सर्गः ७१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २९१ श्रुत्वाऽतिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः । स संचुकोपातिबलो बृहच्छीरुवाच वाक्यं च ततो मैहार्थम् ॥ ५७ ॥ न वाक्यमात्रेण भवान्प्रधानो न कत्थनात्सत्पुरुषा भवन्ति । मयि स्थिते धग्विनि बाणपाणौ निदर्शय खात्मबलं दुरात्मन् ॥ ५८ ॥ कर्मणा सूचयात्मानं न विकथितुमर्हसि ॥ पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ ५९॥ सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः । शरैर्वा यदि वाऽप्यत्रैर्दर्शयख पराक्रमम् ॥ ६० ॥ ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः॥ मारुतः कीलसंपकं वृन्तात्तालफलं यथा ॥ ६१ ॥ अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः॥ पास्यन्ति रुधिरं गात्राद्धणशल्यान्तरोत्थितम् ॥ ६२ ॥ बालोऽयमिति विज्ञाय न माऽवज्ञातुमर्हसि ॥ ६३ ॥ बालो वा यदि वा वृद्धो मृत्यु जानीहि संयुगे। बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिभिः क्रमैः ॥६४॥ लक्ष्मणस्य वचः श्रुत्वा हेतुमपरमार्थवत् । अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ ६५॥ ततो विद्याधरा भूता देवा दैत्या महर्षयः। गुह्यकाश्च महात्मानस्तद्युद्धं द्रष्टुंमागमन् ॥ ६६ ॥ ततोतिकायः कुपितधपमारोप्य सायकम् । लक्ष्मणाय प्रचिक्षेप संक्षिपन्निव चाम्बरम् ॥ ६७ ॥ तमापतन्तं निशितं शरमाशीविषोपमम् ॥ अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा । तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् ।। अतिकायो भृशं क्रुद्धः पव बाणान्समाददे ॥ ६९ ॥ ताञ्शरान्संप्रचिक्षेप लक्ष्मणाय निशाचरः । तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः ॥ ७० ॥ [ पञ्चभिः पञ्च चिच्छेद पावकार्कसमप्रभैः ॥] स ताञ्छिवा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा । आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ ७१ ॥ तमादाय धनुःश्रेष्ठे योजयामास लक्ष्मणः ॥ विचकर्ष च वेगेन विससर्ज च वीर्यवान् ॥ ७२ ॥ पूर्णायतविसृष्टेन शरेण नतपर्वणा । ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥ ७३ ॥ स ललाटे शरो मनस्तस्य भीमस्य रक्षसः॥ ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ॥ ७४ ॥ राक्षसः प्रचकम्पे च लक्ष्मणेषुप्रपीडितः । रुद्राणहतं घोरं यथा त्रिपुरगोपुरम् ॥ ७५ ॥ चिन्तयामास चाश्वास्य विमृश्य च महाबलः। । साधु बाणनिपातेन श्लाघनीयोसि मे रिपुः ॥७६॥ त्रिशूलं ।। ५५–५७ ॥ कत्थनात् आत्मश्लाघनात् । न्तरावस्थितमाकाशं ग्रसन्निवेत्यर्थः ।। ६७ --७२ ॥ सत्पुरुषाः शरपुरुषः ।५८-६०॥ वृन्तात् प्रसवब- | पूर्णायतेन पूर्णाकृष्टेन । विसृष्टेन क्षिप्तेन । नतपर्वणा धनात् । “ वृन्तं प्रसवबन्धनं ” इत्यमरः॥ ६१ ॥ | निलीनपर्वणा। जुनेति यावत् ॥ ७३ ॥ अक्तः बाणशल्यान्तरोत्थितमिति । बाणशल्यान्तराणि बाण- | लिप्तः । ७४ ॥ । त्रिपुरगोपुरं त्रिपुरद्वारं ॥ ७५ ॥ शल्यकृतान्यन्तराणि ।।६२-६३॥। मृत्यु जानीहि । चिन्तयामासेत्यादिश्लोकद्वयमेकान्वयं । विमृश्य कर मामिति शेषः ॥ ६४-६६ ॥ सायकं चापमारोप्य | णीयं निर्धार्य । बाणनिपातेन मे साधु श्लाघनीयो बाणं धनुषि संधायेत्यर्थः । संक्षिपन्निव बाणवेगेना- । रिपुरसीति । एवं लक्ष्मणं विधाय अभिधाय। आस्यं स० बृहच्छीः महाकान्तिः । मनखी प्रशस्तमनाः । द्वाभ्यामप्यभीततांद्योतयति ॥ ५७ ॥ स० शूरस्तुसएव ॥ ५९ ॥ स० रथमास्थितइत्यनेन प्रतियोधंपेक्षयामहासाहितीसहिततांद्योतयति ॥ ६० ॥ स० कालसंयुक्तं पकतादशापनं । अन्यत्रमृत्युका लसंयुक्तं ॥ ६१ ॥ ति७ बालेनेति । वामनेनेत्यर्थः ॥ ६४ ॥ [ पा० ] १ ङ. झ. ट. मनखीउवाच२ ङ. झ. ट. बृहच्छीः क. महात्मा ३ ङ. --ट. कालसंयुक्तं. ४ क. ग. ङ. च. झ• अ. ट. ददृशुस्तदा. ५ इदमर्घ ख, च, छ, पाठेषुदृश्यते ६ क. घ. ङ. झ. ज. ट, विससर्जचसायकं. ७ ग. विश्रम्यच,
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९५
दिखावट