२७२ श्रीमद्वाल्मीकिरामायणम् । युद्धकाण्डम् ६ स निरायुधमात्मानं यदा मेने महाबलः। मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत् ॥ १२४॥ स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः॥ रुधिरं प्रतिसुस्राव गिरिः प्रस्रवणं यथा ॥ १२५॥ स तीवेण च कोपेन रुधिरेण च मूर्चिछतः । वानरान्राक्षसानृक्षान्खादन्विपरिधावति ॥ १२६ ॥ अथ झुं समाविध्य भीमं भीमपराक्रमः॥ चिक्षेप राममुद्दिश्य बलवानन्तकोपमः॥ १२७ ॥ अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः। शरैः काञ्चनचित्रार्जुनश्चिच्छेद पॅरुषर्षभः ॥१२८ ॥ तन्मेरुशिखराकारं द्योतमानमिव श्रिया ॥ द्वे शते वानरेन्द्राणां पतमानमपातयत् ॥ १२९ ॥ तस्मिन्काले स धर्मात्मा लक्ष्मणो वैक्यमब्रवीत् ।। कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् ॥१३०॥ नैवायं वानरान्रजनपि जानाति राक्षसान् । मत्तः शोणितगन्धेन खान्परांश्चैव खादति ॥ १३१॥ साध्वेनमधिरोहन्तु सँधै ते वानरर्षभाः॥ यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः॥ १३२ ॥ अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः । प्रपतराक्षसो भूमौ नान्यान्हन्यात्प्लवङ्गमान् ॥ १३३ ॥ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः । ते समारुरुहुर्देष्टाः कुम्भकर्णं प्लवङ्गमाः ॥ १३४ ॥ कुम्भकर्णस्तु संक्रुद्धः संमारूढः प्लवङ्गमैः ॥ व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् ॥ १३५ ॥ तान्दृष्ट्वा निर्धतान्रामो दुष्टोऽयमिति राक्षसः । समुत्पपात वेगेन धनुरुत्तममाददे ॥ १३६ ॥ क्रोधतामेक्षणो वीरो निर्दहन्निव चक्षुषा । राघवो राक्षसं रोषादभिदुद्राव वेगितः । यूथपान्हर्षयन्सर्वान्कुम्भकर्णभयार्दितान् ॥ १३७ ॥ स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम् ॥ हरीन्समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ॥ १३८ ॥ स वानरगणैस्तैस्तु वृतः परमदुर्जयः॥ लक्ष्मणानुचरो रामः संप्रतथे महाबलः ॥ १३९ ॥ स ददर्श महात्मानं किरीटिनमरिंदमम् ॥ 'शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ॥ १४० ॥ सर्वान्समभिधावन्तं यथा रुष्टं दिशागजम् । मार्गमाणं हरीन्कुटुं राक्षसैः परिवारितम् ॥ १४१ ॥ विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम् ॥ स्रवन्तं रुधिरं वक्राद्वर्षमेघमिवोत्थितम् ।। १४२ ॥ जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम् ॥ मृद्न्तं वानरानीकं कालान्तकयमोपमम् ॥ १४३ ॥ तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् । विस्फारयामास तदा कार्मुकं पुरुषर्षभः॥ १४४॥ कदनं वानराणामिति शेषः ॥१२४-१२५। मूर्छिछतः |॥ १३७ ॥ निबद्धोत्तमतूणबाणः निबद्धोत्तमबाणतूण व्याप्तः ॥ १२६--१२८ ॥। द्वे शते उद्दिश्य पतमानं इत्यर्थः । १३८-१३९ । स दशैत्यादिचतुःश्लो गच्छन्तं । अपातयत् । शरैरिति शेषः ॥ १२९ ॥|१४०-१४२ ॥ कालान्तकयमो- क्येकान्वया ।। योगान् परिमृशन् उपायान् विचारयन् ॥ १३०– १३१ । यथा यथायोग्यं ॥ १३२ ॥ भारः वान | पमं । रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वेतिवदेकस्यैवावस्था- रारोहणरूपः । १३३–१३५॥ । निधृतानिति ह्रस्व | भेदास्कालादिनामभेदः । यद्वा काले युगान्तकाले आर्षः ॥ । १३६ ॥ क्रोधताग्रेत्यादिसार्धश्लोकमेकं वाक्यं । अन्तको नाशको यमः उपमा यस्य स तथोक्तः स निरायुधमेने भागवयेच्छयैवमायासृष्टिरिन्द्रजिदादौ । तथात्रेच्छाभावादेवनैरायुध्यामितिमन्तव्यं । १२४ ॥ ति० योगान् उपायान् । अनेनवधकालेलक्ष्मणसाहित्यंरामस्यगम्यते ॥ १३० ॥ fते० लक्ष्मणानुचरः । बहुत्रीहिः । लक्ष्मणसहितः ॥१३९॥ [ पा०] १ गं. ड. ठ. कराभ्यांच. २ ङ. छ. झ. ट. भरताग्रजः ३ क. -घ. च. -ट. राममब्रवीत्. ४ ख. च. सवैतेहरयोऽङ्केतं. ५ ड. झ. ट. अद्यायं. ६ ङ. झ. ट. प्रचरत्राक्षसो. ७ झ. समारूढेः. ८ कञ्चझ. ट. बलार्दितान् ९ क. ङ. झ. ट. दुर्जयैः, १० ख•टः शोणितावृतरक्तक्षी.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७६
दिखावट