सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २९३ ततः संज्ञामुपालभ्य चतुर्भिः सायकोत्तमैः॥ निजघान हयान्स द्वये सारथिं च महाबलः ॥ ९९ ॥ ध्वजस्योन्मथनं कृत्वा शरवर्षीररिंदमः । असंभ्रान्तः स सौमित्रिस्ताञ्शरानभिलक्षितान् । मुमोच लक्ष्मणो बाणान्वधार्थं तस्य रक्षसः ॥ १०० ॥ न शशाक रुजं कर्तुं युधि तस्य शरोत्तमः ॥ १०१ ॥ अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ।। ब्रह्मदत्तवरो दोष अवध्यकवचावृतः॥ १०२ ॥ ब्रायेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा । अवध्य एष ह्यन्येषामस्त्राणां कवची बली ॥१०३॥ ततैस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीयैः । समाददे बाणममोघवेगं तद्राह्ममस्त्रं सहसा नियोज्य ॥ १०४ ॥ तसिन्महास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे ॥ दिशश्च चन्द्रार्कमहाग्रहश्च नभश्च तत्रास चंचाल चोवी ॥ १०५ ॥ तं ब्रह्मणोस्त्रेण नियोज्य चापे शरं सुपुत्रं यमदूतकल्पम् । सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वजकरूपम् ॥ १०६ ॥ तं लक्ष्मणोत्सृष्टॅममोघवेगं समापतन्तं ज्वलनप्रकाशम् ॥ सुवर्णवजोत्तमचित्रपुङ तदातिकायः समरे ददर्श ॥ १०७ ॥ तं प्रेक्षमाणः सहसाऽतिकायो जघान बाणैर्निशितैरनेकैः॥ स सायकस्तस्य सुषणेवेगस्तदाऽsiतेकायस्य जगाम पार्श्वम् ॥ १०८ ॥ तमागतं प्रेक्ष्य तदऽऽतिकायो बाणं प्रदीप्तान्तककालकल्पम् । जघान शक्यूटिंगदाकुठारैः शूलैडुलैश्चत्यविपन्नचेताः ॥ १०९ ॥ तान्यायुधान्यङ्गतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः । प्रगृह्य तस्यैव किरीटजुष्टं ततोतिकायस्य शिरो जहार ॥ ११० ॥ तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम् । पपात सहसा भूमौ शय हिमवतो यथा ॥ १११ ॥ तं तु भूमौ निपतितं दृष्ट्वा विक्षिप्तभूषणम् ॥ बभूवुर्येथिताः सर्वे हतशेषा निशाचराः ॥ ११२ ॥ ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः । विनेदुरुच्चैर्बहवः सहसा विस्खरैः खरैः॥ ११३ ॥ ततस्ते त्वरितं याता निरपेक्षा निशाचराः । पुरीमभिमुख भीता द्रवन्तो नायके हते ॥ ११४ ॥ प्रहर्षयुक्ता बहवस्तु वानराः प्रबुद्धपद्मप्रतिमाननास्तदा । अपूजय्ळमणमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ ११५ ॥ कृतौ ॥ ९०–१०३ ॥ ब्राह्ममस्त्रं ब्रह्मास्त्रमत्रं ।। १०८ । । हुलैः द्विफलपत्राग्रायुधविधैः। ‘‘ हुलं नियोज्य जपित्वेति यावत् । १०४ ॥ दिशश्चेत्यादौ । द्विफलपत्रागं ’ इति वैजयन्ती ॥ १०५–११२ ॥ तत्रसुरिति विपरिणम्यानुषज्यते ।। १०५॥ नियोज्य | विस्खरैः विस्खररूपैः ॥ ११३ । निरपेक्षाः युद्धान- जपित्वा। तस्य यमदूतकल्पमित्यन्वयः ॥ १०६– पेक्षाः ॥११४ ॥ । प्रबुद्धेत्यत्र प्रसन्नत्वे तात्पर्यं । इष्टस्य स० सशिरस्त्राणं समुकुटं । अयमेवभारतोतकुंभकर्णाभिधोलक्ष्मणहतः । ‘बृहत्तनुःकुंभवदेवकर्णावस्येत्यतोनामचकुंभकर्णः इत्यारभ्य ‘तेनातिकायःप्रवरोत्रवित्सु’ इत्यन्तेनतात्पर्यमाचार्यवर्याःप्रत्यपीपदन्नितितथैवभारतार्थानुसंधेयः । प्रपञ्चितश्वयमथ [ पा० ] १ क. ग. --ट, नरोत्तमः . २ क. च. अ, सतस्यवायोः३ क. ङ. च. ज. --ट. ररासचोवी. ४ इ. च. झ. अ. ट. विवृद्धवेगं ५ ग , घ, ङ. ज. झ. ट. तथातिवेगेनजगाम. ६ ज. शलैश्चितैः. घ. ड• झ. ट. शलैशरैः. ७ ङ, छ. झ, झ. ट, श्वप्यविपन्नचेष्टः, ८ घ, ङ, झ. झ. ट. ततस्तत्परितोयाताःख. घ. ततस्तत्त्वरितंयान्ति