सर्गः ६९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २७९ अन्तरिक्षगताः सर्वे सर्वे मायाविशारदः । सर्वे त्रिदशदर्पन्नः सर्वे च रणदुर्जयाः॥ ११ ।। सर्वे सुबलसंपन्नाः सर्वे विस्तीर्णकीर्तयः । सर्वे समरमासाद्य न श्रूयन्ते पराजिताः॥ देवैरपि सगन्धर्वैः सकिन्नरमहोरगैः ॥ १२ ॥ सर्वे च विदुषोवीराः सर्वे युद्धविशारदाः॥ सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥ १३ ॥ स तैस्तदा भास्करतुल्यवर्चसैः सृतैर्युतः शत्रुघलप्रमर्दनैः॥ रराज राजा मघवान्यथाऽमरैवृतो महदनयदर्पनाशनैः ॥ १४ ॥ स पुत्रान्संपरिष्वज्य भूषयित्वा च भूषणैः ॥ आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ॥ १५ ॥ युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः॥[ मैहापार्श्व प्रमत्तं वा भ्रातरं च महोदरम् ॥] रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥ १६ ॥ तेऽभिवाद्य महात्मानं रावणं रिपुरावणम् ॥ कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ १७ ॥ सर्वोषधीभिर्गन्धैश्च समालभ्य महाबलाः निर्जग्मुर्नप्ततश्रेष्ठाः षडेते युद्धकाङ्किणः ॥ १८॥ त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । महोदरमहापाव निर्जग्मुः कालचोदिताः ॥ १९॥ ततः छुदर्शनं नाम नीलजीमूतसन्निभम् । ऐरावतकुले जातमारुरोह महोदरः॥ २० ॥ सर्वायुधसमायुक्तं तूणीभिश्च खलंकृतम् । रराज गजमास्थाय सवितेवास्तमूर्धनि ॥ २१ ॥ हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् ॥ आरुरोह रथश्रेष्ठं त्रिशिरा रवणात्मजः ॥ २२ ॥ त्रिशिरा रथमास्थाय विरराज धनुर्धरः॥ सविद्युदुरकः शैलाग्रे सेन्द्रचाप इवाम्बुदः॥ २३ ॥ त्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे ॥ हिमवानिव शैलेन्द्रस्त्रिभिः कञ्चनपर्वतैः ॥ २४॥ अतिकायोषि तेजस्वी राक्षसेन्द्रसुतस्तदा ॥[ हयोतैमसमायुक्तं सर्वायुधसमन्वितम्।] आरुरोह रथश्रेष्ठं श्रेष्ठः सर्घधनुष्मताम् ॥२५॥ सुचक्राक्षे सुसंयुक्तं खनुकर्षे सुकूचरम् ॥ तूणीबाणासनैर्दतं प्रासासिपरिघाकुलम् ॥ २६ ॥ स काञ्चनविचित्रेण मुकुटेन विराजता ॥ भूषणैश्च बभौ मेरुः किरणैरिव भासयन् । २७ ॥ ॥ ११ । देवादिभिः सह समरमासाद्य पराजिता न चन्दने । वचाचस्पकमुस्ताश्च सर्वोषध्यो दश स्मृताः भूयन्त इत्यन्वयः ॥ १२ ॥ विदुषः विद्यावन्तः । | इत्युक्ताभिः आयुधप्रहारनिवर्तिकाभिः ओषधीभिरि प्रवरविज्ञानाः उत्कृष्टशास्त्रज्ञानाः ।१३। तुल्यवर्चसै- | याहुः ! समालभ्य समालिष्य ।। १८-२० । अस्त रित्यत्र . समासान्त आर्षः ॥ १४ ॥ आशीर्भिः सहेति । मूर्धनीत्येतदुत्तरक्षणे विनाशसूचनाय ॥ २१-२३ ॥ शेषः । १५ । युद्धोन्मत्तं च मतं च भ्रातरौ चापि त्रिभिः काञ्चनपर्वतैः शिखरभूतैर्हिमवानित्यर्थः रावण इति । । अत्र युद्धोन्मत्तौ महोदरमहापार्श्वपर्या। - | ॥ २४ ॥ अतिकाय इत्यादिश्लोकद्वयमेकान्वयं । यनामानौ रावणभ्रातरौ । एतौ परत्र प्रकाशयिष्येते | सुसंयुक्तं सुदृढं । स्वनुकर्षे । ‘‘ अनुकर्षा दार्वधस्थं ॥ १६ ॥ रिपून् रावयतीति रिपुरावणः ॥ १७ ॥ इत्यमरः । सुकूबरं शोभनयुगंधरं । “ कूबरस्तु युगं- सवौषधीभिः । “ कुष्टं मांसी हरिद्रे द्वे मुरा शैलेय - | धरः ” इत्यमरः ।। २५-२६ । किरणैः भासयन् द्यनुपरमः ॥ ८ ॥ ति० शङ्कणांबलस्यश्रीणांचार्दनैरित्यर्थश्रियार्दनैरिस्यार्षे ॥ १४ ॥ स० युद्धोन्मत्तंचमतंच तदपरपर्यायवा- च्यौमहापार्श्वमहोदरौ ।‘ षडेते ’ इति वक्ष्यमाणत्वात् । एतौचप्रसिद्धमहापार्श्वमहोदराभ्यांभिनौज्ञेयौ । तद्युद्धस्यपुनर्वक्ष्यमाण- [ पा० ] १ ख .-छ. झ. ट. सर्वसमरदुर्मदाः २ झ. ज. ट. श्रियार्दनैः, ३ इदमधे घ. ज. पाठयोर्दश्यते. ४ क. ख. ग. ड. –ट. सुदर्शनंनागं. ५ ख. ग. ड. झ. ज. ट. समायुक्तस्तूणीभिश्चप्यलंकृतः . ६ क, ग , ङ. --ट, सज्वालस्से- न्द्रचापः७ इदमट्टी क. ख. पाठयोर्दश्यते. ८ क , ख, घ.--ट. प्रभाभिरिवभासयन् . ५१
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८३
दिखावट