पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ -



-~*~*~

एकसप्ततितमः सर्गः ॥ ७१ ॥ आतृनिधनरुटे अतिकायेसेनामध्यप्रविष्टे तस्मिन्कुंभकर्णस्वभ्रमेण वानरेषुभयाद्विद्रवमाणेषु रामेण तथायुधदिवर्णन पूर्वकंविभीषणंप्रति तरस्वरूपप्रभः ॥ १ ॥ विभीषणेनरासंप्रति विस्तरेणतरुपराक्रमादि निवेदनम् ॥ २ ॥ अतिकायेनरामंप्रति । गर्वोक्त्यायुद्धप्रार्थने लक्ष्मणेन तप्रतिरोधनम् ॥ ३ ॥ ततस्तयोर्वीरवादपुरस्सरंसमारंभः ॥ ४ ॥ लक्ष्मणेनास्त्रप्रत्यस्त्रप्रयोग पूर्वक निशिततरशरगणप्रयोगेपि ब्रह्मवरादभेद्यकवचएवसत्यतिकाये अन्तरिक्षेऽन्तर्हितवयुवचनाब्रह्मास्त्रेण तच्छिरश्छे द्वनम् ॥ ५ ॥ खबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम् । भ्रात्रैश्च निहतान्दृष्ट्वा शक्रतुभ्यपराक्रमान् ॥ १ ॥ पितृव्यौ चापि संदृश्य समरे संनिपूदितौ । युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ॥ २ ॥ चुकोप च महातेजा ब्रह्मदत्तवरो युधि॥ अतिकायोद्रिसंकाशो देवदानवदर्पहा ॥३॥ स भास्करसहस्त्रस्य संघातमिव भास्खरम् । रथमास्थाय शक्रारिरभिदुद्राव वानरान् ॥ ४ ॥ स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः। नाम विश्रावयामास ननाद च महाखनम् ॥ ५॥ तेन सिंहप्रणादेन नामविश्रावणेन च । ज्याशब्देन च भीमेन त्रासयामास वानरान् ।। ६ ॥ ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णऽयमुत्थितः । भयातां वानराः सर्वे संश्रयन्ते परस्परम् ।। ७ ॥ ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे । भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ॥ ८ ॥ तेऽतिकायं समासाद्य वानरा मूढचेतसः। शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ।। ९॥ ततोतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् ॥ ददर्श धन्विनं दूरादर्जन्तं कालमेघवत् ॥ १० ॥ स तं दृष्ट्वा भैहात्मानं रौघवस्तु विसिष्मिये ॥ वानरान्सान्त्वयित्वाऽथ विभीषणमुवाच ह ॥ ११॥ कोसौ पर्वतसंकाशो धनुष्मान्हरिलोचनः॥ युक्ते हयसहस्त्रेण विशाले स्यन्दने स्थितः ॥ १२ ॥ य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः॥ अर्चिष्मद्भिर्युतो भाति भूतैरिव महेश्वरः ॥ १३ ॥ कालजिह्वाप्रकाशाभिर्य एंपोति विराजते । आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ १४ ॥ धनुषि चास्य सज्यानि हेमपृष्ठानि सर्वशः । शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ॥ १५ ॥ स्वबलमित्यादि । भ्रातरौअन्योन्यं भ्रातरौ॥१-४॥ [त्वं। उत्थित इत्यनन्तरमितिकरणं द्रष्टव्यं । ७-११ ॥ मृष्टकुण्डलः शुद्धकुण्डलः ॥ ५-६ । माहात्म्यं मह- | हरिलोचनः सिंहदृष्टिः ॥ १२-१३ । रथशक्तीभिः ति७ भ्रातरौ अन्योन्यंभ्रातरौ ॥ एतदुक्तिःपरस्परसौहार्दातिशयप्रदर्शनाय ॥ २ ॥ ति० परस्परंसंश्रयन्ते । रक्षणार्थमिति शेषः ॥ ७ ॥ ती० तेतस्यरूपमालोक्यते विद्रवन्तीतितच्छदद्वयान्वयः । ति० तेरूपमालोक्य तेइव वानराइव विद्वन्तीतित च्छब्दद्वयनिर्वाहः। इवेतिशेषः ॥ स७ तेवानराः विद्रवन्ति व्यद्रवन् । वानरयोधास्ते वानरयोधाअस्तायस्मिस्तस्मिन्नणमण्डले । अस्तं भाक्तः वानरयोधानामसनेसतिनायकाभावात्ततस्ततोव्यद्रवन्नितिभावः । येयेतस्यरूपमालोक्यस्थितास्तेतेसर्वेततस्ततोवि द्रवन्तीत्यन्वयेन तेद्वयंसार्थकमितिवा । नचभिन्नार्थगतयोस्तेशब्दयोःकथमैकस्थल्यसंपादनेनवीप्सात्वमितिवाच्यं। ६ येयजत्रायई- ज्याः ’ इत्यादिवदन्वयमुखेनैकस्थल्योपपत्तेः ।‘ ते रूपमालोक्य तइव वानराइव विद्रवन्तीतितच्छब्दद्वयनिर्वाहः । इवेतिशेषः इतिनागोजिभष्टः। तेतस्यरूपमालोक्य ते विद्रवन्तीतितच्छब्दद्वयस्यनिर्वाहइतितीर्थश्च । द्वयोर्भावोबिन्दुविभावनीयः ॥ ८ ॥ स० हरिलोचनः सिंहदृष्टिर्मर्कटदृष्टिर्वा हरिष्वेवलोचनंयस्येतिवा ॥ १२ ॥ स० यः कइत्यर्थः । ‘ यतश्चोदेतिसूर्यः ’ इत्यादिव पा० ] १ ङ. झ. संनिपातितौ. २ ङ, च, ज, झ. अ. मारुह्य ३ घ, ङ, झ. महाकायं. ४ क. ख. ङ. झ. ज. ट. राघवस्तुसुविस्मितः. घ. राघवस्तस्य विस्मितः ५ ख. ध. एषभुविराजते.