पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सुसंप्रहृष्टौ नरराक्षसोत्तमौ जयैषिणौ मार्गेणचापधारिणौ । परस्परं तौ प्रववर्षतुभृशं शरौघवर्षेण बलाहकाविव ॥ ३९ ॥ अभिप्रवृद्धौ युधि युद्धकोविदौ शरासिश्चण्डौ शितशस्त्रधारिणौ ॥ अभीक्ष्णमाविच्यधतुर्महाबलौ महाहवे शम्बरवासवाविव ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥ एकोननवतितमः सर्गः ॥ ८९ ॥ लक्ष्मणेन्द्रजितोर्महायुद्धम् ॥ १ ॥ ततः शरं दाशरथिः संधायामित्रकर्शनः॥ ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥ १ ॥ तस्य ज्यातलनिर्घं सं श्रुत्वा रावणात्मजः । विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥ २ ॥ तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् । सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ॥ ३ ॥ निमित्तान्यनुपश्यामि यान्यमित्रावणात्मजे । त्वर तेन महाबाहो भग्न एष न संशयः । ॥ ४ ॥ ततः संधाय सौमित्रिर्वेणानग्निशिखोपमान् ॥ मुमोच निशितांस्तसिन्सपॅनिव भैहाविषान् ॥ ५॥ शक्राशनिसमस्पर्शर्लक्ष्मणेनाहतः शरैः मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ॥ ६ ॥ उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः ॥ ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ॥ ७ ॥ सोभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः । अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ॥ ८ ॥ किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् । निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ॥ ९ ॥ युवां खलु महायुद्धे शक्राशनिसमैः शरैः ।। शायितौ प्रथमं भूमौ विसंज्ञौ स पुरस्सरौ ॥ १० ॥ स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् ॥गन्तुमिच्छसि यसाचं मां धर्षयितुमिच्छसि॥१ परः । नामैकदेशे नामग्रहणात् ॥३७–३८। शरौघः । ३ । अस्मिन् यानि मुखवैवर्यस्तव्धत्वादीनि मेघपक्षे जलौघः। शरशब्दो हि जलवाची । शरधि- | निमित्तानि अनुपश्यामि, तैरयं भग्न इति जाने । रिति समुद्रपर्यायात् ॥ ३९--४०॥ । इति श्रीगोविन्द- | तेन कारणेन त्वर त्वरस्व ॥ ४-५ ॥ सर्वसंक्षुभिते- राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने न्द्रियः संक्षुभितसर्वेन्द्रियः ॥ ६–८ ॥ त्वं भ्रात्रा युद्धकाण्डव्याख्याने अष्टाशीतितमः सर्गः ।। ८८ ॥ सह निबद्ध इति यत् प्रथमे तद्युद्धे तस्मिन्युद्धे । मत्प रक्रमं त्वन्निबन्धनरूपं । न स्मरसि किं । यदा यत्र अथ लक्ष्मणेन्द्रजितोः सुमहान्संप्रहारः - -ततः | युद्धकाले । विवेष्टसे विवेष्टितवानसि ।। ९ ॥ तमेव शरमित्यादि ।। १–२ । सौमित्रिं प्रति उद्दिश्य पराक्रमं विशिनष्टि-युवामिति ॥ १० ॥ व्यक्तं ति० ५ नरराक्षसमुख्यौतौ ” इत्युत्तरंलोकद्वयंभिन्नवृत्तंप्रक्षिप्तं । तदुत्तरंसर्गविच्छेदश्वसंप्रदायः । तयोर्युद्धस्यैवाग्रेसत्वेनप्रक रणान्तराभावादितिकतकः ॥ स० सुसंप्रहृष्टावित्यादिश्लोकद्वयंसर्गव्यवच्छेदकत्वेनप्रक्षिप्तमितिसंप्रदायः ॥ ४० ॥ इत्यष्टाशी तितमःसर्गः ॥ ८८ ॥ स० यानि पराजयका लेतत्सूचकत्वेनहीतव्याप्तिकानि तानि निमित्तानि वदनवैवण्यदीनि अस्मिन्ननुपश्यामि । त्वर त्वरख ॥ ४ ॥ स० विषवैद्यः विषोल्बणान् सर्वान्पेट्यायथामुवति तथाऽऽशीविषोपमान् शरान् । मुमोच । सन् अनयतिचेष्टयती तिसर्वान् विषवैयः । विषोल्बणान् सर्पनिवेतिवा । अस्मिन्पक्षेनाध्याहारः ॥ ५ ॥ [ पा०] १ सुसंप्रहृष्टाविति, अभिप्रवृद्धावितिचश्लोकद्वयं झ. पठेनदृइयते.अत्रसर्गविच्छेदधनोपलभ्यते. २ ङ. झ. अ. ट. शरन्दशरथिः, ३ झ. न, ट, शरानाशीविषोपमान्, ४ ङ. च. झ. ट, विषोल्बणान्, ५ क. , च, छ. झ. ट. युधिविचेष्टसे. &