२९२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६
विधायैवं विनम्यास्यं नियम्य च भुजावुभौ । स रथोपस्थमास्थाय रथे च प्रचचार ह ॥ ७७ ॥ एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः । आददे संदधे चापि विचकर्षात्ससर्ज च ॥ ७८ ॥ ते बाणाः कालसंकाशा राक्षसेन्द्रधनुध्युता ॥ हेमपुङ्वा रविप्ररख्याश्चक्रुदीप्तमिवाम्बरम् ॥ ७९ ॥ ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्राघवानुजः । असंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः॥ ८० ॥ ताञ्शरान्युधि संप्रेक्ष्य निकृत्तात्रावणारमजः ॥ चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥ ८१ ॥ स संधाय महातेजास्तं बाणं सहसोत्सृजत् । तैतः सौमित्रिमायान्तमाजघान स्तनान्तरे अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि ॥ सुस्राव रुधिरं तीनं मदं मत्त इव द्विपः॥ ८३ ॥ स चकार तदाऽऽत्मानं विशल्यं सहसा विभुः ॥ जग्राह च शरं तीक्ष्णमस्त्रेणापि च संदधे ॥८४ आमेयेन तदाऽऽत्रेण योजयामास सायकम् । स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥८५॥ अतिकायोपि तेजस्वी सौरॉमन्त्रं समादधे । तेन बाणं भुजङ्गाभं हेमपुङ्गवमयोजयत् ॥ ८६ ॥ तदस्त्रं ज्वलितं घोरं लक्ष्मणः शरमाहितम् । अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ ८७॥ आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः । उत्ससर्ज तदा बाणं दीप्तं चूर्यास्त्रयोजितम् ॥ ८८ तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः । तेजसा संप्रदीप्ताग्रौ क्रुद्धाविव भुजङ्गमौ ॥ ८९॥ तावन्योन्यं विनिवेद्य पेततुः पृथिवीतले ॥ निरर्चिषौ भसकृतौ न भ्राजेते शरोत्तमौ । [ तीवुभौ दीप्यमानौ स नभ्राजेते मैहीतले ॥ ९० ॥ ततोतिकायः संङ्गंस्त्वस्रमैषीकमुत्सृजत् । तत्प्रचिच्छेद सौमित्रिरस्त्रेणैन्द्रेण वीर्यवान् ॥ ९१ ॥ ऐषीकं निहतं दृष्ट्वा नृषितो रावणात्मजः॥ याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् ॥ ९२ ॥ ततस्तदत्थं चिक्षेप लक्ष्मणाय निशाचरः॥ वायव्येन तदस्त्रेण निजघान स लक्ष्मणः ॥ ९३ ॥ अथैनं शरधाराभिर्धाराभिरिव तोयदः॥ अभ्यवर्षत्सुसंक्रुद्धो लक्ष्मणो रावणात्मजम् ॥ ९४ तेऽतिकायं समासाद्य कवचे वंजभूषिते ॥ भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥ ९५॥ तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा । अभ्यवर्षन्महेषीणां सहस्त्रेण महायशाः ॥ ९६ ॥ स वृष्यमाणो बाणौधैरतिकायो महाबलः। अवध्यकवचः सद्वये राक्षसो नैव विव्यथे ॥ ९७ ॥ [ शूरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत् । स तेन विद्धः सौमित्रिमैर्मदेशे शरेण ह । मुहूर्तमात्रं निस्संज्ञो ह्यभवच्छत्रुतापनः ॥ ९८ ॥ विनय भुजौ नियम्य वशे स्थापयित्वा । रथोपस्थ | संदधे योजयामास ॥ ८४ ॥ आग्नेयेनेत्यादि । पूर्वा मास्थाय रथेन प्रचचार हेति संबन्धः ।। ७६-७७ ॥ | क्तस्यैव विवरणं । ८५ ॥ समाधे अनुसंदधे ॥८६ इति उक्तप्रकारेण ॥ ७८-८३ ॥ अत्रेण अस्त्रमत्रेण । आहितं संहितं ॥ ८७. -८९ ॥ भस्मकृतौ भस्मतया ति० आत्मानंविशल्यंचकारेत्यत्रहेतुः विभुरिति । विष्ण्वंशखानुसंधानवानित्यर्थः । स० विशल्यं तद्वाधारहितं । तत्रहेतु- र्विभुरिति ॥ ८४ ति० दीप्यमानौ तादृशावपि परस्पराभिघातानभ्राजेते । स० निरर्चिषौ निष्प्रभौ । भस्मकृतौ भस्मकुवतेइतितथा । पृथिवीतलेपतितौ नभ्राजेते । महीतलेविद्यमानौतौमोक्तारौलक्ष्मणातिकायावषि दीप्यमानौ प्राक् हतोऽथ मितिंपरस्परंजयप्रकाशौनभ्राजेतेस्म मोघीभूतबाणावित्यभ्राजनंयुक्तमिति भावः । अतोनपुनरुक्तिः । महाहवेइत्यपिक्कचित्पाठः ९० ॥ ति० खाट्टेत्वष्ट्रदेवताकमैषीकाख्यं ॥ ९१ ॥ [ पा०] १ ङ. झ. ट. विदार्यास्यंविनम्यचमहाभुजौ. २ ख.--ट. तेनसौमित्रिं. ३ ङ. च. झ. अ• ट . रौद्रमस्त्रं . ४ इदमध ग, घ, ङ, झ. झ. ट. पाठेषुदृश्यते. ५ क. ख. च. महाहवे. ६ झ. अ. ट . त्वाष्ट्र. ७ क. ग. घ. ड. झ. ट, कुमारो. ८ ग. हेमभूषिते. ९ क. ग.-च. झ. अभ्यवर्षतबाणानां. १० शरंचाशीविषाकारमित्यादयः तस्यरक्षसइत्यन्ताः श्लोकाःऔत्तराहपाठएवदृश्यन्तेनतुप्राचीन