३४२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ न ®AAAAAAAAAARARAJARAJARAJA खमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् । उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १४ ॥ वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः । आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥ १५ ॥ स भीमकार्मुकधरः कालमेघसमप्रभः॥ रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥ १६ ॥ दृष्टैव तु रथस्थं तं पर्यवर्तत तद्धलम् ॥ रक्षसां भीमवेगानां लक्ष्मणेन त्रुयुत्सताम् ॥ १७ ॥ तसिन्काले तु हनुमानुद्यम्य सुदुरासदम् । धरणीधरसंकाशो महावृक्षमरिन्दमः ॥ १८॥ स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् ॥ चकार बहुभिर्घनैर्निस्संज्ञ युधि वानरः ॥ १९ ॥ विध्वंसयन्तं तरसा दृष्ठंव पवनात्मजम् । राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥ २० ॥ शितशूलधराः शूलैरसिभिश्चासिपाणयः॥ शक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ॥ २१ ॥ परिधैश्च गदाभिश्च चैकैश्च शुभदर्शनैः ॥ शतशश्च शतघ्नीभिरायसैरपि मुद्रैः ॥ २२ ॥ घोरैः परश्वधैवैव भिन्दिपालैश्च राक्षसाः॥ मुष्टिभिर्वजंकल्पैश्च तलैरशनिसन्निभैः । अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ॥ २३ ॥ तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥ २४ ॥ स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् । वंदयन्तममित्रघ्नममित्रान्पवनात्मजम् ॥ २५ ॥ स सारथिमुवाचेदं याहि यत्रैष वानरः ॥ क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ २६ ॥ इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः॥ वहन्परमदुर्धर्षे स्थितमिन्द्रजितं रथे ॥ २७॥ सोभ्युपेत्य शरान्खङ्गापैट्टिशांश्च परश्वधान् । अभ्यवर्षत दुर्धर्षः कपिमूर्तेि स राक्षसः ॥ २८ ॥ तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः॥ रोषेण महताऽऽविष्टो वाक्यं चेदमुवाच ह ॥२९॥ युध्यख यदि शूरोसि रावणात्मज दुर्मते । वायुपुत्रं समासाद्य जीवन प्रतियास्यसि ॥ ३० ॥ बाहुभ्यां प्रतियुध्यख यदि मे द्वन्द्वमाहवे ॥ वेगं सहस्ख दुर्युद्धे ततस्त्वं रक्षसां वरः ॥ ३१ ॥ हनुमन्तं जिघांसन्तं समुद्यतशरासनम् । `वणारमजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२ ॥ ९ १३ ॥ तत्कर्मणि तस्मिन्क्षेमकर्मणि ॥ १४ ॥ | लक्ष्यते । पर्वतोपमं हनुमन्तमिति शेषः ॥ २१-२३ ॥ वृक्षान्धकारात् नीरन्ध्रवृक्षषण्डादित्यर्थः । सज्जं आयु- | तेषामित्यर्थं । संक्रुद्धः । हनुमानिति शेषः॥२४-२५॥ धादिभिः । पूर्वयुक्तं पूर्वमेव युक्ताधे । सराक्षसः | हि यस्मात्कारणात् । उपेक्षितः एषः नः अस्माकं राक्षससहितः ॥ १५ ॥ अन्तकः अन्तकरः ॥ १६॥ संबन्धिनां राक्षसानां क्षयं कुर्यात् । अतः एष वानरो पर्यवर्तत परितोतिष्टत् ॥ १७ ॥ तस्मिन्नित्यादि । यत्र । वर्तत इति शेषः । तत्र याहीतीदं ; वचः सार- आदावेकं वृक्षमुद्यम्य निर्दहन्सन् पश्चात् बहुभिर्मुहै स्तद्रक्षोबलं निःसंज्ञां चकारेत्यन्वयः ।। १८-२० ॥ थिमुवाचेत्यन्वयः ॥ २६ ॥ वहन् प्रापयन् ॥ २७ ॥ अवाकिरन्नित्युक्तं प्रपञ्चयति-शितेत्यादि । । शित | सोभ्युपेत्येति । अत्रापि क्रियाभेदात् तच्छब्दस्य द्विः शलधरा इत्यादिविशेषणेन येषां येष्वस्त्रेष्वप्यन्तपाटप्रयोगः ॥ २८-३०॥ द्वन्द्वं द्वन्द्वयुद्धे। ददासीति वमस्ति तैस्ते अवाकिरन्निति गम्यते । परिधैरित्यादौ । शेषः । यदि ददासि तर्हि शस्त्राणि त्यक्त्वा बाहुभ्यां परिघपाणयइत्याद्युद्धं । शुभदर्शनैरित्यनेन तैक्ष्ण्यमुप- प्रतियुध्यस्वेत्यन्वयः । ततः तदानीं द्वन्द्वयुद्धकाले ति० वृक्षान्धकारात् निसृभिलाक्षेत्रीयात् । इदंनिस्सरणंदशम्यांसायाहे ॥ १५ ॥ इतिषडशीतितमः सर्गः ॥ ८६ ॥ [ पा० ] १ ङ. झ. ट. सकर्मण्यननु. २ ङ. झ. ट. सुसंयतं. ३ क. ख. घ.ङ. च. ज.-ट. कार्मुकशरः, ४ क, ख, ग, ङ. च. ज झ. ट. कृष्णाजनचयोपमः. ५ ज. युयुत्सया. ६ ङ. च. झ. कुन्तैश्वर ७ ग. घ. च. ज. झ. ट. डीघ्रवेगैश्च८ क. ख. सूदयानमसंत्रस्तं घ. च. ज. ट. सूदयानममित्रघ्नं. ९ क. --च, झ. अ. पछिशासिपरश्वधान् , १० घ. रावर्णिदुष्टमाचष्टे.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४६
दिखावट