सर्गः ६८ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २७७ तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम् । रावणः शोकसंतप्तो मुमोह च पपात च ॥ ६ ॥ पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ । त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥ ७ ॥ भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ महोदरमहापाव शोकाक्रान्तौ बभूवतुः ॥ ८ ॥ ततः कृच्छूात्समासाद्य संज्ञां राक्षसपुङ्गवः । कुम्भकर्णवधाद्दीनो विललाप स रावणः ॥ ९ ॥ हा वीर रिपुदर्पन्न कुम्भकर्णं महाबल । त्वं मां विहाय वै दैवाद्यातोसि यमसादनम् ॥ १० ॥ मम शल्यमनुद्धृत्य बान्धवानां महाबल । शत्रुसैन्यं प्रताप्यैकस्त्वं मां संत्यज्य गच्छसि ॥ ११ ॥ इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजःपतितो यं समाश्रित्य न बिभेमि सुरासुरात् ॥१२॥ कथमेवंविधो वीरो देवदानवदर्पहा । कालाग्निरुद्रप्रतिमो रणे रामेण वै हतः॥ १३॥ यस्य ते चतुनिष्पेषो न कुर्याद्यसनं सदा ॥ स कथं रामबाणार्तः प्रसुप्तोसि महीतले ॥ १४ ॥ एते देवगणाः सार्धमृषिभिर्गगने स्थिताः॥ निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ १५ ॥ ध्रुवमचव संहृष्टा लब्धलक्षाः प्लवङ्गमाः । आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ १६॥ राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया । कुम्भकर्णविहीनस्य जीविते नास्ति मे रैतिः॥१७ यद्यहं भातृहन्तारं न हन्मि युधि राघवम् । ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ १८ ॥ अचैव तं गमिष्यामि देशं यत्रानुजो मम ॥ न हि भ्रातृन्सनुवृज्य क्षणं जीवितुमुत्सहे ॥ १९ ॥ देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् । कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥२०॥ तदिदं मामनुप्राप्तं विभीषणवचः शुभम् ।। यदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥ २१ ॥ विभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः ॥ विनाशोऽयं समुत्पन्नो मां पीडयति दारुणः ॥ २२ ।। तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः॥ यन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः ॥२३ रामतेजसा प्रशान्त इत्यन्वयः ।। ३–१० ॥ मम | मरणमेव श्रेयो नन्विति संबन्धः ।। १८ । भ्रातृ- बान्धवानां च शल्यं शोकमित्यर्थः ।। ११ ॥ सुरासु-निति बहुवचनं पूजार्थं । १९–२१ । कुम्भकर्ण- रात् सुरासुरेभ्यः ।। १२- -१५ । लब्धलक्षाः लब्धा वसराः ।। १६-१७॥ भ्रातृहन्तारं न हन्मि यदि प्रहस्तयोरयं दारुणो विनाशः यावत् यद समुत्पन्नः तदा इदं व्यर्थजीवितं श्रेयःनच । नैवेत्यर्थः । किंतु । ततआरभ्य विभीषणवचो मां पीडयतिपीडयतीत्यर्थः वीणेचिहेस्यात् ” इति विश्वः । अतएवविकृतः । विवृतइतिपाठे रक्षोभिरपरिवृतइतिवा विभिः ककगृध्रादिभिर्युतइतिवार्थः ॥५॥ ति० देवान्तकादयोरावणपुत्राः ॥ ७ ॥ ति० महोदरमहापाव विमातृजौभ्रातरौतस्य ॥ ॥ स० मम शल्यं रामरूपं । बान्धवानांमध्येमहाबल । ‘‘ बान्धवानांचशल्यमनुद्धृत्येत्यन्वयइतिनगोजिभट्टव्याख्यायामश्रुतचशब्दध्याहारइव ममशल्यमित्य नेनमुख्यरावणशल्येनसशल्यानाममुख्यानांपृथग्ग्रहणायोगश्चेतिदोषौप्रादुष्यातामितिज्ञेयं । ११ ॥ स० अहंना पुमान्नास्मि । नपुंसकप्रायइत्यर्थः । सुरासुरात् सुराऽसुराश्वसुरासुरं । तस्मात् । “ येषांचविरोधःशाश्वतिकः ” इत्येकवद्भावः । समाहारोवा नेत्यावर्तते । नबिभेमि । नास्मि मृतप्रायइतिा ॥ १२ ॥ स० दर्पहा दर्पहन्ति हनिष्यतिवादर्पहा । “ नियमेभूतइत्याश्रयणा द्वर्तमानेभविष्यतिवाकालेचोपपदान्तरेपिभवत्येव पुरुषंहन्तिहनिष्यतिवा ” इतितत्वबोधिन्युक्तेः । प्रकृतिनियमपक्षेअदेवदानवदर्प नविद्यतेदेवदानवानांदप्येनतत्संबुद्धिः अदेवदानवदर्पहा शोकप्रकाशकःशब्दः ॥ १३ ॥ स० भ्रातृनिति । एकस्यमुख्यस्यभ्रा तुर्गमनेनानेकप्रकारेणखदौर्बल्यमयातमितिद्योतयतिबहुवचनेन । खरादीन्मृतान्स्मृत्वावा विभीषणकुबेराभ्यांबहिष्कृताभ्यांसहमृत मेकंसंस्मृत्यवाबहुवचनं । उत्सृज्यपदस्वारस्यादिवोत्तरत्र “ सनिरस्तीविभीषणः । इतितदनुतापस्वारस्याच्च ॥ १९ ॥ इत्यष्टष ष्टितमःसर्गः ॥ ६ [ पा० ] १ ख. -च. झ. अ. श्रुखा, २ छ, झ, ठ, विललापाकुलेन्द्रियः, ३ घ, ङ, झ, ट, भतिः
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८१
दिखावट