३१२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ॥ हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः ॥ ६५ ॥ न्नन्तमन्यं जघनान्यः पातयन्तमपातयत् । गर्हमाणं जगहॅऽन्यो दशन्तमपरोऽदशत् ॥ ६६ ॥ देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः॥ किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ ६७॥ विप्रलम्बितवस्त्रं च विमुक्तकवचायुधम् । समुद्यतमहाम्रासं यैष्टिशूलासिसंकुलम् । प्रावर्तत महारौद्रे युद्धे वानररक्षसाम् ॥ ६८ ॥ वानरान्दश सप्तेति राक्षसा जत्रुराहवे ॥ राक्षसान्दश सप्तेति वानराश्चाभ्यपातयन् ॥ ६९ ॥ विस्रस्तकेशवसनं विध्वस्तकवचध्वजम् । बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ।। ७० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ षट्सप्ततितमः सर्गः ॥ ७६ ॥ अङ्गदेन कंपनप्रजङ्घयोर्वधः ॥ १ ॥ मैन्दद्विविदाभ्यां यूपाक्षशोणिताक्षयोर्वधः ॥ २ ॥ सुग्रीवेणकुंभवधः ॥ ३ ॥ प्रवृत्ते संकुले तैसिन्घोरे वीरजनक्षये ।। अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥ १॥ आहूय सोङ्गदं कोपात्ताडयामास वेगितः । गदया कम्पनः पूर्वं स चचाल भृशाहतः॥ २॥ स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः॥ अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥ ३ ॥ ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे ।। रथेनाभ्यपतत्क्षिप्रं तत्राङ्गदमभीतवत् ॥ ४ सोङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः । शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ॥ ५॥ भुरभुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः । कर्णिशल्यविपाकैश्च बहुभिर्निशितैः शरैः॥ ६ ॥ अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान् । धेनुरज्यं रथं बाणान्ममर्द तरसा बली ॥ ७ ॥ मध्ये हरिवीरान् वीरहरीन् । निजतुः।। ६५-६६ ।। | अथ कुम्भवधः षट्सप्ततितमे—प्रवृत्त इत्यादि । देहीति । अन्यो वीरः प्रहरणमत्र देहीति बभाषे । | संकुले निरन्तरे ।। १ ॥ आहूय स्पर्धयित्वा । ‘हेच् अन्यो ददातीति बभाषे । अपरः पुनः ददामीति | स्पर्धायां शब्दे च ” इति धातोर्यप् । वेगितः संजा बभाषे । आत्मानं आयासेन किं क्लेशयसि तिष्ठेत्यन्यो | तवेगः । तारकादित्वादितच् । सः अङ्गदः ॥ २ ॥ बभाषे ॥ ६७ ॥ विप्रल- | चिक्षेप कम्पनोरसीति शेषः । हतमि । तत्रैवमन्योन्यं बभाषिरे ३ ।। कम्पनं म्बितवस्रमित्यादि सर्वं क्रियाविशेषणं ॥ ६८ ॥ वानरान् दश सप्तेति । राक्षसाः दश सप्तत्यनेन प्रका त्यन्वयः । तत्र कम्पनयुद्धस्थाने । अभीतवत् । अभी तमिति क्रियाविशेषणं ।। ४ । कालाग्निसमविग्रहैः रेण वानरान् जघ्नुः । वानराश्च दश सप्तेत्यनेन प्रकारेण राक्षसानभ्यपातयन्निति संबन्धः ॥ ६९ ॥ कालाग्नितुल्याकारैरित्यर्थः । ५। क्षुरेत्यादि । क्षुरः आलम्ब्य वेगेन धावमानं प्रतिष्टभ्य । ततः परितो- नापितशस्त्रकारमुखः । क्षुरप्रः अर्धचन्द्राकृतिः । ऽवरयन् ॥ । ७० ॥ इति श्रीगोविन्दराजविरचिते | नाराचः शल्यकः । वत्सदन्तैः वत्सदन्तकारमुकैः। श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या- | शिलीमुखैः कङ्कपत्राकारमुदैः । उभयपार्श्वकृतकर्णः ख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ कर्ण। अर्धनाराचः शल्यः । विपाठः करवीरपत्राग्र- ति० अभीतवत् अभीताही । ॥ ४ ॥ [ पा० ] १ झ. विप्रलंभितशत्रुच. २ क. घ, ङ. छ. झ. ज. ट. मुष्टिशलासिकुन्तलं. ३ झ. विप्रलंभितवर्तेच. ४ ख. ज. युद्धेतस्मिन्वीर. ५ ख. रथेनाभ्यद्रवत, ६ क. ग.-अ. धनुरुपं.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१६
दिखावट