पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः कुंभकर्णं बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥ २८ ॥ श्रोणीसूत्रेण महता मेचकेन व्यराजत । अमृतोत्पादने नद्धो भुजङ्गनेव मन्दरः ॥ २९ ।। स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा ॥ आबध्यमानः कवचं रराज संध्याभ्रसंवीत इवाद्रिराजः ॥ ३० ॥ सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ ३१ ॥ भ्रातरं संपरिष्वज्य कृत्वा चाभिप्रदक्षिणम् । प्रणम्य शिरसा तसै संप्रतस्थे महाबलः ॥ ३२ ॥ निष्पतन्तं महाकायं महानादं महाबलम् ॥ तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ॥ ३३ ॥ शङ्खदुन्दुभिनिर्घपैः सैन्यैश्चापि वरायुधैः । तं गजैश्च तुरङ्कश्च स्यन्दनैश्चम्बुदस्खनैः ॥ ३४ ॥ अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ॥ ३५ ॥ सर्वैरुणैः खरैरश्वैः सिंहद्विपमृगद्विजैः । अनुजग्मुश्च तं घोरं कुंभकर्णं महाबलम् ॥ ३६ ॥ स पुष्पवर्षारकीर्यमाणो धृतातपत्र शितशूलपाणिः ॥ मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ॥ ३७ ॥ पदातयश्च बहवो महानादा महाबलाः । अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥ ३८ ॥ रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः ॥ शूलानुद्यम्य खङ्गांश्च निशितांश्च परश्वधान् ॥ । ३९॥ बेहुव्यामांश्च परिघान्गदाश्च मुसलानि च ॥ तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान् ॥ ४० ॥ अथान्यद्वपुरादाय दारुणं रोमैहर्षणम् । निष्पपात महातेजाः कुंभकर्णं महाबलः ॥ ४१ ॥ धनुःशतपरीणाहः स षट्छतसमुच्छूितः । रौद्रः शकटचक्रक्षो महापर्वतसन्निभः॥ ४२ ॥ संनिपत्य च रक्षांसि दग्धशैलोपमो महान् ॥ कुंभकर्णं महावक्रः प्रहसन्निदमब्रवीत् ॥ ४३ ॥ अद्य वानरमुख्यानां ताँनि यूथानि भागशः॥ निर्दहिष्यामि संक्रुद्धः शैलभानिव पावकः॥४४॥ नापराध्यन्ति मे कामं वानर वनचारिणः ॥ जातिरसद्विधानां सा पुरोद्यानविभूषणम् ॥ ४५ ॥ पुररोधस्य मूलं तु राघवः सहलक्ष्मणः॥ हते तसिन्हतं सर्वे तं बँधिष्यामि संयुगे ॥ ४६ ॥ एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः । नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् । ४७ ॥ -२८ ॥ अमृतोत्पादने नद्ध इति निमित्तसप्तमी । [ कृतोत्साहः॥३१-३५।। सर्परिति । सर्वादीनां महाश भुजङ्कन वासुकिना ॥ २९ ॥ भारसहं आयुधादिभिः रीराणां वाहनत्वं संभवतीति बोध्यं । द्विपाः गजाः। प्रहारेष्यशिथिलमित्यर्थः। दृढमिति वाऽर्थः । यद्वा द्विजाः हंसादयः॥३६। मदोत्कटः स्वाभाविकमदेन उपनीतायां तुलायां स्थाप्यमानान्बहून्भारान् सहत । मत्तः । ‘‘मत्ते शौण्डोत्कटक्षीबाः’ इत्यमरः ॥ ३७- इति भारसहः। अनेकभारपरिमाण इत्यर्थः। निवातं | ३९ ॥ बहुव्यामान् अनेकव्यासप्रमाणान् । “व्यामो वातप्रवेशनिवारकं । निरन्तरमिति यावत् । आम- | बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरं’ इत्यमरः । ताल भासा कवचकान्त्या। यद्वा निवातं शस्राभेद्य । “‘नि- | स्कन्धान् तलकाण्डान् ॥४०-४१॥। धनुःशतपरीणाहः वातावाश्रयावातौ शस्त्राभेषं च वमें यत्' ' इत्यमरः । | धनुःशतविशालः । षट्छतसमुच्छूितः षट्छतधनुरु आबध्यमानः आबश्नन् । आर्षविकरणव्यत्ययेन इय- | छायः । संनिपत्य स्वानुगमनायोद्युक्तानां राक्षसानां न्प्रत्ययः ॥३०॥ सर्वाभरणसर्वाङ्गः सर्वाभरणयुक्तस- | समीपं गत्वेत्यर्थः ॥ ४२–४४ । सा जातिः वानर- वज्ञः । त्रिविक्रमकृतोत्साहः त्रिषु विक्रमेषु पदन्यासेषु । जातिः। अस्मद्विधानां क्रीडापराणां ॥ ४५-४७ ॥ [ पा० ] १ ङ. झ. ट. भिन्दिपालांश्चपरिघान्. २ घ. विपुलान्प्रासान्. ३ क. ख. ग. ङ. च. झ. ध. ट. घोरदर्शनं. ४ ङ. च. छ. अ. महायूथानि. ख• नानयूथानि. ५ ङ. झ. ट. पतङ्गानिव ६ ख. च, छ, अ. वधिष्याम्यतोयुधि.. ७ ग. र्महाघोराः, ख• च. ज. र्महायोधाः