३६० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ उपवेश्य तमुत्सङ्गं परिष्वज्याबपीडितम् । भ्रातरं लक्ष्मणं स्निग्धं पुनःपुनरुदैक्षत ॥ १० ॥ शल्यसंपीडितं शस्तं निश्वसन्तं तु लक्ष्मणम् । रामस्तु दुःखसंतप्तस्तदा निश्वसितो भृशम् ॥११॥ मूर्थीि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् । उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः ॥ १२ ॥ कृतं परमकल्याणं कर्म दुष्करकर्मणा ॥ अथ मन्ये हते पुत्रे रावणं निहतं युधि । अद्याहं विजयी शत्रौ हते तसिन् दुरात्मनि ॥ १३ ॥ रावणस्य नृशंसस्य दिष्टया वीर स्वयं रणे ॥ छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः ॥१४॥ विभीषणहनूमन्यां कृतं कर्म महद्रणे ॥ अहोरात्रैस्त्रिभिर्वीरः कथंचिद्विनिपातितः॥ १५॥ निरमित्रः कृतोस्म्यद्य निर्यास्यति हि रावणः ॥ बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ।। १६ ॥ तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम् ।। चलेनावृत्य महता निहनिष्यामि दुर्जयम् ॥ १७ ॥ त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे ॥ न दुष्प्रापा होते त्वद्य शक्रजेतरि चाहवे ॥ १८ ॥ स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः॥ रामः सृषेणं मुदितः समाभाष्येदमब्रवीत् ॥ १९ ॥ संशल्योयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः ॥ यथा भवति सुखस्थस्तथा त्वं सत्रुपाचर ॥ २० ॥ विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः॥ पक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् ॥ २१ ॥ ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा ॥ तेऽपि सर्वे प्रयत्तेन क्रियन्तां सुखिनस्त्वया ॥ २२ ॥ एवमुक्तस्तु रामेण महात्मा हरियूथपः । लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधिम् ॥ २३ ॥ स तस्या गन्धमाघ्राय विशल्यः समपद्यत ॥ ॐथा निर्वेदनश्चैव संरूढव्रण एव च ॥ २४ ॥ विभीषणमुखानां च सुहृदां राघवाज्ञया ॥ सर्ववानरमुख्यानां चिकित्सां स तदाऽकरोत् ॥ २५ ॥ ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः ॥ सौमित्रिष्टुंदितस्तत्र क्षणेन विगतज्वरः ॥ २६ ।। तथैव रामः प्लवगाधिपस्तदा विभीषणश्चक्षीपतिश्च जाम्बवान् ॥ अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सृचिरं जहर्षिरे ॥ २७ ॥ . भेदमत्तमिति द्विरुक्तिः ॥ ९-१० ॥ शल्यसंपीडित- |॥ १६-१७ ॥ नाथेन याचमानेन । ‘नार्थ मित्यादिश्लोकद्वयमेकान्वयं । शस्तं प्रहृतं । निश्व- | याच्यायां” इत्यस्मात्पचाद्यच् ॥ १८ ॥ समाभाष्य सितः स्वयंकृतनिश्वासः । त्वरन् संस्पृश्य । त्वरा च | आमञ्जय ॥ । १९ ॥ समुपाचर चिकित्सां कुरु ॥२०॥ प्रहारव्यथापनयनायते भावः ।। ११-१२ ॥ । कृत- | विशल्य इति श्लोकद्वयमेकान्वयं । त्रऽक्षवानरसैन्या- मित्यादिसार्धश्लोकः ॥ दुष्करकर्मणा त्वयेति शेषः । नामिति निर्धारणे षष्ठी ॥ २१--२२ ॥ नस्तः नासि ॥ १३ ॥ व्यपाश्रयः आलम्बनं ।। १४ ॥ अहोरात्रै - | कायां ॥ २३ ॥ निर्वेदनः वेदनारहितः ।। २४ . स्त्रिभिरिति । एकादशीद्वादशीत्रयोदशीभिरित्यर्थः । २६ ॥ मुदा युक्तमिति शेषः । मुदा युक्तं सौमित्रि ॥ १५ ॥ निरमित्र इत्यादि श्लोकद्वयमेकान्वयं । मवेक्ष्य इति जहर्षिर इति संबन्धः । जहर्षिर इत्यत्र ति० हेलक्ष्मण नाथेन । उपलालनार्थनाथशब्दप्रयोगः ॥ १८ ॥ ति० विशल्यइति । ओषधिपर्वतानयनोत्तरमोषध्यःसुषेणेनसं गृह्यस्थापिताइत्यनेनज्ञायते ॥ २४ ॥ इति द्विनवतितमःसरैः ॥ ९२ ॥ [ पा० ] १ ग. घ. क्षयोरणे. २ ङ. च. ज.--ट. हतेतस्मिञ्शक्र. ३ ख. सुषेणमुद्दिश्यसमाहूयेदं . ४ ङ, झ. विशल्योयं महाप्राज्ञः. ५ ख• ङ. झ.-ट समुदाचर, ६ ङ. झ. सौमित्रिर्मित्रवत्सलः, ७ च. झ. ट. ततो. ८ घ, ङ, झ. अ, ट. वीर्यवान्. ९ च. झ. ट. परमं.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६४
दिखावट