३९८ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ अथान्तरिक्षे देवानामृषीणां च महात्मनाम् ॥ ऑभिजज्ञे च सन्नादो गन्धर्वाप्सरसामपि ॥ ७७ ॥ पतितं तमभिज्ञाय राक्षसी सा महाचमूः। वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ॥ ७८ ॥ वानरैर्युध्यमानास्ते शस्राण्युत्सृज्य राक्षसाः॥ लङ्कामभिमुखः सङर्नष्टसंज्ञाः प्रधाविताः ॥ ७९ ॥ दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः त्यक्त्वा प्रहरणान्सर्वे पट्टिशासिपरश्वधान् ॥ ८० ॥ केचिच्छू परित्रस्ताः प्रविष्टा वानरार्दिताः॥ समुद्रे पतिताः केचित्केचित्पर्वतमाश्रिताः ॥ ८१ ॥ हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ । राक्षसानां सहस्त्रेषु न कश्चित्प्रत्यदृश्यत ॥ ८२॥ यथास्तंगत आदित्ये नावतिष्ठन्ति रश्मयः । तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ॥ ८३ ॥ शान्तरश्मिरिवादित्यो निर्वाण इव पावकः ॥ 8 बभूव महातेजा व्यपास्तगतजीवितः ॥ ८४ ॥ पृशन्तपीडाबहुलो नैgारिष्टः प्रतापवान् । बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ॥ ८५ ॥ हर्षे च शक्रो भगवान्सह सर्वैः सुरर्षभैः॥ जगाम निहते तसित्राक्षसे पापकर्मणि ॥ ८६ ॥ आकाशे चापि देवानां शुश्रुवे दुन्दुभिखनः॥ नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ॥ ८७ ॥ चंवृषुः पुष्पवर्षाणि तदद्भुतमभूत्तदा॥ ऍशशंसुते तसिन्राक्षसे क्रूरकर्मणि । शुद्धा आपो दिशश्चैव जहषुदैत्यदानवाः ॥ ८८ ॥ आजग्मुः पतिते तसिन्सर्वलोकभयावहे ॥ ऊचुश्च सैंहिताः सर्वे देवगन्धर्वदानवाः। विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ॥ ८९ ॥ ततोऽभ्यनन्दन् संहृष्टः समरे हरियूथपाः । तमप्रतिबलं दृष्ट्वा हतं नैकतपुङ्गवम् ॥ ९० ॥ विभीषणो हनूमांश्च जाम्बवांश्चलैयूथपः । विजयेनाभिनन्दन्त स्तुष्टुवुश्चापि लक्ष्मणम् ॥ ९१ ॥ ६वेलन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ॥ ९२ ॥ लाठूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः॥ लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा ॥ ९३ ॥ अन्योन्यं च समालिष्य कपयो हृष्टमानसाः ॥ चक्रुरुच्चावचगुणा राघीवाश्रयजाः कथाः ॥ ९४ ॥ धरण्यां निपपतेत्यन्वयः ॥ ७५--८३ ॥ व्यपास्त- | अप्सरोभिर्गन्धवैश्च कृतनर्तनगानजन्यस्वनः शुश्रुव गंतजीवितः व्यपास्तो विक्षिप्ताङ्गो गतजीवितश्च, सः | इत्यर्थः । नृत्यद्भिरित्यत्र डीबभावः आर्षः ॥ ८७॥ शान्तरश्मिरादित्य इव । निर्वाणः शन्तः। पावक | ववृषुरोतेि । अत्रापि देवः कर्तारः । ववृषुः प्रशशं• इव प्रशान्तेति च बभूव । इदमारभ्य । निस्तेजस्कोऽभूदित्यर्थः लोकविशेषणं । प्रशान्तपी- ॥ ८४ ॥ सुश्च ॥ ८८ ॥ आजग्मुरित्यादिसार्धश्लोक एका डाबहुलः प्रशान्तबहुलपीडः। प्रतापवान् सूर्यप्रकाश- | न्वयः ।। देवगन्धर्वदानवाः आजग्मुः विचरन्त्वित्यू वान् । पूर्वं भयेन मन्दसूर्यत्वात् ।। ८५--८६ ॥ चुश्चेति संबन्धः ॥ ८९-९२ । विश्रावयन् व्यश्रा हतताज्ञया ॥ ७१ ॥ रामानु० गतजीवितःसः शान्तरश्मिरादित्यइव बभूव । निर्वाण:पावकइवव्यपास्त अतिष्ठदितिसंबन्धः । ति० व्यपास्तविशेषधनैः। अतएवगतजीवितः ॥ शि० व्यपास्तेन धर्मत्यागेन गतजीवितः ॥ स० व्यपास्तेन स्नपूर्वमल- यतयानिरस्तेनलक्ष्मणेन गतं जीवितंयस्यसतथा ।। ८४ ॥ ति७ देवदानवाः दानवानामपितच्छत्रुखात्तेषामपिषहर्षः ॥ ८८ ॥ ति० लब्धलक्षाः प्राप्तहर्षावसराः । रलयोरभेदाप्राप्तरक्षणाइत्यपि । रघुसुतं रघुवंशजं । ९२ ॥ इत्येकनवतितमः सरैः ॥ ९१ [ पा० ] १ क, ग, घ, ङ. झे. भूतानां२ ख. च. ज. ट, मृषीणांभावितात्मनां. ग. मृषीणांचमहखनः, ३ ङ, झ• जज्ञेऽथजयसनादो , ४ ज. अतिष्ठत्समहातेजाः५ क . ग -व. ज.-ट, विनष्टारिः. ६ क. ख. ङ. च. झ. अ. ट. प्रशशामहते. ७ झ. वनवः ८ ख. ड, व, ज -ट. सहितास्तुष्टदेवः ९ ङ, झन् टन् राघवाश्रयसत्कथाः
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६२
दिखावट