२९० श्रीमद्वाल्मीकिरामायणम् । युद्धकाण्डम् ६ ततोतिकायो बलवान्प्रविश्य हरिवाहिनीम् । विस्फारयामास धनुर्ननाद च पुनः पुनः ३७ तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् । अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ॥ ३८ ॥ कुमुदो द्विविदो मैन्दो नीलः शरभ एव च । पादपैर्गिरिशखैश्च युगपत्समभिद्रवन् ॥ ३९ ॥ तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः। अतिकायो महातेजश्चिच्छेदास्रविदां वरः ॥४०॥ तांश्चैव सर्वान्स हरीञ्शरैः सर्वायसैवेली ॥ विव्याधाभिर्मुखः सङ्ख्ये भीमकायो निशाचरः ॥ ४१ ॥ तेऽर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः ॥ न शेकुरतिकायस्य प्रतिकर्तुं महारणे॥ ४२ ॥ तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः । मृगयूथमिव क्रुद्धो हरियवनदर्पितः ॥ ४३ ॥ स राक्षसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कंचित् ॥ उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ॥ ४४ ॥ रथे स्थितोऽहं शरचापपाणिने प्राकृतं कंचन योधयामि ॥ यैश्चास्ति कश्चिद्यवसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम् ॥ ४५ ॥ तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता ॥ अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥ ४६ ॥ क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् । पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥ ४७ ॥ पूरयन्स मैहीं शैलानाकाशं सागरं दिशः । ज्याशब्दो लक्ष्मणस्योग्रस्रासयत्रजनीचरान् ॥ ४८ ॥ सौमित्रेश्चापनिघोषं श्रुत्वा प्रतिभयं तदा ॥ विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥ ४९ ॥ अथातिकायःकुपितो दृष्ट्वा लक्ष्मणमुत्थितम् ।। आदाय निशितं बाणमिदं वचनमब्रवीत् ॥ ५० ॥ बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः । गच्छ किं कालसदृशं मां योधयितुमिच्छसि ॥ ५१ ॥ न हि मद्धा हुनुष्टानामत्राणां हिमवानपि । सोडुमुत्सहते वेगमन्तरिक्षमथो मही ॥ ५२ ॥ सुखप्रसुप्तं कालागिं निबोधयितुमिच्छसि ॥ न्यस्य चापं निवतेख मा प्राणाञ्जहि मद्गतः ॥ ५३ ॥ अथ वा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि ॥ तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् ॥५४॥ पश्य मे निशितान्बाणानरिदर्पनि षीदनान् । ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान् ॥ एष ते सर्पसंकाशो बाणः पास्यति शोणितम् ॥ मृगराज इव क्रुद्धो नागराजस्य शोणितम् । इत्येवमुक्त्वा संक्रुद्धः शरं धनुषि संदधे ॥ ५६ ॥ नेष्यतीत्यर्थः । । ३६-३८ । समभिद्रवन् । आगम- | अनादृत्य। “खिम झ् अनादरे ” इति धातुः ४६ शासनस्यानित्यत्वादडभावः ३९-४० अभि- ४७ त्रासयन् अभूदिति शेषः ४८ प्रति सुखः स्थित इति शेषः ॥ ४१-४२ ।। हरिः सिंहः | भयं । “ भयंकरं प्रतिभयं ’ इत्यमरः ।। ४९-५२॥ ॥ ४३ ।। कलापी तूणीरवान् ।‘‘ कलापो भूषणे बहॅ | निबोधयितुं ज्वलयितुं । मा जहि मा हिंसीः । तूणीरे संहतावपि ” इत्यमरः । सगर्वितं सगवे | ‘‘हन्तेर्जः’ इति जादेशः। मद्तः मां प्राप्तः ।।५३।। ॥ ४४ ॥ उत्साहः ॥ ४५ ॥ स्मयित्वा | प्रतिष्टब्धः प्रतिमुखं स्थितः ।। ५४ ।। ईश्वरायुधं । व्यवसायः स० यौवनदर्पितइतिराक्षसविशेषणं । नमृगयूथमथनेसिंहस्यतारुण्यमपेक्षितं । स्खप्नेपिवा चित्रितस्यासिंहस्यदर्शनमात्रेणगजादि मारकस्यकियान्मृगवधस्तस्येतितत्रतस्यासंभवदन्वयात् । ‘‘ सिंहीगर्भविनिस्सृतंतदुपरिक्रोधात्पतन्तंशिी ” इत्यादिक वितापि नानुकूलानागोजिभट्टस्यास्माकमिवेतिदिकू ॥ ४३ ॥ स० अयुध्यमानंकंचननजघान । एतेनधृतधरइत्यादिनासूचितंधर्मिष्ठवं ध्वनितं ॥ ४४ ॥ ति० यस्यशक्तिरस्ति व्यवसाययुक्तश्चयः सयुद्वंददातु ॥ ४५ ॥ [पा० ]१ क. ख, घ, ङ. ज. झ. ट. मुखान्सद्वये. २ क. ङ. -ट, विशारदः । यस्यास्तिशक्तिर्यंवसाय. ४ ङ. झ. अ, ट. महासवमाकाशं. क. ख. घ, ङ. झ. अ. ट.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९४
दिखावट