सर्गः ६७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २७१ [ मेदोवेंसशोणितदिग्धगात्रः कर्णावसक्तग्रथितान्त्रमालः । ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः कालो युगान्तस्थ इव प्रवृद्धः ]॥ १०२ ॥ तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः॥ चकार लक्ष्मणः क्रुद्धो युद्धे परपुरंजयः॥ १०३ ॥ स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् ।। निचखनाददे बाणान्विससर्ज च लक्ष्मणः॥१०४॥ [ पीड्यमानस्तदस्त्रं तु विशेषं तत्स राक्षसः । ततश्रुकोप बलवान्सुमित्रानन्दवर्धनः ॥१०५॥ अथास्य कवचं शुभं जांबूनदमयं शुभम् । प्रच्छादयामास शरैः संध्याभ्रमिव मारुतः ॥ १०६ ॥ नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः॥ आपीड्यमानः शुशुभे मेवैस्वर्य इवांशुमान् ॥ १०७ ॥ ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् । सावज्ञमेव प्रोवाच वाक्यं मेघौघनिस्वनः । १०८ अन्तकस्याष्यकटेन युधि जेतारमाहवे ॥ युध्यता मामभीतेन ख्यापिता वीरता त्वया ॥ १०९ ॥ प्रगृहीतायुधस्येह मृत्योरिच महामृधे ॥ तिष्ठन्नष्यग्रतः पूज्यः किषु युद्धप्रदायकः ।। ११० ॥ ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः ॥ नैव शक्रोपि समरे स्थितपूर्वः कदाचन ॥ १११ ॥ अद्य त्वयाऽहं सौमित्रे बालेनापि पराक्रमैः ॥ तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम्११२॥ यत्तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया ॥ राममेवैकमिच्छामि हन्तुं यसिन्हते हतम् ॥ ११३ ॥ रामे मयाऽत्र निहते येऽन्ये स्थास्यन्ति संयुगे। तानहं योधयिष्यामि स्वबलेन प्रमाथिना ॥११३ इत्युक्तवाक्यं तद्रक्षः प्रोवाच स्तुतिसंहितम् । मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव ॥११५॥ यस्त्वं शक्रादिभिर्देवैरसह्यः प्राप्य पौरुषम् । तत्सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः ॥ ११६॥ एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः ॥। इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः]॥ ११७ ॥ अतिक्रम्य च सौमित्रिं कुम्भकर्णं महाबलः। ॥ राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥ ११८॥ अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् । कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान् ॥ ११९ ॥ तस्य रामेण विद्धस्य सहसाऽभिप्रधावतः॥ अंङ्गगरमित्राः क्रुद्धस्य सुखनिश्चेरुरर्चिषः ॥ १२० ॥ रामानुविद्धो घोरं वै नदन्राक्षसपुङ्गवः। अभ्यधावत संक्रुद्धो हरीन्विद्रावयत्रणे ॥ १२१ ॥ तस्योरसि निमग्नाश्च शरा बर्हिणवाससः ॥ [ रेज़ेनलाद्रिकटके नृत्यन्त इव बर्हिणः ]॥ १२२ ॥ हस्ताच्चापि परिभ्रष्टा पपातोव्र्यां महागदा । आयुधानि च सर्वाणि विमाकीर्यन्त भूतले ॥१२३॥ प्राधावत् । उत्तरश्लोकेष्येवमेव ॥ १००–११९ ॥ | बर्हणं बर्हिपत्रं वासो वासस्थानं येषां ते तथोक्ताः । अर्चिषः ज्वालाः ॥ १२०-१२१ ॥ बर्हिणवाससः ॥ १२२ ॥ आयुधानि खङ्गादीनि ॥ । १२३ ॥ ति० कर्णावसक्तेत्यनेनाधोभागएवकर्णलुञ्छनंसुग्रीवेणकृतमितिगम्यते । कर्णावसक्ताः प्रथिताः परस्परसंलग्नाः अत्रमालाः यस्यसः ॥ स० अवसंक्ताः वानरशरीरान्मोचिताः ग्रथिताः स्खयमेवग्रन्थीभूयस्थिताः अत्रमालाः गलेयस्यसः। कर्णः श्रवणालुः इतरदूरोदीरितश्रवणपटुः । “कर्णश्रवणालौ’इति विश्वः । शूलानि मायासृष्टानि । निरायुधखमुद्रायुधत्वमात्रोक्तेः । चलचारुकु ण्डलः कुण्डलालङ्कर्तशिरइतिवक्ष्यमाणग्रन्थविरोधपरिहारं तथाख्यावसरेकरिष्यामः ॥ १०२ ॥ ति० पीड्यमानःसराक्षसः तदत्रं विशेषं अत्रांन्तरेणविगतशेषंचकारेत्यर्थः ॥ १०५ ॥ स० यद्यपि ‘नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः’ इतिदार्यान्तिकानु सारेण दृष्टान्तेपि मेघःसूयैरिवैतिवक्तव्यं । तथापि कवयितुमॅलनमात्रेतात्पर्ये नसर्वसाम्यइतिज्ञेयं ॥ १०७ ॥ ति० अभ्यधावत । तंरामं विसृज्येतिशेषः । १२१ ॥ स० कटके अद्रिनितंबे । बर्हिणोमयूराः नृत्यन्तीवरेजुः ॥ १२२ ॥ स० गदा मायामयीवा आयुधसामान्यवाचिवाद्दापदस्य तेनमुद्रग्रहणंवेति । ‘‘आयुधेगदा’इति विश्वः । आयुधान्यपिमायामयानि ॥ १२३ [ पt० ] १ अयंश्लोकः क. ख. ङ. -ट. पाठेघदृश्यते. २ ख. ग. ङ. च. छ. झ. ट. चान्यान्विससर्ज. ३ पीड्यम नस्तदश्नन्वित्यादयःलक्ष्मणंसनिशाचरइत्यन्ताःलोकाः क. घ. ~-ट. पाठेषुअधिकादृश्यन्ते. ४ क. ग.-- अङ्गरमिश्रः ५ इदमर्घ क ध. च. छ. पाठेघदृश्यते. ६ ख. ङ. झ. ज. ट, गदाचोव्र्योपपातह.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७५
दिखावट