३७६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ विरूपाक्षः स्खकं नाम धन्वी विश्राव्य राक्षसः ।। रथादाप्लुत्य दुर्धर्षों गजस्कन्धमुपारुहत् ॥ १४ ॥ सं तं द्विरदमारुह्य विरूपाक्षो महारथः । विनदन्भीमनिह्रदं वानरानभ्यधावत ॥ १५॥ सुग्रीवे स शरान्घोरान्विससर्ज चमूमुखे । स्थापयामास चोद्विग्नात्राक्षसान्संप्रहर्षयन् ॥ १६ ॥ स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ॥ चुक्रोध स महाक्रोधो वधे चास्य मनो दधे ॥१७॥ ततः पादपमृद्धत्य शूरः संप्रधनो हरिः । अभिपत्य जघानास्य प्रमुखे तु महागजम् ॥ १८ ॥ स तु प्रहाराभिहतः सुग्रीवेण महागजः । अपासर्पद्धनुर्मात्रं निषसाद ननाद च ॥ १९ ॥ गज़त मथितार्णमपक्रम्य स वीर्यवान् । राङ्सोऽभिमुखः शठं प्रत्युद्गम्य ततः कपिम् ॥ २०॥ आर्षभं चर्म खङ्गं च प्रगृह्य लघुविक्रमः ॥ भर्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥ २१ ॥ स हि तैस्याभिसंक्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ विरूपाक्षाय चिक्षेप सुग्रीवो जलदोषमाम् ॥२२॥ स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः ॥ अपक्रम्य सुविक्रान्तः खड्रेन प्राहरत्तदा ॥ २३ ॥ तेन खङ्गप्रहारेण रक्षसा बलिना हतः । मुहूर्तमेभवद्वीरो विसंज्ञ इव वानरः ॥ २४ ॥ स तदा सहसोत्पत्य राक्षसय महाहवे । मुष्टिं संवत्य वेगेन पातयामास वक्षसि ॥ २५ ॥ सृष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः। तेन खड्रेन संक्रुद्धः सुग्रीवस्य चमूमुखे । कवचं पातयामास पेयमभिहतोपतत् ॥ २६ ॥ स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् । तलप्रहारमशनेः समानं भीमनिस्वनम् ॥ २७ ॥ तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् । नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ॥ २८ ॥ ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः । मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा । स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥ २९ ॥ ततो न्यपातयत्क्रोधाच्छङ्कदेशे महत्तलम् ॥ ३० ॥ महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ॥ पपात रुधिरक्लिनः शोणितं च समुद्रमन् । स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥ ३१ ॥ इति धातुः ॥ १३-१७ । संप्रधनः। बहुलग्रहणात् | मुष्टिप्रहारेत्यादिसार्धश्लोक एकान्वयः । कवचमिति। कर्तरि ल्युट्। प्रहर्तेत्यर्थः । प्रमुखे मुखे ।। १८॥ | अनेन सुग्रीवस्यापि कवचधारणमस्तीति गम्यते । धनुर्मात्रं धनुःप्रमाणं । ‘‘ प्रमाणे द्वयसच्दन्नञ्मा- । पद्यामिति । अभिहतः सन् पयामपतदित्यन्वयः त्रचः'इत्यादिना मात्रच्प्रत्ययः ।। १९ ॥ गजात्त्विति ॥ २६-२७ ॥ नैपुण्यात् शिक्षापाटवात् ।। २८ । । श्लोकद्वयमेकं वाक्यं । व्यवस्थितं निश्चलतया स्थितं | ततस्त्विति सार्धश्लोकमेकं वाक्यं । अन्तरं अवकाश ॥ २०-२२। अपक्रम्य शिळापातपरिहारार्थमन्य |॥ २९ ॥ तत इत्यञ्च । शङ्कदेशे ललाटास्थिप्रदेशे । तोपसृत्य प्राहरत् । सुग्रीवमिति शेषः।। २३-२५ । ‘शब्दो निधौ ललाटास्‘ि" इत्यमरः ॥ ३० ॥ महे ति० आर्षभं ऋषभकृत्तिपरिवीतंचर्मफलकं ॥ २१ ॥ ति० तस्यापि तेनापि । दत्तंप्रहारं संगृह्य गृही ॥ २२ ॥ रामानु० सखङ्गाभिहतोपतत् सखश्चासावभिहतश्चसखङ्गाभिहतः। विरूपाक्षप्रेरितखसहितोपतदित्यर्थः । उत्तरत्रविरूपाक्ष स्यमुनैिवयुद्धाभिधानात् । ति० अभिहतःसुग्रीवः पद्मपतत् आकुञ्चितजानुरभवदित्यर्थः ॥ ॥ इतिसप्तनवतितमः २६ सर्गः ॥ ९७ ॥ [ पा० ] १ ड. समत्तंद्विपमारुह्य २ इ. छ. झ. ब. ट. ननर्दभीम . ३ ड. झ. तस्यापिसंगृह्य, ४ ख• ङ, झ. ट. विरूपाक्षस्य. ५ ङ. झ. मभवद्वैमौ, ख, च, छ, ज, ट, मभवद्दीनो घ• मभवन्मूढो. ६ क. च. छ. ज. सखङ्गाभिहतोपतत् ट. पद्ममभिहतोभवत्।
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८०
दिखावट