सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६

न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र ॥ [ तद्वणनिर्भिन्नविकीर्णदेहाः प्राणैर्विमुक्ताः समरे पतन्ति ।] नेन्द्रारिबाणाभिहतो हि कश्चित्प्राणान्समर्थः समरेऽभिपातुम् ॥ ४ ॥ पश्याद्य रामं सह लक्ष्मणेन मद्वाणनिर्भिन्नविकीर्णदेहम् ॥ गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम् ॥५॥ इमां प्रतिज्ञां शृणु शक्रशत्रः सुनिश्चितां पौरुषदैवयुक्ताम् ॥ अचैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघेः ॥ ६ ॥ अधेन्द्रवैवस्खतविष्णुमित्रसाध्याश्विवैश्वानरचन्द्रसूर्याः॥ द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ॥ ७ ॥ स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छय राजानमदीनसत्वः। समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ॥८॥ तैमास्थाय महातेजा रथं हरिरथोपमम् ॥ जगाम सहसा तत्र यत्रं युद्धमरिन्दमः ॥ ९॥ तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः॥ संहर्षमाणा बहवो धनुःप्रवरपाणयः ॥ १० ॥ गजस्कन्धगताः केचित्केचित्प्रवरवाजिभिः ॥ [ व्याघ्रवृश्चिकमार्जारैः खरोटैश्च भुजङ्गमैः ॥ ११ ॥ वराहश्वापदैः सिंहैर्जम्बुकैः पर्वतोपमैः ॥ *शहंसमणैश्च राक्षसा भीमविक्रमाः ॥ १२॥ प्रासमुद्रनिस्त्रिंशपरश्वधगदाधरः ॥ [ भुशुण्डिमुद्रायष्टिशतघ्नीपरिघायुधः ]॥ १३ ॥ स शङ्करनिनदैः पूर्णाभेरीणां चापि निस्वनैः ॥ जगाम त्रिंदशेन्द्रारिः स्तूयमानो निशाचरैः॥ १४ ॥ स शङ्कशशिवर्णन छत्रेण रिपुसूदनः ॥ रराज प्रीतिपूर्णेन नभश्चन्द्रमसा यथा ॥ १५॥ अवीज्यत ततो वीरो हैमैर्हमविभूषितैः॥ चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥ १६ ॥ [ स तूं इवा विनिर्यान्तं बलेन महता वृतम् । राक्षसाधिपतिः श्रीमाञ्जावणः पुत्रमब्रवीत् ॥१॥ त्वमप्रतिरथः पुत्र त्वया वै वासवो जितः । किं पुनर्मानुषं धृष्यं निहनिष्यसि राघवम् । तथोक्तो राक्षसेन्द्रेण प्रत्यगृह्मन्महाशिषः ]॥ १८॥ ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा । रराजानतिवीरेण द्यौरिवार्केण भास्खता ॥ १९ ॥ स संप्राप्य महातेजा युद्धभूमिमरिन्दमः ॥ स्थापयामास रक्षांसि रथं प्रति समन्ततः ॥ २० ॥ शानजादेशः ॥ ३ ॥ यत्र यदा । इन्द्रारिः इन्द्रजित् | निलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु' । शुकाहिकपिभे ॥४-५॥ पौरुषदैवयुक्तां पुरुषबळदैवबळ्युक्तां । सन्तर्प- | केषु हरिर्ना कपिले त्रिषु ’ इत्यमरः । युद्धमिति । यिष्यामि पूरयिष्यामि ॥६-७। खरश्रेष्ठसमाधियुक्तं । कर्तव्यमिति शेषः ॥ ९ ॥ तं प्रस्थितामित्यादिश्लोक खरश्रेष्ठसंबन्धयुक्तं । खरश्रेष्ठः समाधिना समाधानेन । इयमेकान्वयं ।। १०–१५ ॥ हैमैः हेमदण्डैः। हेम च युक्तमिति वा ॥ ८॥। हरिरथः सूर्यरथः । “‘यमा- ) विभूषितैः हेमशलाकायुक्तैः ॥१६-१९॥ रथं प्रति धानात् पूर्वरावणेनातिकायवधएवभृतइत्यवगम्यते । यद्वा पूर्वोक्तानुवादः ॥१॥ ति० पौरुषदैवयुक्तां पौरुषेण सहजशौर्यबलेन । दैवबलेन भगवद्भद्बलेनच युक्तांक्रियमाणां । आदिकर्मणितः ॥६॥ ति० युद्धभूमिं युद्धजयसंपादकहोमसाधनभूमिं निकुंभिला [ पा० ] १ इदमर्घ घ. पाठेदृश्यते. २ ख. ड. झ. अ. ट. विष्णुरुद्र. ३ क. -ट. समास्थाय. ४ ग. च. छ, अ, युद्धभू- मिमरंदमः . ख• यत्रयुदंप्रवर्तते. ५ ङ.---ट. परमवाजिभिः ६ इदमर्घत्रयं ङ. -ट. पाठेघदृश्यते ७ ङ.-ट. काकहं समयूरैर्ध. ८ इदमथं च. क. पाठयोर्दश्यते. ९ ग. घ. ड. झ. ट. त्रिदशेन्द्रारिराजिंवेगेनवीर्यवान्ख. छ. अ. त्रिदशेन्द्रारि र्महासैन्येनवीर्यवान्. १० ख. च. छ.ज.अ. निशिपूर्णेन ११ इदं लोकद्वयं औत्तराहपाठएवद्यतेनतुदक्षिणात्यश्राचीनकोशेषु.