पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २७ 'विनिहत्य च यक्षौघान्विक्षोभ्य च विगृह्य च ॥ त्वया कैलासशिखराद्विमानमिदमाहृतम् ॥ ५ ॥ मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता । दुहिता तव भार्यायै दत्ता राक्षसपुङ्गव ॥ ६ ॥ दानवेन्द्रो मैथुर्नाम वीर्योत्सिक्तो हुँरासदः। विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ॥ ७ ॥ निर्जितास्ते महाबाहो नागा गत्वा रसातलम् ॥ वासुकिस्तक्षकः शर्वो जटी च वशमाहृताः॥ ८॥ अक्षया बलवन्तश्च शूरा लब्धवराः पुनः । त्वया संवत्सरं द्वंद्वा समरे दानवा विभो ॥ ९ ॥ स्खबलं समुपाश्रित्य नीता वशमरिन्दम । मायाश्चाधिगतास्तत्र बृहवो रक्षसाधिप ॥ १० ॥ [ र्निर्जिताः समरे रोषाच्छोकपाला महाबलाःदेवलोकमितो गत्वा शूकधापि विनिर्जितः।]॥११ शूराश्च बलवन्तश्च वरुणस्य सुता रणे ॥ निर्जितास्ते मॅहाबाहो चतुर्विधबलानुगाः ॥१२॥ मृत्युदण्डमहाग्राहं शाल्मलिद्रुममण्डितम् ॥ कालपाशमहावीचिं यमकिङ्करपन्नगम् ॥ १३ ॥ | अॅहाज्वरेण दुर्धर्ष यमलोकमहार्णवम् ॥] अवगाह्य त्वया राजन्यमस्य बलसागरम् ॥ जयश्च विपुल प्राप्तो मृत्युश्च प्रतिषेधितः ॥ १४ ॥ सुयुद्धेन च ते सर्वे लोकास्तत्र विलोलिताः ॥ १५ ॥ क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः ॥ आसीद्वसुमती पूर्णा महद्भिरिव पादपैः॥ १६ ॥ तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे । प्रसह्य ते त्वया राजन्हताः पेरमदुर्जयाः ॥ १७ ॥ तिष्ठ वा किं महाराज श्रमेण तव वानरान् । अयमेको मेहाबाहुरिन्द्रजित्क्षपयिष्यति ॥ १८ ॥ अनेन हि महाराज माहेश्वरमनुत्तमम् ॥ इष्ट्वा यज्ञे वरो लब्धो लोके परमदुर्लभः ॥ १९ ॥ शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम् ॥ गजकच्छपसंबाधमश्वमण्डूकसंकुलम् ॥ २० ॥ युद्धे ॥ ३–४ ॥ विमानं पुष्पकं । ५ ॥ दुहिता | र्विधबलानुगाः रथगजतुरगपदातिभेदेन चतुर्विधानि मन्दोदरी । यद्यपि मयेनाभिजात्यभ्रमाद्दत्तेत्युत्तरे | बलानि पृष्ठगानि येषां ते तथा ॥ १२ ॥ मृत्युदण्डे- वक्ष्यति तथाप्यत्र प्रशंसायां भयाद्दत्तेत्युक्तं ॥ ६ ॥ | त्यादिश्लोकद्वयमेकान्वयं ॥ मृत्युदण्डः यमदण्डः स दानवेन्द्रः मधुः । कुम्भीनसी रावणभगिनी । सुख- | एव महाग्राहः महानक्रः यस्मिन् । शाल्मलयः मावहतीति सुखावहः भर्ता ॥ ७ ॥ जटी सर्पवि- | कण्टकशाल्मलिवृक्षाकारायुधविशेषाः त एव द्रुमाः शेषस्य नाम ।त्वया भोगवतीमित्यत्र तक्षकादिभिन्नक- | तैर्मण्डितं । मृत्युः यमः । प्रतिषेधितः युद्धादपक्र- कटकादिजयोक्तिरिति न पौनरुक्त्यं । ८॥ अक्षया | मितः ॥ १३-१४ ॥ सुयुद्धेनेत्यर्थं । सुयुद्धेन इत्यादिश्लोकद्वयमेकान्वयं । लब्धवराः ब्रह्मणेति | स्वल्पयुद्धेनेत्यर्थः । विलोलिताः द्राविताः ॥ १५ ।। शेषः । अक्षयाः चूर्णीकरणेपि पुनरुत्पत्तिमत्त्वेन । क्षत्रियैः अनरण्यप्रभृतिभिः ॥ १६ ॥ न समो राघव क्षयरहिता इत्यर्थः । दानवाः कालकेयाः । तत्र | इति । तेभ्योपि निहीनबलः सुखेन निग्राह्य इति कालकेयसकाशात् । बहवः बह्वथः। ‘‘ वोतो गुणव | भावः ॥ १७-१८ ॥ माहेश्वरं महेश्वरप्रीतिकरं चनात् ” इति पक्षे डीषभावः ॥ ९–११ ॥ चतु ॥ १९॥ । शक्तितोमरेत्यादिश्लोकत्रयमेकान्वयं ।२०. – नंलाघमानः ॥ ४ ॥ ति० नजयमात्रं अपितुसर्वखापहरोपीत्याह-विनिपात्येति । इदंविमानं पुष्पकं ॥ ५ ॥ ति० शाल्मलिद्रुमैः यातनावृकैः मण्डितं । सागरोपिद्वीपेषुवृक्षमण्डितोभवति ॥ १३ ॥ ति० एवंदिव्यंजयमुक्खाभौमंजयमाहुः -क्षत्रियैरिति ॥ १६ ॥ [ पा० ] १ क, ख, ग. ङ. च. ज -ट. विनिपायच . २ क. ख. ग . ङ. ज. झ. ट. महाबाहोवीर्यो. ३ घ. महाबलः । ४ घ. युध्वाविभोरत्नाकरेतदा. ५ च. छ. झ. ट. बहुयोवैराक्षसाधिपः ६ अयंश्लोकःप्राचीनकोशेषुनदृश्यते ७ क. ग. महाभा गाश्चतुर्विध. ख. च, ज, महाराजः ङ, झ. ट. महाभाग. ८ इदमधे ङ-ट, पाठेषुदृश्यते. ९ क. ख. घ.--ट. सुतोषिताः १० क, ग. गुणोत्सेकैः ११ ङ, च, छ. झ. अ, ट, समरदुर्जयाः, १२ क ख. उ-ट, महाराजइन्द्रजित्