पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ १ अथैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः॥ लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ॥४२॥ बहवः शत्रवधापि संयुगेषु निपातिताः॥ त्रिषु लोकेषु रत्नानि श्रुतें चाहृत्य रावणः । विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ॥ ४३ ॥ तेषां संजल्पमानानामशोकवनिकां गताम् । अभिदुद्राव वैदेहीं रावणः क्रोधमूर्चिछतः ॥ ४४ ॥ वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः । अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव ॥ ४५ ॥ मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ॥ ददर्श राक्षसं क्रुद्धं निस्त्रिंशद्वरधारिणम् ॥ ४६ ॥ तं निशाम्य सनित्रिंशं व्यथिता जनकात्मजा ॥ निवार्यमाणं बहुशः सुहृद्भिनुवार्तिनम् । सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ॥ ४७ ॥ यथाऽयं मामभिक्रुद्धः समभिद्रवति स्खयम् । वधिष्यति सनाथां मामनाथामिव दुर्मतिः ॥ ४८ ॥ बहुशश्चोदयामास भर्तारं मामनुव्रताम् । भार्या चैव रमखेति प्रत्याख्यातो ध्रुवं मया ॥ ४९ ॥ सोयं ममानुपस्थाने व्यक्तं नैराश्यमागतः॥ क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ॥ ५० ॥ अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ । मनिमित्तमनार्येण समरेऽद्य निपातितौ ॥ ५१ ॥ [ पैरेंवो हि महानादो राक्षसानां श्रुतो मया । बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम् ॥] अहो धि-निमित्तोयं विनाशो राजपुत्रयोः ॥ ५२ ॥ अथवा पुत्रशोकेन अहत्वाँ रामलक्ष्मणौ । विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ॥ ५३ ॥ हनूमतोपि यद्वाक्यं न कृतं क्षुद्रा मया ॥ ५४ ॥ यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता ॥ नाचैवमनुशोचेयं भर्तुरङ्कगता सती ॥ ५५ ॥ मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति ॥ एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥५६॥ सा हि जन्म च बाल्यं च यौवनं च महात्मनः ॥धर्मकार्यानुरूपं च रुदन्ती संसरिष्यति ॥५७॥ निराशा निहते पुत्रे दवा श्राद्धमचेतना ॥ अग्निमारोक्ष्यते नूनमपो वाऽपि प्रवेक्ष्यति ॥ ५८ ॥ धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् । यनिमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ॥ ५९॥ इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्खिनीम् । रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ॥ ६० ॥ एतस्मिन्नन्तरे तस्य अमात्यो बुद्धिमाच्शुचिः ॥ सुपाश्व नाम मेधावी राक्षसो राक्षसेश्वरम् । निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ॥ ६१ ॥ श्रेष्ठेपि” इत्यमरः ॥ ४१–-४४ ॥ ग्रहः अङ्गारकः | भूत्व ।। ५३ ॥ हनूमत इत्यर्थ । क्षुद्रया विचार ॥ ४५-४७ । यथा यस्मादित्यर्थः ।। ४८-४९॥ | मूढया ॥ ५४ ॥ ॥ यायामनुशोचेयमिति “हेतुहेतु अनुपस्थाने अनुपस्थानात् ॥ ५० ॥ तौ निहत्य तेन | मतोर्लिइति लि ॥ ५५ ॥ प्रथमपक्षानुसारेण निस्त्रिंशेन सह प्रवेशनमपि संभवतीत्यभिप्रायेणाह- | शोचतिमन्य इति ॥ ५६ ॥ धर्मकार्यानुरूपं धर्म अथवेत्यादि ॥ ५१-५२ ॥ अत्र निमित्तान्तरमा- | कायोनुरूपत्वं ॥ ५७ ॥ अचेतना मूर्चिछता ॥ ५८ शङ्कते--अथवा पुत्रशोकेनेति । अहत्वा हन्तुमशक्तो ॥ ५९ मैथिलीं दृष्ट्वा रावणमब्रवीदित्यन्वयः ॥ ६० षायैतस्याःकिंचित् दुःखमितिशेषः ॥ ३६-३७ ॥ ति० निवार्यमाणमष्यनिवर्तिनं । अनुवर्तिनमितिपाठे अभिमुखमागच्छन्तं ॥ ४७ ॥ ति० यदाश्रोष्यते तदा फलिष्यति स्फुटिष्यति । यदिरामोपिहन्यतइतिशेषः ॥ ५६ ॥ ति० सुपाश्वनामामात्यः शुचिः शुद्धव्रतः। तदितरसचिवैरेवंवतुमयोग्यमितिनिवार्यमाणोपि रावणंप्रतीदमब्रवीत् । अस्यैवाविन्ध्यइतिनामान्तरं। अत एवभारते ‘‘अशोकवनिकास्थांतांरामदर्शनलालसाम् । खङ्गमादायदुष्टात्माजवेनाभिपपातह । तद्वंद्वातस्यदुर्धर्बरविन्ध्यःपापनिश्च- [पा०] १ ख. सानिशम्य. २ झ. रनिवर्तिनं. ३ क, ख. ग. ङ. च. झ. ज. ट. ममभवखेति. ४ अयंलोकः क. ख. ङ. च, झ. अ, ट. पाठेषुदृश्यते. ५ क. घ. . ६ क, ख, ग , ङ. च. झ. अ. ट. रावणंराक्षसेश्वरं. ७ झ. निवार्यमाणः हखातो