२८२ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ ARJAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA तस्मिन्प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु । निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥ ६८॥ ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य ॥ नरान्तको वानरराजसैन्यं महर्णवं मीन इवाविवेश ॥ ६९ ॥ स वानरान्सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेदः । एकक्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥ ७०॥ ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् ॥ चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ ७१ ॥ स तस्य ददृशे मार्गे मांसशोणितकर्दमः । पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ ७२ ॥ । यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः। तावदेतानतिक्रम्य निर्बिभेद नरान्तकः॥ ७३ ॥ ज्वलन्तं प्रासमुद्यम्य संग्रामाग्रे नरान्तकः ॥ ददाह हरिसैन्यानि वनानीव विभावसुः ॥ ७४ ॥ यावदुत्पाटयामासुर्दीक्षाञ्शैलान्वनौकसः। तावत्प्रासहताः पेतुर्वञ्जकृत्ता इवाचलाः ॥ ७५ ॥ दिक्षु सर्वासु बलवान्विचचार नरान्तकः। प्रमृद्न्सर्वतो युद्धे प्रावृट्काले यथाऽनिलः ॥ ७६ ॥ न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात् । उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् ॥७७ एकेनान्तककल्पेन प्रासेनादित्यतेजसा ॥ भिंन्नानि हरिसैन्यानि निपेतुर्धरणीतले ।। ७८ ।। वजनिष्पेषसदृशं प्रासस्याभिनिपातनम् ॥ न शेकुर्वानराः सोढं ते विनेदुर्महाखनम् ॥ ७९ ॥ पततां हरिवीराणां रूपाणि प्रचकाशिरे ॥ वज़भिन्नाग्रकूटानां शैलानां पततामिव ॥ ८० ॥ ये तु पूर्व महात्मानः कुम्भकर्णेन पातिता ते खस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ ८१ ॥ विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् । नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः । ८२ विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् । हीतग्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ॥ ८३ ॥ अथोवाच महातेजाः सुग्रीवो वानराधिपः । कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥८४ ॥ च्छ त्वं राक्षसं वीरो योसौ तुरगमास्थितः । क्षोभयन्तं हरिबलं क्षिप्त्रं प्राणैर्वियोजय ॥ ८५ ॥ स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः । । अनीकान्मेघसंकाशान्मेघानीकादिवांशुमान् ॥ ८६ ॥ शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः। रराजाङ्गदसन्नद्धः सधातुरिव पर्वतः ॥ ८७ ॥ निरायुधो महातेजाः केवलं नखदंष्ट्रवान् ॥ नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः ॥ ८८ ॥ तिष्ठ किं प्राकृतैरेभिर्हरिभिस्वं करिष्यसि । असिन्वजसमस्पर्श प्रासं क्षिप ममोरसि ॥ ८९ ॥ चेष्टन्त इति गर्वितहृष्टचेष्टाः । नानायुधाः गृहीतराक्ष- | न शेकुरित्यर्थः । ७७-८० ॥ कुम्भकर्णेन पातितानां सायुधा इत्यर्थः ।। ६७ । विमर्दे युद्धे ॥ ६८-६९ ॥ | नीलादीनामुत्तरत्र पौरुषकथनसांगत्यायैषां लब्धसं. जघानेति । इत्थमिति शेषः । ७०-७३ ॥ ज्वलन्तं | ज्ञत्वमाह—ये त्विति ॥ ८१–८५ । मेघसंकाशा ज्वलन्तमिव स्थितं । विभावसुः वह्निः ।। ७४-७५ ॥ | दिति निबिडत्वलक्षणसमानधर्मप्रयुक्तेयमुपमा । मेघा- प्रमृद्न् मर्दयन् ॥ । ७६ ॥ न शेकुरिति । यतो हेतो- | नीकादित्यत्र तु निष्क्रमणापादानत्वधर्मप्रयुक्तेत्युपमा- रुत्पतन्तं स्थितं यान्तं च विव्याध अतः स्पन्दनादौ । द्वयस्य निर्वाहः ॥ ८६ ॥ संघातः निबिडसंवेशः । ती० तस्यमार्गे: तेनयुद्धार्थगतोमार्गइत्यर्थः । पतितैर्वानरैरभिसंवृतःसन् । मांसशोणितकर्दमःसन् ददृशइतिसंबन्धः ॥ ७२ ॥ स० नखदंष्ट्री प्राण्यङ्गत्वादेकवद्भावः। तद्वान् ॥ ८८ ॥ [ पा० ] १ ङ. झ. ट. भेषितुं, ख. च. ज. ब्रेवितुं. २ ङ. च. झ. ज. ट. भग्नानि. ३ क.--टन् दृष्ट्वाच. ४ घ, ङ झ. ध. ट. गच्छैनं५ क. ख. घ. वालिपुत्रोङ्गदोब्रवीत् ६ क- ख. च. ध. ट. तिष्ठखं. ७ क, ख. च. जे. ट. ईरिभिःछिं.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८६
दिखावट