सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः ६७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २७३ स तस्य चापनिर्घषात्कुपितो राक्षसर्षभः। । अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ । १४५ ॥ ततस्तु वातोद्धतमेघकल्पं भुजङ्गरजत्तमभोगबाहुम् ॥ तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ॥ १४६ ॥ आगच्छ रक्षोधिप मा विषादमवस्थितोऽहं प्रगृहीतचापः ॥ अवेहि मां शैक्रसपल रामं मैया मुहूर्ताद्भविता विचेताः ॥ १४७ ॥ रामोऽयमिति विज्ञाय जहास विकृतखनम् । अभ्यधावत संक्रुद्धो हरीन्विद्रावयन्रणे । पातयन्निव सर्वेषां हृदयानि वनौकसाम् ॥ १४८ ॥ प्रहस्य विकृतं भीमं स मेघस्तनितोपमम् ॥ कुम्भकणों महातेजा राघवं वाक्यमब्रवीत् ॥ १४९ ॥ नाहं विराधो विज्ञेयो न कबन्धः खरो न च । न वाली न च मारीचः कुम्भकर्णाऽहमागतः ॥१५०॥ पश्य मे मुद्रं घोरं सर्वकालायसं महत् । अनेन निर्जिता देवा दानवाश्च पुरा मया ॥ १५१ ॥ विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ।। खल्पाऽपि हि न मे पीडा कर्णनासाविनाशनात् ॥१५२॥ दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु में लघु ॥ ततस्त्वां भक्षयिष्याम् िदृष्टपौरुषविक्रमम् ॥ १५३ ॥ स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्गवान्विससर्ज बाणान् । तैराहतो वञ्जसमग्रवेगैर्न चुक्षुभे न व्यथते सुरारिः॥ १५४ ॥ यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च । ते कुम्भकर्णस्य तदा शरीरे वजोपमा न व्यथयां प्रचक्रुः ॥ १५५ ॥ स वारिधारा इव सायकांस्तान्पिबञ्शरीरेण महेन्द्रशत्रुः ॥ जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्रमुग्रवेगम् ॥ १५६ ॥ ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् ॥ विंध्याध तं मुद्रमुग्रवेगं विद्रावयामास चरुं हरीणाम् ॥ १५७ ॥ वायव्यमादाय ततो वरान्तुं रामः प्रचिक्षेप निशाचराय । समुद्रं तेन जघान बाहुं स कृत्तबाहुस्तुमुलं ननाद ॥ १५८ ॥ । स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्रो राघवबाणकृत्तः॥ पपात तस्मिन्हरिराजसैन्ये जघान तां वानरवाहिनीं च ॥ १५९॥ ॥ १४३–१४६ ॥ मा मां। अविषादं आगच्छेत्य- | क्षिगं । दृष्टपौरुषविक्रमं दृष्टबलपराक्रमम् ।। १५३ ॥ वयः । यद्वा विषादं मा गच्छ। मरणेन शरीरभर- चुक्षुभ इति । क्षोभोत्र मानसः ॥ १५४ ॥ यैः णक्लेशं त्यजेत्यर्थः । आडू उपसर्गमात्रं ॥१४७-१४८॥ सायकैरिति सालभेदकस्य वालि च क्रियाविशेषणं ॥ – | । विनाशकस्य विकृतमित्यादिविशेषणत्रयं १४९ बाणस्यैकत्वेपि बहुवचनं तद्वर्याणामनेकत्वादुपपद्यते १५० ॥ पश्य मे मुद्रमिति । यद्यपि निरायुधत्वं पूर्वमुक्तं तथाष्यद्य मुद्रं गृहीतवानिति ज्ञेयं । सर्व- |।१५५ ॥। शरीरेण पिबन् । शरीरनिमग्नबाण - इत्यर्थः ।। कालायसं बहुलायसमयमित्यर्थः१५१–१५२लघु | जघान मोषीचकार ॥ १५६ ॥ विव्याध अचालयत् । ति० भुजङ्गराजस्यशेषस्योत्तमोभोगः तद्वद्वाहुर्यस्यासः ॥ १४६ ॥ ति० रामोयमिति विज्ञाय रामवचसेतिशेषः ।। १४८ ॥ स० यद्यपि ‘एकेषुणा—भित्वाचतान्सइत्यादिऽवेकएवसप्ततालघाटको विपाठउक्तः तथपिकुंभकर्णमहत्त्ववर्णनंगममाहात्म्योपयोगीति यैरित्याद्युक्तिः । तदवयवबाहुल्याद्वा ‘‘अदितिःपाशान् ” इत्यादिवद्वा बहुवचनं । नव्यथयप्रचक्रः । आऽग्रमामन्तव्यवहिः [ पा० ] १ झ. धीरोद्धत. २ ङ, छ. झ. ट. राक्षसवंशनाशनंयस्त्वंमुहूर्तात् ३ क. च. भवान्मुहूर्ताद्भविता. ४ ग. विजिताः५ छ, छ. झ. ट. मेऽनघ . ६ ग. ङ, छ. झ. शरीरंखलोपमानंव्यथयां. ७ क. ग. -ट. व्यवध्यत वा. रा. २१२