पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य । प्रवङ्गमास्तु व्यथिता भयातः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ २१ ॥ ततस्तु नीलो बलवान्पर्यवस्थापयन्बलम् ॥ ऍविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ॥ २२ ॥ तमापतन्तं संप्रेक्ष्य मुष्टिनाऽभिजघान ह ॥ मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ॥ २३ ॥ सविस्फुलिङ्गं सज्वालं निपपात महीतले ॥ २४ ॥ ऋषभः शरभो नीलो गवाक्षो गन्धमादनः॥ पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ॥ २५ ॥ शैलैर्मुखैस्तलैः पादैर्मुष्टिभिश्च महाबलाः। कुम्भकर्ण मैहाकायं सर्वतोऽभिप्रदुद्रुवुः ॥ २६ ॥ स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे ॥ ऋषभं तु महावेगं बाहुभ्यां परिषस्खजे ॥ २७ ॥ कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः। निपपातर्षभो भीमः पुंमुखाद्वान्तशोणितः ॥ २८ ॥ मुष्टिना शरभं हत्वा जानुना नीलमाहवे ॥ आजघान गवाक्षी तु तलेनेन्द्ररिपुस्तदा ॥ २९ ॥ पादेनाभ्यहनत्क्रुद्धस्तरसा गन्धमादनम् ॥ दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः ॥ ३० ॥ निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः । तेषु वानरमुख्येषु पतितेषु महात्मसु । वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥ ३१ ॥ तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः ॥ समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥ ३२ ॥ तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा ।। कुम्भकर्णं मैहाकायं ते जघ्नुः प्लवगर्षभाः ॥ ३३ ॥ स वानरसहसैस्तैराचितः पर्वतोपमः ॥ रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ ३४ ॥ बाहुभ्यां वानरान्सर्वान्प्रगृह्य सुमहाबलः ॥ भक्षयामास संक्रुद्धो गरुडः पन्नगानिव ॥ ३५ ॥ प्रक्षिप्तः कुम्भकर्णेन वक्रे पातालसन्निभे ॥ नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः॥३६॥ भक्षयन्भृशसंक्रुद्धो हरीन्पर्वतसन्निभः॥ बभञ्ज वानरान्सर्वान्संक्रुद्धो राक्षसोत्तमः॥ ३७ ॥ मांसशोणितसंक्लेदां भूमिं कुर्वन्स राक्षसः ॥ चचार हरिसैन्येषु कालाग्निरिव मूर्छिछतः ॥ ३८ ॥ वब्रहस्तो यथा शक्रः पाशहस्त इवान्तकः ॥ श्यूलहस्तो बभौ सद्वये कुम्भकर्णं महाबलः ॥ ३९ ॥ यथा शुष्कान्यरण्यानि ग्रीष्मे दहति पावकः । तथा वानरसैन्यानि कुम्भकर्णं विनिर्दहत् ॥ ४० ॥ युगान्तमेघस्य स्तनितरूपो यः स्वनः ततुल्यमिति | ‘ व्यवहिताश्च ” इत्युपसर्गस्य व्यवहितप्रयोगः। क्रियाविशेषणं ।। २० ॥ कुम्भकर्णात् भयातों इत्य- | वान्तशोणितः उदीर्णरक्तः ॥ २८-३१ ॥ समारुह्य न्वयः। संयति युद्धे । २१ । पर्यवस्थापयन्बलमिति । समुत्पत्य । समुत्पत्य समारुह्यति क्रमः ॥३२-३३ ।। पलायमानान् सन्निवर्तयन्नित्यर्थः ॥ २२ ॥ यशी आचितः व्याप्तः । आमरुहैः वृकैः ॥ ३४–३६ ॥ र्यंत शीर्णमभूत् ॥ २३-२५ ॥ पादैः प्रहारोद्यतैः। सर्वत्रोपलक्षणे तृतीया ॥ २६ ॥ स्पर्शानिव सुखस्प | भक्षयन् बभञ्ज । भक्षणार्थं बभजेत्यथैः ॥ ३७ ॥ शनिव । सुखमर्दनमिव जानन्नित्यर्थः ॥ २७ ॥ मांसशोणितसंक्लेदां मांसशोणितसंसिक्तामित्यर्थः प्रेति छेदः । मुखात् बान्तशोणितः प्रणिपपातेत्यन्वयः ।। ३८-३९॥ विनिर्दहत् विनिरदहत् ॥ ४० ॥ द्यतेउपमाययतनोपमं । मेघस्तनितंस्वनेनोपमंयस्मिन्कर्मणितद्यथाभवतितथा। मेघध्वन्यपेक्षयाऽधिकंयथाभवतितथाननाद ॥२०॥ स० स्पर्शानिव कुसुममालादिस्पर्शानिव । वेदयानः खार्थेणिच्। जानन् । तदेवाह-नविव्यथइति ॥ २७ ॥ स० प्रमु- [ पा० ] १ क. ग. घ. च. छ. अ. नीलश्चिक्षेप . २ ख, च, छ, ज, मुष्टिभिर्जानुभिस्तदा। ३ ङ. झ. ट. महाकायं निजघ्नुस्सर्वतोयुधि. ज. महाकायंसर्वतोऽभिनिजज्ञिरे. ४ क, ख, ग. ङ.-ट. प्रमुखगतशोणितः. ५ ङ. झ. ट. ददंशुः प्लवगर्षभाः६ च• छ. झ. झ. ट. महाबाहु