सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३४९ यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः । अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ॥ १२॥ इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् । दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ॥ १३ ॥ ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् ॥ क्रोधाद्विगुणसंरब्धो निर्विभेद विभीषणम् ॥ १४ ॥ तदृष्येन्द्रजिता कर्म कृतं रामानुजस्तदा ॥ अचिन्तयित्वा प्रहसनैतत्किचिदिति ब्रुवन् । मुमोच स शरान्घोरान्संभृथ नरपुङ्गवः ॥ १५॥ अभीतवदनः क्रुद्धो रौवाणेि लक्ष्मणो युधि ॥ नैवं रणगताः शूराः प्रहरन्ते निशाचर ॥ १६ ॥ लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव ॥ नैवं शूरास्तु युध्यन्ते समरे जैयकाङ्किणः॥ इत्येवं तं सुचाँणस्तु शरवधैरवाकिरत् ॥ १७ ॥ विधूतचर्मा नाराचैर्बभूव स कृतव्रणः । इन्द्रजित्समरे वीरैः प्ररूढ इव सानुमान् ॥ १९ ॥ स्य बाणैः सुविध्वस्तं कवचं हेमभूषितम् ॥ व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् । ४". ततः शरसहस्रण संक्रुद्धो रावणात्मजः ॥ बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः॥ २० ॥ व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च ॥ कृतप्रतिकृतान्योन्यं बभूवतुरंभिद्रुतौ ॥ २१ ॥ अभीक्ष्णं निश्श्वसन्तौ तौ युध्येतां तुमुलं युधि ॥ शरसंकृत्त सर्वांचे सर्वतो रुधिरोक्षितौ ।।२२ ॥ सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः। ततक्षतुर्महात्मानौ रणकर्मविशारदौ ॥ २३ ॥ बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ । तौ शरौधैस्तद कीण निवृत्तकवचध्वजौ ॥ स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ॥ २४ ॥ शरवर्षे ततो घोरं मुञ्चतोभेमनिस्स्खनम् ॥ सासारयोरिवाकाशे नीलयोः कालमेघयोः ॥ २५ ॥ तयोरथ महान्कालो वैयत्ययाद्युध्यमानयोः । न च तौ युद्धवैमुख्यं श्रमं वाऽप्युपजग्मतुः॥२६॥ अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः॥ शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ॥ २७ ॥ व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्टु च ॥ उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥ २८ ॥ तयोः पृथक्पृथक्भीमः शुश्रुवे तैलनिखनः । प्रकम्पयञ्जनं घोरो निंर्धत इव दारुणः ॥ २९ ॥ स तयोर्भाजते शब्दस्तदा समरसक्तयोः । सुघोरयोनिष्टनतोगेंगने मेघयोर्यथा ॥३० ॥ नूनमित्यर्थः ।। ११-१३ । क्रोधाद्विगुणसंरब्ध इति । [ कृते प्रतिकृतं अन्योन्यं यस्मिन् कर्मणि तत्तथोक्तं लक्ष्मणादिविषयरोषापेक्षया विभीषणविषये द्विगुणं ।। २१ । युध्येतां अयुध्येतां ॥ २२ ॥ ततक्षतु कुपित इत्यर्थः । १४ ॥ तदृष्ट्यादिसार्धश्लोक एका | अन्योन्यं बभजतुः ॥ । २३ ॥ यत्तौ यत्नवन्तौ वयः । नैतत्किचिदिति ब्रुवन् एतद् किंचित्करमिति ॥ २४ ॥ शरवर्षमित्यादिश्लोकद्वयमेकान्वयं । ब्रुवन्नित्यर्थः ॥ १५ ॥ अभीतवन इत्यादिसार्धश्लो- | सासारयोः सधारापातयोः ।“धरासंपात आसारः ; कद्वयमेकान्वय । अकिंचित्करत्वमेवाह-नैवमिति । इत्यमरः ।। २५--२७ ॥ व्यपेतदोषं व्यपगतमोहं ॥ १६-१८ ॥ प्ररूढः प्ररूढवृक्षः ।। १९-२० ॥ | स्वदोषं । अस्यन्तौ बाणान्क्षिपन्तौ ।। २८३ ।। स० व्यवस्थितः युद्धार्थनिश्चितः सन् । तिष्ठ । व्यवस्थितः अवस्थितस्संस्त्वदर्शयिष्यामीतिवा । अनेनपूर्ववदन्तर्धानंनती- तिसूच्यते ॥ १२ ॥ ति० प्रत्यूषेभनुमानिवक्षतजरक्तवर्णत्वादितिभावः ॥ १९ ॥ स० उच्चवच्चकारान् अनेकप्रभेदविः शिष्टाकारान् ॥ २७ [ पा० ] १ क. ख. घ.---छ. झ. ज. टट• अद्यखां• २ ज. रावणिंवाक्यमब्रवीत्- क. ’ ख. रावर्णिलक्ष्मणोव्रवीत् . चे. रावणिंलक्ष्मणोवदत्. ३ ङ, झ. झ. ट. युद्धकाङ्किणः. ४ ङ. च. झ. ज. ट. खुबन्धन्वीशरैरेभिववर्षह ख. वदन्वीरःशरैरभिववर्ष • ५ इ. झ. ट. वीरः प्रत्यूषेभानुमानिव। ६ ख. च. ट, ररिंदमौ . ७ ग, ङ --ट. व्यतयात्. ८ झ. ज. ट. तुमुलखनः. झ. ट. सकंपंजनयामासनिर्घातइव, १० ङ, झ. धठ. निखनेतोः