सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३०५ कैलासमयं हिमवच्छिलां च तथर्षभं काञ्चनशैलमभ्यम् ॥ संदीप्तसर्वोषधिसंप्रदीपं ददर्श सवौषधिपर्वतेन्द्रम् ॥ ६३ ॥ स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः । आवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ॥ ६४ ॥ स योजनसहस्राणि समतीत्य महकपिः । दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ ६५ ॥ महौषध्यस्ततः सर्वास्तसिन्पर्वतसत्तमे ॥ विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ ६६ ॥ स ता महात्मा हनुमानपश्यंशुकोप कोपाच्च भृशं ननाद । अमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥ ६७ ॥ किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतांनुकम्पः॥ पश्याद्य मद्भाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ ६८ ॥ स तस्य युद्धे सनगं सनागं सकाश्चनं धातुसहस्रजुष्टम् । विकीर्णकूटज्वलिताग्रसानं प्रगृह्य वेगात्सहसोन्ममाथ ॥ ६९॥ स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान्ससुरासुरेन्द्रान् ॥ संस्तूयमानः खचरैरनेकैर्जगाम वेगाद्गरुडोग्रवेगः ॥ ७० ॥ स भास्कराध्वानमनुप्रपनस्तं भास्कराभं शिखरं प्रगृह्य । बभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः॥ ७१ ॥ स तेन शैलेन भृशं रराज शैलोपमो गन्धवहोत्मजस्तु ॥ सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥ ७२ ॥ कार्मुकं तत्स्थानमित्यर्थः । नाभिं पातालप्रवेशरन्थं | इन्द्रेण प्रेरितो हारं रामायोपाहरत् । विचयं अन्वे ॥ ६१-६२ । ब्रह्मादिस्थानेषु रजतालयमिति परि- षणं ।। ६४ ॥ अतीत्य अतीत्यापीत्यर्थः । अनेन श्रम गणितमपि जास्बवदुपदिष्टप्रकारेण दर्शनाय पुनराह-रहितत्वमुक्तं ।। ६५ ॥ ततः तस्य हनुमतः । अदर्शनं कैलासमिति । हिमवच्छिला नाम कैलासपावें ॥ ६६ । ताः ओषधीः ।। ६७ । राघवे कृतानुकम्पो कश्चिच्छिलाविशेषः । अषभं त्रषभाख्यमौषधिप- | नासीति यत् एतत् एवं सुविनिश्चितं यदि ताई वैतं । काञ्चनशैलं पूर्व मेरुमित्युक्तं । संदीप्तसर्वोषधि | आमानमथो विकीर्ण पश्येति संबन्धः । एतच्छूो- संप्रदीप्तं संदीप्ताभिः रात्रौ ज्वलन्तीमिः सवभिः | कानन्तरमित्युक्त्वेत्यध्याहारें ॥ ६८ ॥ सनागं ओषधीभिः तृणज्योतिर्भिः संप्रदीप्तं सम्यक्प्रकाश | सगजं । उन्ममाथ उत्पाटयामास ॥ ६९-७० ।। मानं । सवौंषधिपर्वतेन्द्रं मृतसञ्जीवन्यादिसर्वोषधि- | भास्काराध्वानं अन्तरिक्षे । भास्कराभशिखरप्रहणात् युक्तपर्वतेन्द्रे। ददर्श ॥ ६३ ॥ वासवदूतः वायुः | स्वयं भास्करसन्निकाशत्वाच्च सूर्यसमीपस्थः प्रतिसूर्य वासवादेशेन मेघप्रेरकत्वात् । अतएवाभिषेकसमये | इव बभावित्यर्थः ॥ ७१ ॥ सहस्रधारेण । आर्पतेन ति० हिमवच्छिलां भगवतोरुद्रस्यतपस्समाधिपीठं ॥ ६३ ॥ ति० वासवयमेघस्खरूपिणोदेवराजस्यदूतः प्रेरकः वायुरित्यर्थः । स० वासवोदूतःश्रोतकारीयस्यसतस्य । सूनुः ॥६४॥ ति० योजनसहस्राणि सहस्रशब्दोऽनेकोपलक्षणं । स० योजन सहस्राणि पञ्चाशत्सहस्रयोजनानि ॥ ६५ ॥ ति० रवेःसमीपइत्यनेन सूर्योदयोत्तरमेतदानयनमितिलभ्यते । सं० रस्समीपेबभौ । अनेनसूर्योदयोत्तरंगमनानयनेइतिलभ्यते ॥ ७१ ॥ स० खे हस्तात्मकेइन्द्रिये। अर्पितेन । आकाशेयथातथाबभावितवा ॥७२॥ [ पा७] १ क. विष्णुरिवोद्धतेन. वा. रा. २१६