सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः ७० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २८९ तमापतन्तमुत्प्लुत्य हनुमान्मारुतात्मजः । आजघान तदा भूमेिं वज़कल्पेन मुष्टिना ॥ २४ ॥ व शिरसि प्रहरन्वीरस्तदा वायुसुतो बली ॥ नादेनाकम्पयचैव राक्षसान्स महाकपिः ॥ २५ ॥ स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्नः॥ देवान्तको राक्षसराजसूनुर्गतासुरुव्य सहसा पपात ॥ २६ ॥ तस्मिन्हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ ॥ क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥ २७ ॥ महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम् । भूयः समधिरुह्याशु मन्दरं रश्मिवानिव ॥ २८ ॥ ततो बाणमयं वर्ष नीलस्योरस्यपातयत् । गिरौ वर्षे तडिच्चक्रचापवानिव तोयदः ॥ २९॥ ततः शरौचैरभिवष्टैमणो विभिन्नगात्रः कपिसैन्यपालः । नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥ ३० ॥ ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षषण्डम् ॥ ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्छि ॥ ३१ ॥ ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन ॥ विपोथितो भूमितले गतासुः पपात वजाभिहतो यथाऽद्रिः ॥ ३२ ॥ पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे । हनुमन्तं च संक्रुद्धो विव्याध निशितैः शरैः ॥ ३३ ॥ स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥ ३४ ॥ तद्यथै शिखरं दृष्ट्वा दुमवर्ष मॅहाकपिः । विससर्ज रणे तसिन्रावणस्य सुतं प्रति ॥ ३५॥ तमापतन्तमाकाशे दुमवर्षे प्रतापवान् । त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥ ३६ ॥ ततो हनूमानुत्प्लुत्य हयांस्त्रिशिरसस्तदा ॥ विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ॥ ३७ ॥ अथ शक्तिं सँमादाय कालरात्रिमिवान्तकः ॥ चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ ३८ ॥ दिचः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसंगताम्॥ गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ ३९ ॥ तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता । प्रहृष्टा वानरगणा विनेदुर्जलदा इव ॥ ४० ॥ ततः खङ्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः ॥ निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ॥ ४१॥ खङ्गप्रहाराभिहतो हनूमान्मारुतात्मजः ॥ आजघान त्रिशिरसं तलेनोरसि वीर्यवान् ॥ ४२ ॥ स तलाभिहतस्तेन धैस्तहस्तायुधो भुवि ॥ निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ ४३ ॥ स तस्य पततः खङ्गं समाच्छिद्य महाकपिः । ननाद गिरिसंकाशस्त्रासयन्सर्वनैर्हतान् ॥ ४४ ॥ जुर्वद्भयादिवत् ॥ २३-२९॥ निसृष्टगात्रः शिथि- ३९ ॥ घोरसंकाशां भयंकरप्रकाशां ॥ ४० ॥ लगात्रः । विष्टम्भितः स्तब्धीकृतः । एतन्निसृष्टत्वे हेतुः ॥ ३०---३१ । विपोथितः हिंसितः ।। ३२ – व्यूढे विशाले ।। ४१--४२ ॥ त्यक्तचेतनः मूर्चछत ती० निर्वान्तदन्ताक्षिविलंबिजिह्वः दन्ताक्षीणिचविलंबिजिह्वाचतथा । निर्वान्ताः बहिर्निर्गताःदन्तादयोयस्येतितथा ॥ २६ ॥ ति० भूयःसमधिरुत्वेति । युद्धगमनवेलायामारूढगजस्याङ्गदेनहतत्वादितिभावः ॥ २८ ॥ ति० तटिच्चक्रचापमिन्द्रधनुष्यस्या- स्तिसः ॥ स० तटितांविद्युतांचीसमूहोयमितत् ॥ २९ ॥ ती० असंगतां अनिवारितां ॥ स० असंगतां स्खसमीपमप्राप्त [ पा० ] १ ङ. अ. ठ, तडिच्चीसगर्जन्निवतोयदः २ घ.-ल. शैलामिनिपात. ३ ङ. च. झ. अ. ट. तदाकपिः . ४ . चब. ट. समासाद्य५ घ. ङ. झ. निचखानतदाखवानरेन्द्रस्यवक्षसि. ख• च. ज . ट. निजघानचखनेन. ग. ङ. झ. . निजघानतदावेगाद्वानरेन्द्रस्य. ६ क. •ङ. च.न्ट . स्रस्तहस्तांबरा .