३०४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ९ स तौ प्रसायोंरगभोगकल्पौ भुजौ भुजङ्गवारिनिकाशवीर्यः । जगाम मेनू नगराजमध्यं दिशः प्रकर्षेनिव वायुसूनुः ॥ ५२ ॥ स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्वम् । समीक्षमाणः सहसा जगाम चक्रे यथा विष्णुकराग्रयुक्तम् ॥ ५३ ॥ स पर्वतान्घृक्षगणान्सरांसि नदीस्तटाकानि पुरोत्तमानि । स्फीताञ्जनान्तानपि संप्रवीक्ष्य जगाम वेगात्पितृतुल्यवेगः॥५४॥ आदित्यपथमाश्रित्य जगाम स गतक्लमः ॥ हनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ॥ ५५ ॥ जवेन महता युक्तो भैरुतिर्मारुतो यथा ॥ जगाम हरिशार्दूलो दिशः शब्देन पॅरयन् ॥ ५६ ॥ स्मरञ्जाम्बवतो वाक्यं माउँतिर्वातरंहसा ॥ ददर्श सहसा चापि हिमवन्तं महाकपिः ॥ ५७ ॥ नानाप्रस्रवणोपेतं बहुकन्दरनिझीरम् । श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः ॥ शोभितं विविधैर्वेदैरगमपर्वतोत्तमम् ॥ ५८ ॥ स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरंशङ्गम् ॥ ददर्श पुण्यानि महाश्रमाणि सुरर्षिसद्धोत्तमसेवितानि ॥ ५९ ॥ स ब्रेलकोशै रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् ॥ हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैबखतकिङ्करांश्च ॥ ६० ॥ वेंज़ालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च । ब्रह्मसनं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ॥ ६१ ॥ [ विंनेश्वरं तत्र सनन्दिकेशं स्कन्दं वृतं देवगणैर्ददर्श । उमां सुदुर्गामथ कन्यकाभिर्विलासयन्तीं ददृशेऽग्रयवीर्यः ]॥ ६२ ॥ संप्रणुन्नाः । दूरं प्रेरिताः । क्षीणवेगाः क्रमेण क्षीण- | कुड्कलेणैवं गुह्यदेशेण्डशीर्षयोः । गृहे देहे पुस्तकौ वेगाः सन्तः ॥५१॥ मेरं कैलासपर्धवर्तिनं । अस्ति | घपेट्यामसिपिधानके” इति रत्नमाला । रजतालयं हन्यो हिमवदन्तर्वर्ती मेरुः। यद्वा मे मेरूपलक्षि- | कैलासं । शक्रस्य इन्द्रस्य । स्थानं आश्रमस्थानं । रुद्ध तदिशि स्थितं नगराजं हिमवन्तं । यद्वा मेरुमुद्दिश्य | शराः प्रमोक्ष्यन्ते लीलार्थं यस्मिन् तद्वद्रशरप्रमोक्षे जगाम । उत्तरदिशमुद्दिश्य जगामेत्यर्थः । यद्वा मेरं स्थानं । हननं हयग्रीवाराधनस्थानं । ब्रह्मशिरः मेरुसदृशं । प्रकर्षन् कम्पयन् ॥ । ५२-५३ । ज- | रुद्रनिकृत्तब्रह्मशिरःप्रक्षेपस्थानं । वैवस्वतकिङ्करान् नान्तान् जनपदान् ॥ ५४ । पूर्वमुपर्युपरिसागरमि- | विवस्वत्संबन्धिकिङ्करान् । ग्रामण्यादीन् मासान्तपरि त्युक्त्या आदित्यपथं आकाशं ॥ ५५--५६ ॥ स्म- |चारकान् विश्रमार्थमत्र स्थितान् ॥ ६० ॥ वत्रालय रन् जाम्बवत इति जाम्बवद्वाक्यस्मरणं औषधिपर्व- | मिति । इन्द्राय ब्रह्मणा वअप्रदानस्थानं । सूर्यप्रभ तमतीत्य वेगातिशयेनान्यत्र गमननिवृत्त्यर्थं । वातरं- | मिति वैश्रवणालयविशेषणं । सूर्यनिबन्धनं छायादे- हसा । उपलक्षित इति शेषः ।। ५७-५९ । दृष्टा- । वीप्रीतये विश्वकर्मणा शाणारोपणाय सूर्यनिबन्धन नामाश्रमाणां नामान्यनुक्रामति-स ब्रह्मकोशमित्या | स्थानं । ब्रह्मासनं देवगणसंदर्शनाय कृतं ब्रह्मणः दिना । ब्रह्मणश्चतुर्मुखस्य कोशो गृहं । * कोशोस्त्री । सिंहासनं । ब्रह्मणामृषीणामासनं स्थानं वा। शङ्कर ति० रजतालयं हिरण्यगर्भापरमूर्तेरजतनाभेःस्थानं । ब्रह्मशिरः ब्रह्मास्त्रदेवता । तत्स्थानं ॥६०ति० सूर्यनिबन्धनं सूर्याणांयत्र स्थानेनिबन्धनंसमावेशः तत्स्थानं । अतएवतत्सूर्यप्रभै। ब्रह्मालयं चतुर्मुखब्रह्मस्थानं ॥ ६१ ॥ [ पा० ] १ ङ. झ. ट. न्पक्षिगणान्. २ डल झ. मारुतिर्वातरंहसा ३ क, ख, ग , ङ. –ट, नादयन् , ४ ङ. झ. अ• ट• मारुतिभीमविक्रमः, ५ ख. ङ. छ. झ. अ. ट. हेमशहूँ. ६ घ. ब. ब्रह्मलोकं ७ ड. झ. ठ. वहद्यालयं. ८ . झ. ट. ब्रह्म लयं. ९ अयंलोकः क. ख, च, छ. पाठेषुदृश्यते.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०८
दिखावट