पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम् ॥ रथाश्वगजतोयौघं पदातिपुलिनं महत् ॥ २१ ॥ अनेन हि समासाद्य देवानां बलसगरम् । गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ॥ २२ ॥ पितामहनियोगाच्च मुक्तः शम्बरवृत्रहा ॥ गतस्त्रिविष्टपं राजन्सर्वदेवनमस्कृतः ॥ २३ ॥ तमेव त्वं महाराज विसृजेन्द्रजितं सुतम् । यावद्वानरसेनां तां सुरामां नयति क्षयम् ॥ २४ ॥ राजनपदयुक्तेयमागता प्राकृताञ्जनात् ॥ हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ॥२५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तमः सर्गः ॥ ७ ॥ अष्टमः सर्गः ॥ ८ ॥ प्रहस्ताविभीरावणंप्रत्यास्महाघनपूर्वकं रामादिवधप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥ ततो नीलम्वुदनिभः प्रहस्तो नाम राक्षसः ॥ अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥ १ ॥ देवदानवगन्धर्वाः पिशाचपतगोरगाः। न त्वां धर्षयितुं शक्ताः किं पुत्रैर्वानरा रणे॥ २॥ सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता । न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः ॥ ३ ॥ सर्वा सागरपर्यन्तां सशैलवनकाननाम् ॥ करोम्यचानरो भूमिमाज्ञापयतु मा भवान् ॥४॥ रक्षां चैव विधास्यामि बैनराद्रजनीचर ॥ नागमिष्यति ते दुःखं किंचिदात्मापराधजम् ॥ ५॥ अब्रवीतु सुसंक्रुद्धो दुर्मुखो नाम राक्षसः ।। इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥ ६ ॥ अयं परिभवो भूयः पुरस्यान्तःपुरस्य च ॥ श्रीमतो राक्षसेन्द्रस्य वॉनरेण प्रधर्षणम् ॥ ७ ॥ अस्मिन्प्रहतें हैवैको निवर्तिष्यामि वानरान् । प्रविष्टान्सागरं भीममम्बरं वा रसातलम् ॥ ८॥ ॥ २१ ॥ दैवतपतिः इन्द्रः ॥ २२–२३ ॥ विसृज | दृष्ट्वा कथमेवमुच्यत इत्यत्राह--सर्व इति । विश्वस्ताः प्रेषय । यावन्नयति नेष्यति ।। २४ । अयुक्ता असं- | परिभवितुमस्मान् कोपि न शक्त इति विश्वस्ताः भाविता । प्राकृतात् क्षुद्रात् हनुमतः ॥ २५ ॥ इति | विस्रब्धाः । प्रामादिकशत्रुपरिभवो न न्यूनतामापा श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि- | दयतीतिभावः ।। ३-४ । आत्मापराधः सीताहर रीटाख्याने युद्धकाण्डव्याख्याने सप्तमः सर्गः ॥७॥ | णरूपो व्यतिक्रमः ॥ ५ ॥ हि यस्माद्वानरेण कृत- मिदं कर्म सर्वेषां नः प्रधर्षणरूपं । भूयः तदुपरि पुर एवं मत्रिभिः सहसंमख्य भूयोभिहिते सकलस- | स्यान्तःपुरस्य च परिभवरूपं । अथच राक्षसेन्द्रस्य चिवप्रधानः प्रहस्तः स्वाभिमतमर्थं राज्ञे निवेदयति-| प्रधर्षणरूपं । अतो न क्षमणीयमित्यर्थः । । ६-७ ॥ तत इति । १८२ ॥ हनुमतः पौरुषं प्रत्यक्षतो | ततः किं करिष्यसीत्यत आह--अस्मिन्निति ॥८-९॥ स० दैवतपतिः इन्द्रः । लङ्कायां तत्रापिकारागृहइतिशेषः । सागरमित्यर्धर्चादिः । अतोमहदितिपूर्वश्लोकस्थविशेषणंयुक्तं । दीप्तानलार्कद्युतिमप्रमेयं ” इत्यत्रप्रमेयदीपिकायामप्रमेयखस्ययुताविवमहदित्यस्यबहुत्रीहिघटकपुलिनपदायैवान्वयः । अतो नपुंसकत्वोपपत्तिः । महान्तमितिलिङ्ग विपर्यासोवा । दैवतशब्दग्रहणेनतेषांनपुंसकवंध्वन्यते ॥ २३२ ॥ ति० पितामहस्य चतुर्मुखस्यरुद्रस्य । यदिज्यातीलब्धवरः तदाज्ञया । । । तन्नियोगात् सर्वस्यजगतःप्रजापतिःपिता भगवांश्चतुर्मुखरुद्रपितामहः भगवान्हिरण्यगर्भःप्रपितामहः । अतएवादित्यरुद्रवसुप्रधानाःसर्वश्राद्धदेवताःसर्वयज्ञदेवताः । ससुरासुरसर्वप्रजोपास्यस्यसर्वख. भूताध्वेतिकतकः । शंबरंवृत्रंहन्ति सः ॥ स७ सर्वदेवनमस्कृतइत्युपहासः ॥ २३ ॥ इतिसप्तमःसर्गः ॥ ७ ॥ रामानु० जीवतइत्यनादरेषष्ठी ॥ ३ ॥ रामानु० करोमि अचिरादेवकरिष्यामि। ‘‘ वर्तमानसामीप्येवर्तमानवद्वा इतिभविष्यदर्थेलद ॥ स० करोमीत्यनेनलप्रयोगेण विलंबासहवंसूचयति ॥ ४ ॥ स० शौर्यमदेनरजनीचरेत्युक्तिः ॥ ५॥ ति० भूयः पुनः। पुरस्य अन्तःपुरस्यचायंपरिभवोदाहरूपोनक्षमणीयइत्यनुषङ्गः । वानरेन्द्रप्रधर्षणं तज्जराक्षसेन्द्रस्यदुःखं । अह [ पा० ] १ ग, घ. च. छ. ज. क. र्लङ्कायांच. २ ङ. छ. झ. अ. ट. नीलांबुदप्रख्यः ३ झ. ट. पुनर्मानवौ. ४ ध. वीरांश्चरजनीचरान्. ५ ङ. झ. ट. वानरेन्द्रप्रधर्षणं, ६ ङ. झ. ट, गवैको. t; ११