३८८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ स दवा तुमुलं युद्धं रावणस्य दुरात्मनः॥ विसृजन्नेव बाणौघान्सुषेणं वाक्यमब्रवीत् ॥ २ ॥ एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ ॥ सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥ ३ ॥ शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम ॥ पश्यतो मम का शक्तियद्वै पर्याकुलात्मनः ॥ ४ ॥ अयं स समरश्लाघी भ्राता मे शुभलक्षणः ॥ यदि पञ्चत्वमापन्नः प्रागैमें किं सुखेन च ॥ ५॥ लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ॥ सायका रूपवसीदन्ति दृष्टिर्बाष्पवशं गता ॥ अवसीदन्ति गात्राणि खनयाने नृणामिव ॥ ६ ॥ चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते । भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ॥ ७ ॥ विनिष्टनन्तं दुःखार्त मर्मण्यभिहतं भृशम् । राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्वरम् ॥ दुःखेन महताऽऽविष्टो ध्यानशोकपरायणः ॥ ८ ॥ परं विषादमापन्नो विललापाकुलेन्द्रियः ॥ ९ ॥ न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ॥ भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ॥ १० ॥ किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते । यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥ ११ ॥ देशे देशे कलत्राणि देशेदेशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सदोहरः॥ १२॥ [ किंठं राज्येन दुर्धर्षे लक्ष्मणेन विना मम ॥ कथं वक्ष्याम्यहं त्वंयां सुमित्रां पुत्रवत्सलाम् ॥ उपालंभं न शक्ष्यामि सोढं दत्तं सुमित्रया ॥ १३ ॥ किंनु वक्ष्यामि कौसल्यां मातरं किंनु कैकयीम् । भरतं किंनु वक्ष्यामि शत्रुघ्नं च महाबलम् । सह तेन वनं यातो विना तेनागतः कथम् ॥ १४ ॥ इहैव मरणं श्रेयो न तु बन्धुविगर्हणम् ॥ १५ ॥ किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि ॥ येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः ॥१६॥ हा भ्रातर्मनुजश्रेष्ठ शूराणप्रखर प्रभो ॥ एकाकी किंनु मां त्यक्त्वा परलोकाय गच्छसि । विलपन्तं च मां भ्रातः किमर्थं नावभाषसे ॥ उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा । शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च ॥ विषण्णस्य महाबाहो समावासयिता मम ॥ १९॥] इयेवं विलपन्तं तं शोकविह्वलितेन्द्रियम् । विवेष्टमानं करुणमुच्यसन्तं पुनः पुनः। राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् ॥ २० ॥ वर्तमाननिर्देशेन रावणपलायनानन्तरं लक्ष्मणयोगक्षे- | दृढेति पूर्वशेषः ।। ६–७ ॥ विनिष्टनन्तमित्यादि मानुसंधाने अविलम्बः सूचितः ॥१-२। उदीरयन् | सार्धश्लोकमेकं वाक्यं । विनिष्टनन्तं निश्वसन्तं । जनयन् ॥ ३ ॥ प्राणैः प्राणेभ्यः ॥४--५॥ लज्जती वेत्यादिसार्धश्लोकद्वयमेकान्वयं । लज्जतीव । आर्ष | ध्यानशोकपरायणः अभूदेति शेषः ॥ ८ ॥ परं परस्मैपदं । स्वग्नयाने स्वनगमने। स्वप्ने हि गच्छतां । विषादमित्यर्ध ॥ राघव इत्यनुषजनीयं ॥ ९॥ दृष्ट्वा पुरुषाणां पादाः पश्चादाकृष्टा भवन्ति । भ्रातरं निहतं स्थितस्येति शेषः ॥ १० ॥ यत्र यतः ॥ ११-२० ॥ स० सहोदरः तत्तुल्यः । पायसस्यकौसल्याविभागादुद्धृतस्यसुमित्रायैप्रदानाग्निमिसाद्वलक्ष्मणस्यसाहोदयै । सहोदरस्यमेलनं भवेत् असहोदरःसन्नेतादृशोभ्रातयत्रमिलेत्तंदेशंनपश्यामीत्यर्थावा । भिन्नोदरेएतादृशंसौहार्ददुर्लभमितिभावः ॥ १२ ॥ [ पा© ] १ झ. प्राणैप्रियतरं. २ किंनुराज्येनेत्यादयः समाश्वासयिताममेव्यन्ताःलोकाः ङ. झ. अः ट. पाटेषुदृश्यन्ते. ३ इत्येवमित्यादीनां स्रस्तगात्रस्यभूतलइत्यन्तानांलोकानांस्थाने ङ. झ. ध. ट. पाठेषु ‘‘राममेवंब्रुवाणंतुशोकव्याकुलितेन्द्रियम् । आश्वासयनुवाचेदंसुषेणःपरमंवचः । त्यजेमांनरशार्दूलबुर्जुवैक्लव्यकारिणीम् । शोकसंजननींचिन्तांतुल्यांबाणैश्चमूमुखे ।
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९२
दिखावट