पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ श्रीमद्वाल्मीकिरामायणम्। [ युद्धकाण्डम् ६ हेमपट्टपरिक्षिप्तं वज़विद्रुमभूषितम् । यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥ ३ ॥ तमाविध्य महातेजाः शक्रध्वजसमं तदा ॥ विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ॥४॥ उरोगतेन निष्केण भुजस्थैरङ्गदैरपि । कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ॥५॥ निकुम्भो भूषणैर्भाति तेन स परिघेण च ॥ यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ॥ ६ ॥ परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः ॥ प्रजज्वाल सघोषश्च विधूम इव पावकः॥ ७ ॥ नगर्या विटपावत्या गन्धर्वभवनोत्तमैः ॥ सह चैवामरावत्या सधैश्च भवनैः सह।८ सतारग्रहनक्षत्रं सचन्द्र समहाग्रहम् ॥ निकुम्भपरिघचूर्णं भ्रमतीव नभःस्थलम् ॥ ९ ॥ दुरासदश्च संजज्ञे पैरिघाभरणप्रभः ।। कैपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः॥ १०॥ राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् । हनुमांस्तु विवृत्योरस्त थौ प्रमुखतो बली । परिघोपमबाहुस्तु परिघं भास्करप्रभम् ॥ बली बलवतस्तस्य पातयामास वक्षसि ॥ १२ ॥ स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः । विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ॥ १३ ॥ स तु तेन प्रहारेण विंचचाल महाकपिः । परिघेण समाधूतो यथा भूमिचलेऽचलः ॥ १४ ॥ स तदऽभिहतस्तेन हनुमान्प्लवगोत्तमः ॥ सृष्टिं संवर्तयामास बलेनातिमहाबलः।। १५ ॥ तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् । अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः ॥ १६ ॥ तैतः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् । मुष्टिना तेन संजज्ञे ध्वाला विद्युदिवोत्थिता ॥१७ स तु तेन प्रहारेण निकुम्भो विचचाल ह ॥ खस्थश्चापि निजग्राह हनुमन्तं महाबलम् ॥ १८॥ विचुक्रुशुस्तदा संख्ये भीमं लङ्कनिवासिनः । निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ॥ १९॥ स तदा हियमाणोपि कुम्भकर्णात्मजेन है । आजघानानिलसुतो वजकल्पेन मुष्टिना ॥ २०॥ स्रग्दामसन्नद्धं स्रक्समूहनिबद्धे। दत्तपञ्चाङ्गुलं चन्द- | अश्विन्यादयःप्रहाः बुधादयः। नक्षत्राणि अश्विन्या नकुङ्कमादिनार्पितपञ्चाङ्गुलमुद्रामुद्रितं । अथवा क्रिया- | दिभिन्नानि । महाग्रहाः शुक्रादयः। अत्र रात्रित्वात्सूर्यो विशेषणमेतत् । दत्तपञ्चाङ्गुलं यथा तथा आददे ।| नोक्तः । निकुम्भपरिघाघूर्ण । अत्र परिघशब्देन परिक्षिप्तं परिणद्धे ॥ २–४ ॥ उरोगतेनेत्यादिश्लो- | तद्वात उपलक्ष्यते । इवशब्दो वाक्यालंकारे ॥ ८– कद्वयमेकान्वयं । निष्कः पकं । भूषणैः हारादिभिः।। ९ ॥ परिघेणाभरणैश्च प्रभातीति परिघाभरणप्रभः । भाति स्म ।’ लट् स्मे ” इति भूते लट्। स्तनयि- | यद्वा परिघाभरणान्येव प्रभा यस्य स तथा। कपीनां नुमान् गर्जितवान् । “ स्तनयित्रुस्तु गर्जिते मेघे छ | दुरासदो जज्ञ इति संबन्धः । १०॥ राक्षसा इति । इति रत्नमाला। इन्द्रधनुःस्थाने परिघः। विद्युत्स्थाने प्रबलेषु प्रजङ्घादिषु हतेषु दुर्बलैर्भवद्भिः किमर्थं युद्धाय भूषणानि । विननादेति पूर्वश्लोकोक्तो विनादः स्तन- प्रयत्नः कृत इति निकुम्भः कुप्येदिति राक्षसानां भयं यितुस्थान इति नोपमेयन्यूनता ॥ ५--६ ॥ वात- | वेदितव्यं । विवृत्य विस्तारें । प्रमुखतः अग्रे ॥११ ग्रन्थिः आवहादिसप्तवातस्कन्धः । सघोषः ससिंह- | परिघोपमबाहुः निकुम्भः ।। १२ । व्यूढे विशाले। नाद इति निकुम्भविशेषणं परिघविशेषणं वा ॥ ७ ।। | उल्काशतमिव बभाविति ॥ १३ ॥ भूमिचले भूकम्पे नगर्येत्यादिश्लोकद्वयमेकान्वयं।। विटपावत्या अलकया। | ॥ १४ । संवर्तयामास । चकारेत्यर्थः ।। १५-१८ । अत्रापि सहेति शेषः । भवनैः अमरभवनैः। ताराः | भीमं विचुक्रुशुः । हनुमद्रहणहर्षादिति भावः । उद्यतं ती० परिघान्तरणप्रभः परिघान्त कृतरणरक्तप्रभइत्यर्थः ॥ १ पा० ] १ ख, घ, ङ. च. ट. शक्रध्वजसमौजसं. २ च. छ. परिघान्तरणप्रभः. ३. ग. ङ. झ. ट. धेन्धनोनिकुंभाग्निः ४ ङ. झ अ, ट. नचचाल ५ क ख. घ. ङ. छ. झ. अ. ट. तत्रपुस्फोट. ६ ख. ग. ङ. च. झ. ट. मेघेविद्युदिवो . ७ घ. सर्वेभीमं क. हृष्टाभीमं. ८ क. ज. झ, निकुंभेनोद्धतं. घ. निकुंभेनार्दितं .