३१६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६. । अथ वाऽहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे । भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ॥ ५॥ इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः । निर्ययुस्ते रथैः शीतैर्नानानीकैः सुसंवृताः ॥ ६ ॥ परिघान्पट्टिशांश्चैव शरखङ्गपरश्वधान् ॥ शरीरान्तकरान्सर्वे चिक्षिपुर्वानरान्प्रति ॥ ७ ॥ वानराश्च ङमाञ्शैलात्राक्षसान्प्रति चिक्षिपुः ॥ ८॥ स संग्रामो महान्भीमः स्रर्यस्योदयनं प्रति ॥ रक्षसां वानराणां च तुमुलः समपद्यत ॥ ९ ॥ ते गदाभिर्विचित्राभिः प्रासैः खीः परश्वधैः॥ अन्योन्यं समरे जघ्रस्तदा वानरराक्षसाः ॥ १० ॥ एवं प्रवृत्ते संग्रामे ख़ुदंतं सुमहद्रजः । रक्षसां वानराणां च शान्तं शोणितविस्रवैः ॥ ११ ॥ मातङ्गरथकूलाश्च वाजिमत्स्या ध्वजद्रुमाः । शरीरसंघाटवहाः प्रसत्रुः शोणितापगाः ॥ १२ ॥ ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः ।। ध्वजवर्मरथानश्वान्नानाप्रहरणानि च । आप्लुत्याप्लुत्य समरे राक्षसानां वभज्ञिरे ॥ १३ ॥ केशान्कर्णललाटांश्च नासिकाश्च द्वावङ्गमाः ॥ रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि भंयकर्तयन् ॥ १४ ॥ एकैकं राक्षसं सद्वये शतं वानरपुङ्गवाः॥ अभ्यधावन्त फलिनं वृक्षे शकुनयो यथा ॥ १५ ॥ तथा गदाभिर्गुर्वीभिः प्रासैः खडैः परश्वधैः॥ निजघ्नुर्वानरान्घोरात्राक्षसाः पर्वतोपमाः ॥ १६ ॥ रॉक्षसैर्युध्यमानानां वानराणां महाचमूः । शरण्यं शरणं याता रामं दशरथात्मजम् ॥ १७ ॥ ततो रामो महातेजा धनुरादाय वीर्यवान् । प्रविश्य राक्षसं सैन्यं शरवर्ष ववर्ष ह ॥ १८ ॥ प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे । नॉभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना ॥ १९ ॥ कृतान्येव सुघोराणि रामेण रजनीचराः ॥ रणे रामस्य ददृशुः कर्माण्यसुकराणि च ॥ २० ॥ चालयन्तं महानीकं विषीमन्तं र्महारथान् । ददृशुस्ते न वै रामं वातं वनगतं यथा ॥ २१ ॥ हन्तुमर्हथेत्यन्वयः ॥ ४॥ स रामो यदि हन्तुं न | वहन्तीति शरीरसंघाटवहाः ॥ १२ ॥ ततस्ते वानराः शक्येत तथापि भवतां शरैः भिन्नगात्रः स्यात् तेन । सर्वे शोणितौघपरिप्लुता इत्यारभ्य राक्षसानां बभ- तस्य वधः सुकरो मे भवेदित्यभिप्रायेणाह-अथ | जिर इत्यन्तं सार्धश्लोक एकान्वयः ॥ १३॥ रक्षसां वेति । इदानीं यूयं तं हन्तुं न शक्ताश्चेदिदानीं | केशानिति क्रमेणान्वयः । न्यकर्तयन् चिच्छिदुः तीक्ष्णैः शरैर्भवद्भिर्भिन्नगात्रं श्वो निहन्तास्मि |॥ १४–१६ ॥ राक्षसैरिति । वानरसेनाशरणा- ॥ ५–८ ॥ सूर्यस्योदयनं प्रति सूर्योदयमारभ्य | गतिरियं । राक्षसैर्वध्यमानानामित्याकिंचन्यानन्य- अन्योन्यं जघ्नुरित्यत्र शिलावृक्षाणामप्युपलक्षणं । गतिकत्वोक्तिः । शरण्यमिति दयाद्युक्तिः । राममिति । राक्षसेभ्योपहृतानि गदाखङ्गादीनि राक्षसानामिव | परत्वोक्तिः । दशरथात्मज इति सौलभ्योक्तिः वानराणामपि संभवन्तीति वा तथोक्तमिति ज्ञेयं || १७–१९ ॥ छैतान्येव ददृशुः नतु क्रियमाणान ॥ ९–११ । शरीराण्येव संघाटाः एवाः तान् | नीत्यर्थः । २० । न केवलं हस्तलाघवातिशयेन बाणवर्षाणीतिनीरदसेनोभयपक्षेपिक्रमादर्थबोध्यः । ति० शरवर्षाणि वर्षयतेति शेषः ॥ ४ ॥ ति० सूर्यस्योदयनंप्रति चतुर्दशी- सूर्योदयमारभ्येत्यर्थः । त्रयोदशरात्रिशेषेरावणस्यसीतासमीपगमनमितिबोध्यं ॥ ९ ॥ स० गदाभिरन्योन्यमित्यादितुनिहत राक्षसानामाच्छिद्यस्थापितैरिदानीमानीतैरितिवावानरैरिदानीमाच्छिनैर्गदादिभिरितिवाशेयं । अथवा वानराश्चढमाञ्छैलानिति पूर्वस्मादभिलषितविभक्तयन्ततयानुकर्षः । ततश्चटुमादिभिर्गदादिभिश्वन्योन्यंजवुरित्यन्वयःसंभवतिचायमर्थ:समसमरसमारंभ- समयखादितिमन्तव्यम् ॥ १० ॥ स० शरीराण्येवसंघाटाः काष्ठनिचयाः। वहन्तीतिवहास्तेषांवहाः। तान्वहन्तीतिनागो जिभट्टविप्रमदनमदर्शनज्ञापयतिकर्मण्यण्सूत्रस्य ॥ १२ ॥ स७ वानराणांमहाचमूः तदभिन्नासेना ॥ १७ ॥ [ पा० ॥१ ङ. झ. अ. ट. ननानीकैधसंयुताः. २ ख. च. छ. ट. व्यदारयन्. घ. इ. ज. झन् व्यकर्तयन ३ क.-ट. राक्षसैर्वध्यमानानां ४ ख. इ-ट, नाधिजग्मुः, ५ घ. व्यथयन्तं ६ ग. महाबलान्।
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७०
दिखावट