३८६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अमृष्यमाणस्तं घोषमुत्पपात निशाचरः । उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ ४५॥ तेन मुष्टिप्रहारेण संचुकोप महाकपिः ।। कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ।। [ हर्तुमात्रोषताम्राक्षो राक्षसं परवीरहा ]॥ ४६ ॥ स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि ॥ क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ॥ ४७ ॥ तान्यायताक्षाण्यगसन्निभानि प्रदीप्तवैश्वानरलोचनानि । पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथाऽर्कमार्गात् ॥ ४८ ॥ तस्मिन्हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण । नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुध्रुविरे समन्तात् ॥ ४९ ॥ हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् ॥ हतौ प्रेक्ष्य दुराधर्षां देवान्तकनरान्तकौ ॥ ५० ॥ चुकोप परमामर्षी मतो राक्षसपुङ्गवः ॥ जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम् ॥ ५१ ॥ हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम् ॥ विराजमानां वैपुषा शत्रुशोणितरञ्जिताम् ॥ ५२ ॥ तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम् ॥ ऐरावतमहापद्मसार्वभौमभयावहाम् ॥ ५३ ॥ गदामादाय संक्रुद्धो देंत्तो राक्षसपुङ्गवः ।। हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् ।। ५४ ॥ अंथर्षभः समुत्पत्य वानरो र्रवणानुजम् ॥ मैत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ॥ ५५ ॥ तं पुरस्तात्थितं दृष्ट्वा वानरं पर्वतोपमम् ।। आजघानोरसि क्रुद्धो गदया वजकल्पया ॥ ५६ ॥ स तयाऽभिहतस्तेन गदया वानरर्षभः भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ ५७ ॥ स संप्राप्यं चिरात्संज्ञामृषभो वैनरर्षभः ॥ [ ¥द्धो विस्फुरमाणोष्ठो महापार्श्वमुदैक्षत ॥ ५८ ॥ स वेगवान्वेगवदभ्युपेत्य तं राक्षसं वानरवीरमुख्यः । संवयं मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः ॥ ५९ ॥ स कुत्तमूलः सहसेव वृक्षः क्षितौ पपात क्षतजोक्षिताङ्गः॥ तां चास्य घोरां यमदण्डकल्पां गदां प्रगृह्याशु तदा ननाद ॥ ६० ॥ इत्यर्थः ।४३-४६। त्वष्टुः सुतः विश्वरूपः।‘विश्व| इति महापार्श्वस्य नामान्तरं । मांसशोणितफेनिला रूपो वै त्वाष्ट्रः पुरोहितः ” इत्यादि श्रुतिप्रसिद्धः । मिति युद्धकालिकरूपं । शत्रुशोणितरञ्जितामिति ॥ ४७ । मुक्तानि अनुभूतपुण्यफलानि । अर्कमार्गात् । पूर्वकालिकरूपं । महापद्मः पुण्डरीकाद्यदिग्गजः आकाशात् ॥ ४८-४९ ॥ हतं त्रिशिरसमित्यादि ।। ५०-५४ । मत्तानीकं मत्तानीक इति च महा- चतुश्लोक्येकान्वया । मत्तः महापार्श्वः । मत्त । पार्श्वस्य नामान्तरं ॥ ५५-५६ । समाधूतः कम्पितः ॥ ३९ ॥ शि० भूमिश्चचाल हर्षेणचकंपे ॥ ४९ ॥ ति० युद्धोन्मत्तंमहोदरं तथैवच हतमितिशेषः । एतद्वधोहनूमताकृतइत्यनु- वादबलाद्रष्टव्यं ॥ ५० ॥ इतिसप्ततितमःसर्गः ॥ ७० ॥ [ पा० ] १ इदमधे. क. –-घ. च. पाठेषुदृश्यते. २ ङ. झ. दृष्टायुद्धोन्मत्तंतथैवच. क, ग. च• छ. ज. अ. ट. दृष्टामहो- दरमथापिच. घ. महापार्श्वतथैवच. ३ क. ग. च. ज. अ. ट. महापाश्वनिशाचरः . ४ क. च. छ. ज. अ. ट. शोणितलेपनां. घ. शोणितलेपितां. ५ ग, घ. ङ. ज . झ. ट. विपुलां. ६ क. घ. ङ. च. झ. ट. शोणिततर्पितां. ख. शोणितरूषितां. ज. पक्षभयंकरां ७ क. च. ज. ब. ट. महापाश्वनिशाचरः . ८ क. ख. च. अ. ट. वरुणात्मजः९ क. च. ज. अ. महापार्श्व मुपा. १० झ. वानरेश्वरः . ११ क्रुद्धो विस्फुरमाणोष्ठइत्यादयःधावंभइवाद्रिराजइत्यन्ताश्लोकाः क ख ङ, च. झ. अ. ट. पाठेषु अधिकादयन्ते.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९०
दिखावट