुद्यम् .
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९९
दिखावट