सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सनैः ७३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २९९ १ अप्रमत्तैश्च सर्वत्र गुतै रक्ष्या पुरी त्वियम् ॥ १२ ॥ अशोकवनिकायां च यत्र सीताऽभिरक्ष्यते । निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वथैव नः ॥ १३ ॥ यत्र यत्र भवेदुल्मस्तत्र तत्र पुनः पुनः ॥ सर्वतश्चापि तिष्ठध्वं वैः यैः परिवृता बलैः ॥ १४॥ द्रष्टव्यं च पदं तेषां वानराणां निशाचराः । प्रदोषे वाऽर्धरात्रे वा प्रत्यूषे वाऽपि सर्वतः ॥ १५॥ नावज्ञा तत्र कर्तव्या वानरेषु कदाचन ॥ द्विषतां बलमुद्युक्तमापतकिस्थितं सदा ॥ १६ ॥ ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत् । वचनं सर्वमातिष्ठन्यथावतु महाबलाः ॥ १७ ॥ स तान्सर्वान्समादिश्य रावणो राक्षसाधिपः। मन्युशल्यं वहन्दीनः प्रविवेश खमालयम् ॥ १८ ॥ ततः स संदीपितकोपवह्निर्निशाचराणामधिपो महाबलः । तदेव पुत्रव्यसनं विचिन्तयन्पॅहुर्मुहुश्चैव तदा निश्वसत् ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विसप्ततितमः सर्गः ॥७२ ॥ त्रिसप्ततितमः सर्गः ॥ ७३ ॥ देवान्तकादिवधश्रवणेनविषीदतिदशानने तंप्रतीन्द्रजिता रामादिवधप्रतिज्ञानेनसमाश्वासनपूर्वकं रथारोहणेनरणायनि- यणम्॥१॥ तथा रणाङ्गणेहुतवहेहवनपूर्वकं रथारोहणेनान्तरिक्षेऽतर्हितेनसता नानाप्रहरणगणैः कपिकुलशकलीकरणपूर्वकं ब्रह्मास्त्रप्रयोगेण सकलवानरवाहिन्यासहरामलक्ष्मणयोर्मोहप्रापणम् ॥ २ ॥ ततो हतास्राक्षसपुङ्गवांस्तान्देवान्तकादित्रिशिरोतिकायान् ॥ रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः॥ १॥ ततो हतांस्तान्सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः ॥ पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ॥ २ ॥ ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे संपरिपुष्टुवानम् ॥ रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदं बभाषे ॥ ३ ॥ एवं रामप्रभावं सप्रपञ्चमुक्त्वा सैन्यं प्रति पुरीरक्षणं | आर्षः । आपतत् किमिति सदा द्रष्टव्यमित्यर्थः। नियमयति-अप्रमत्तैरित्यादिना । गुतैः स्वयं कृत- | आपतत्किमिति पाठः सुशोभनः ।। १५-१९ ।। रक्षणैः। गुल्मैरिति वा पाठः ।। १२ ॥ यत्र सीता | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे अभिरक्ष्यते तत्र अशोकवनिकायां । निष्क्रामः निर्गमः । रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विसप्ततितमः प्रवेशो वा । नः अस्माभिः । ज्ञातव्यः । मदनुज्ञां | सर्गः ।। ७२ ।। विना न कोपि जनो निर्गमयितव्यो नापि प्रवेष्टव्य इत्यर्थः ।। १३ ॥ गुल्मः सेनासन्निवेशः ॥ १४ ॥| अथ ब्रह्मास्त्रबन्धत्रिसप्ततितमे-ततो हतानित्यादि द्रष्टव्यमित्यादिश्लोकद्वयमेकान्वयं ।। पदं व्यवसितं । ॥ १ ॥ पूर्वं कुम्भकणोद्विधः सामान्येन श्रुतः दर्शनप्रकारमाह-द्विषतामिति । द्विषतां बलं स्थितं | संप्रत्यातैः सविशेषं श्रुत इत्याह-तत इति । पूर्वा किं । उद्युक्तं उद्यतं किं। आपतन्तं । लिङ्गादिव्यत्यय | क्तसर्वानुवादो वा ॥ २ ॥ संपरिपुष्तुवानं । लटः रामानु० अत्रदेवान्तका दित्रिशिरोतिकायान् हतांस्त्वरितंशशंसुः घोरंपुत्रक्षयंभ्रातृवधंच विचिन्त्यविपुलंप्रदध्यावितिचाभिः [ पा० ] १ ड. झ. अ. ट. सैन्यैःपरिवृता. २ ख. च. ज. ट. वहन्दीप्तंप्रविवेशनिवेशनं. ग. घ. वहंतीनंप्रविवेश. ३ खः न्मुहुर्मुहुर्निश्वसितिस्मदीयै. ४ क. ग. ङ. झ. ट. विनिश्वसन् . ५ ख. ङ. झ. अ. ट. वरिताः