पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३४१ विभीषणेन सहितो राजपुत्रः प्रतापवान् । अङ्गदेन च वीरेण तथाऽनिलसुतेन च ॥ ३५ ॥ विविधममलशस्राभाखरं तच्छुजगहनं विपुलं महारथैश्च । प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥ षडशीतितमः सर्गः ॥ ८६ ॥ निकुंभिलासमीपगमनावसरेलक्ष्मणंप्रतिविभीषणेन समीपस्थराक्षससैन्यप्रदर्शनपूर्वकं वानरैस्सहतद्विक्षोभे यागापरिस मप्तचेवेन्द्रजिन्निर्गमनोक्तिः ॥ १ ॥ लक्ष्मणेन वानरैस्सह राक्षससे नाविक्षोभारंभे कुपितेनेन्द्र जिता यागापरिसमाप्तावे- वनिकुंभिलातोनिर्गमनेन वनैरैस्सहयुद्धारंभः ॥ २ ॥ हनुमता विशेषताराक्षससेनाविध्वंसने क्रोधादिन्द्रजितातदभिद्र- वणम् ॥ ३ ॥ अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥ यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते । एतदायोध्यतां शीघी कैपिभिः पादपायुधैः ॥ २ ॥ अस्यानीकस्य महतो भेदने यत लक्ष्मण ॥ राक्षसेन्द्रसुतोप्यत्र भिन्ने दृश्यो भविष्यति ॥ ३ ॥ स त्वमिन्द्राशनिप्रख्यैः शरै¥वकिरन्परान् । अभिद्रवाशु याच नैतत्कर्म समाप्यते ॥ ४ ॥ जहि वीर दुरात्मानं मयापरमधार्मिकम् ॥ रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ५॥ विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः॥ ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ ६ ॥ उक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः॥ अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ७ ॥ राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः॥ ॐद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥८॥ स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ॥ शब्देन महता लङ्कां नादयन्वै समन्ततः ॥ ९ ॥ शस्त्रैश्च बहुधाकरैः शितैर्बाणैश्च पादपैः उद्यतैर्गिरिशखैश्च घोरैराकाशमावृतम् ॥ १० ॥ ते राक्षसा वानरेषु विकृताननबाहवः॥ निवेशयन्तः शस्राणि चक्रुस्ते सुमहद्भयम् ॥ ११ ॥ तथैव सकलैर्दूतैर्गिरिशुभैश्च वानराः । अभिजवुर्निजघ्नुश्च समरे रीक्षसर्षभान् ॥ १२॥ लक्षवानरमुख्यैश्च महाकायैर्महाबलैः ॥ रक्षसां वैध्यमानानां महद्भयमजायत ॥ १३ ॥

यितुं । तं देशं प्राप्य तस्थावित्यन्वयः ॥ ३४-३५ ॥ | साधकं । स्वानामिति शेषः।१॥ आयोध्यतां हन्यतां। प्रतिभयतमं अतिशयेन भयंकरं ।। ३६॥ इति श्रीगो- | शीघ्रमिति । विलम्बे यागः समाप्येतेति भावः।२॥ विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा- | यत यतस्ख । अत्र राक्षसानीके ॥३-५।। शुभलक्षणः ख्याने युद्धकाण्डव्याख्याने पञ्चाशीतितमःसर्गः ८५।। सुहृद्वचनसारग्राहित्वलक्षणयुक्तः ॥ ६--७ । कपि सैन्यजिघांसवः कपिसैन्यं हन्तुमिच्छवः ॥ ८ ॥ अथेन्द्रजिद्युद्धारम्भः-अथ तस्यामित्यादि । | संप्रहरः युद्धे ॥ ९-१०॥ शत्रनिवेशनविकृतानन तस्यामवस्थायां निकुम्भिलासमीपगमनावसरे । अर्थ । बाहुत्वरूपक्रियाभेदात् तच्छब्दद्वयनिर्वाहः ॥ ११. । ती० मायापरमधार्मिकं परमधार्मिकवप्रतीयमानं । स० मायापरमधार्मिकं माययापरमधनुर्धारिणंवा । मायापरें’ अधार्मिक मितिा ॥ ५ ॥ [ पा० ] १ ङ. झ. ट. गहनंमहारथैश्च. २ ङ. झ. ज. ट. कपिभिश्वशिलायुधैः ३ ङ, झ. ट. तस्यानीकस्य. ४ ख रवकिरस्खह. ५ क, ख, च, मायाधरं. ६ ड. झ. प. शरवर्षेण. ७ झ. अ. ट, अभ्यवर्तन्तसमरेकपिसैन्य. ८ ङ. च. झ. अ. ट, सर्वराक्षसान्. ९ ङ. च. झ. ट. युध्यमानानां