सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९२ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ३५९ तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म । परममुपलभन्मनःप्रहर्षे विनिहतमिन्द्ररिपुं निशम्य देवाः॥ ९५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकनवतितमः सर्गः ॥ द्विनवतितमः सर्गः ॥ ९२ ॥ इन्द्रजिद्विजयहृष्टेनलक्ष्मणेन विभीषणादिभिः सह रामसमीपमेत्य तच्चरणयोः प्रणामः ॥१॥ विभीषणमुखलक्ष्मणकृते- न्द्रजिद्वधश्रवणहृष्टेनरामेण लक्ष्मणस्य निजाङ्गारोपणेनपरिष्वङ्गपूर्वकं प्रशंसनम् ॥ २ ॥ रामप्रेरणयासुषेणेनेन्द्र जिंद्वणविश कलीकृतानांलक्ष्मणादीनां समुचितचिकित्सयाविशल्यीकरणम् ॥ ३ ॥ रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः॥ बभूव हृष्टतं हत्वा शक्रजेतारमाहवे ॥ १ ॥ ततः स जाम्बवन्तं च हनुमन्तं च वीर्यवान् । संनिहत्य महातेजास्तांश्च सर्वान्वनौकसः ॥ २ ॥ आजगाम ततस्तीव्र यत्र सुग्रीवराघवौ ॥ विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥ ३ ॥ ततो राममभिक्रम्य सौमित्रिरभिवाद्य च ॥ तस्थौ भ्रातृसेंमीपस्थ इन्द्रस्येव बृहस्पतिः॥ ४ ॥ निघ्ननिव चागम्य राघवाय महात्मने ॥ आचचक्षे तदाँ वीरो घोरमिन्द्रजितो वधम् ॥ ५॥ रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना ॥ न्यवेदयत रामाय तदा हृष्टो विभीषणः ॥ ६ ॥ श्रुत्वैततु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् । प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह ॥ ७ ॥ सधु लक्ष्मण तुष्टोसि कर्मणा सुकृतं कृतम् । रावणेहैिं विनाशेन जितमित्युपधारय ॥ ८॥ स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम् । लज्जमानं बलानेहादङ्कमारोप्य वीर्यवान् ॥ ९ ॥ वयन् ॥ ९३-९४ ॥ असुकरं दुष्करं । सर्वेषां | अथ लक्ष्मणश्लाघनं–रुधिरक्लिन्नगात्रेत्यादि ।।१॥ प्राणप्रतिष्ठापकमिति वा । प्रियसुहृदः सर्वप्रियसुहृदः। | तत इत्यादिश्लोकद्वयमेकान्वयं । सन्निहत्य संघी उपलभन्नित्यत्र अडामनेपदभावावाय । देवाः इन्द्र- | भूय । अवष्टभ्य युद्धपारवश्यावलम्ब्य ॥ २-३ ॥ रिपुं विनिहतं निशम्य परमं मनःप्रहर्ष उपलभन् | इन्द्रस्येव बृहस्पतिरिति पारतयमाने साम्यं ॥ ४ ॥ उपालभन्त । अथ असुकरं तत् इन्द्रजिद्धननं । प्रिय- निष्टनन् अव्यक्ताक्षरंवदन्नित्यर्थः । इवशब्दो वाक्य सुहृदः लक्ष्मणस्य । कर्म कृतिविषयभूतं । अभिवीक्ष्य | लंकारे । आयासस्याभिनयनमात्रेणालीकत्वद्योतनाय हृष्टाः विस्मिताः। आसन्निति शेषः। ‘विस्मितप्रति- | वा ।। ५ ॥ रामसन्निधौ संकोचवता लक्ष्मणेनावि घातयोश्चेति वक्तव्यं इति हृषेः पाक्षिक इडभावः । शेषेणेन्द्रजिद्वधकथनाद्विभीषणः स्पष्टतयाह--रावणे देवाश्चारणादिमुखेन प्रथममिन्द्रजिद्धननं श्रुत्वा |रिति । यद्वा लक्ष्मणेन सूचनयोक्तावपि हर्षप्रकर्षेण संतुष्टाः पश्चात्तस्यात्यन्ताशक्यत्वातथ्यं सन्तः | विभीषणः पुनराह--रावणेरिति ।। ६ । महावीर्यो मन्वाना युद्धभूमिमागत्य तप्रत्यक्षीकृत्य विस्मिता राम इत्यन्वयः ।। ७ ॥ सुकृतं कृतं सुकर्तव्यं कृतं । आसन्निति भावः ॥ ९५ ॥ इति श्रीगोविन्दराज- विरचिते श्रीमद्रामायणभूषणे रन्नकिरीटाख्याने युद्ध | कर्मणा युद्धकर्मणा ।। ८ । स तमित्यादिश्लोकद्वयमे- काण्डव्याख्याने एकनवतितमः सर्गः ॥ ९१ ॥ कान्वय । आरोप्य आरोपणायाकृष्य । अवपीडितं शल्यपीडितं । गाढं यथा भवति तथेति वा । क्रिया ति० संनिपत्य संगृह्य ॥ २ ॥ ति ० अभिक्रम्य प्रदक्षिणीकृत्य शक्रस्येन्द्रानुजोयथा यथोपेन्द्रइन्द्रसमीपे तिष्ठति तद्वत् ॥४॥ [ पा० ] १ क. ख. घ.-ट. संनिपत्य २ ड. ज. झ. ट. समीपस्थःशक्रस्येन्द्रानुजोयथा ३ च. निश्श्वसन्निवचागय. ङ. झ. झ, ट निष्टनन्निवचागय. ४ कर ख, घ, ट, महवीरो. ५ ङ. झ. वाक्यंचेदमुवाचह.