३६२ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ॥ मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि ॥७॥ अद्य वैवस्खतो राजा भूयो बहुमतो मम । येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा । एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ॥ यः कुते हन्यते भर्तुः स पुमान्वर्गमृच्छति ॥९॥ अद्य देवगणाः सर्वे लोकपालास्तथर्षयः ॥ हतमिन्द्रजितं श्रुत्वा सुखं स्खप्स्यन्ति निर्भयाः॥ १०॥ अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना ॥ ऍकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ॥११॥ अद्य नैर्नतकन्यानां श्रोष्याम्यन्तःशरे रवम् ॥ करेणुसङ्गस्य यथा निनादं गिरिगह्वरे ॥ १२॥ यौवराज्यं च लङ्कां च रक्षांसि च परंतप ॥ मातरं मां च भयं च क गतोसि विहाय नः ॥१३॥ मम नाम त्वया वीर गतस्य यमसादनम् । प्रेतकार्याणि कर्याणि विपरीते हि वर्तसे । स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे ।। मम शल्यमनुद्धृत्य क गतोसि विहाय नः ॥ १५ ॥ एवमादिविलापातें रावणं राक्षसाधिपम् ॥ आविवेश महान्कोपः पुत्रव्यसनसंभवः॥ १६ ॥ प्रकृत्या कोपनं वृनं पुत्रस्य पुनराधयः ॥ दीप्तं संदीपयामासुर्धर्मेऽर्कमिव रश्मयः ॥ १७ ॥ ललाटे भृकुटीभिश्च संगताभिव्यैरोचत । युगान्ते सह नौस्तु महोर्मिभिरिघोदधिः ॥ १८॥ कोपाद्विनृम्भमाणस्य वक्रचक्तमभिज्वलन् ॥ उत्पपात सें भूयोनिवृत्रस्य वदनादिव ॥ १९ ॥ स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः । समीक्ष्य रावणो बुद्धा वैदेह्या रोचयद्वधम् ॥ २० ॥ तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनाऽपि च ॥ रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ॥ २१ ॥ घोरं प्रकृत्या रूपं तत्तस्य क्रोधाभिमूच्छितम् ॥ बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम् ॥ २२ ॥ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतनस्स्रबिन्दवः॥ दीप्तभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ २३ ॥ दन्तान्विदशतस्तस्य श्रूयते दशनस्खनः ॥ यत्रस्याँवेष्टयमानस्य महतो दानवैरिव ।। २४ ॥ कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत । तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ॥२५॥ ॥ ४–६ ॥ नन्वित्यामव्रणे । कालान्तकौ यमस्य ॥ १२ ॥ नः सर्वानिति योजनीयं ।। १३-१६ ॥ मूर्तिभेदौ॥ ७ ॥ भूयः अतिशयेन । कालधर्मणा | प्रकृत्या कोपनमित्यस्य विवरणं दीप्तमिति । पुत्रस्य मरणेन । आनिलु समासान्तः । संयुक्तः संयो- पुत्रसबन्धन्यः । पुत्रविषया इत्यर्थः । आधयः जितः ॥ ८ ॥ युद्धमरणस्य सवोंकाङ्कितत्वाद्युद्धहतं शोकाः । पुनः भूयः । संदीपयामासुः कोपयामासुः । त्वां न शोचामीत्याह-एष इति । एषः युद्धमरण रूपः पन्थाः ॥ एव यशस्यत्वादशोच्यत्वमुक्त्वा | कूरयामासुरित्यर्थः अर्कपक्षे ।। १७॥ भृकुटीभिरिति स्वर्यत्वादशोच्यत्वमाह-य इति ॥ ९-११ ॥ | बहुवचनं दशशिरस्कत्वात् । १८—२३ ॥ आवेष्य लोकास्त्रय इत्युक्तावपि पृथिव्याः पृथगुपादानं प्राधा- |मानस्य भ्राम्यमाणस्य । यत्रस्य तिलपीडनयत्रस्य । न्यात् । यथा ब्राह्मणा आगता वसिष्टोष्यागत इत्यादौ । दानवैर्बलवद्भिरित्यर्थः ॥ २४ ।। संविलिल्यिरे ती० कालान्तकावपि कालः सर्वसंहारकः । अन्तकः कालाभिमानीपुरुषः ॥ ७ ॥ स० वैवस्खतोराजा प्रेतराजः । बहुमतः । एतादृशमपिखांनिनायेतिलाघनीयइतिभावः । कालधर्मणा कालोमारर्णधर्मीयस्यासौ कालधर्मा । तेन यमेनखमद्यसंयुक्तः मृतइतियावत् । शि० बहुभूयः अत्यधिकोमममतः ज्ञातः ॥ ८ ॥ ति० रावणंचसमाधिगमितिपाठे सम्यगाधिः समाधिः मनोव्यथा तांगच्छतीत्यर्थइतितीर्थः ॥ १६ ॥ ती० सपुत्रवधेत्यस्यप्रातीतिकार्थ:स्पष्टः । वस्तुतस्तु -रावणः वैदेह्या हेतुभूतया वधं स्खवधंबुध्द्यासमीक्ष्य इतःपरंरामोमामवश्यंवधिष्यतीतिनिश्चिल्येत्यर्थः । अरोचयत् खवधामित्यनुषङ्गः ॥ २० ॥ ति० यत्रस्य [ पा ] १ ख. ग. ङ. च. ज.-ट• दृष्टासुखं. २ घ. मृतेनेन्द्रजिता. ३ ङ. झ. भार्याश्च४ ख. सर्वाणि. ५ क. ख. ग. च. सधूमोनिः ङ. झ. ट. सधूमाग्निः, घ. विधूमोनिः ६ ङ. -ट, व्यवस्थितं ७ ङ. झ. ट. स्याकृष्यमाणस्य. ८ क. ख• ग. संनिलिल्यिरे.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६६
दिखावट