पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ श्रीमद्वाल्मीकिरामायणम् [ युद्धकाण्डम् ६ ततो विस्मयमापन ददृशुर्हरयस्तदा ॥ श्रान्तोर्मिजलसन्नदं प्रैलोलमिव सागरम् ॥ १२४ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः ॥ ४॥ पञ्चमः सर्गः ॥ ५॥ समुदवेलाचलोकनाद्युद्दीपकसमुदीपित विरहशोकेनरामेण लक्ष्मणंप्रति सीतामुद्दिश्यसपरिशोचनंबहुधाविला (पः ॥ १ तथा लक्ष्मणसमाश्वासितेनतेन सायंसन्ध्योपासनम् ॥ २ ॥ सा तु नीलेन विधिंवत्खारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सेना निवेशिता ॥ १ ॥ मैन्दश्च द्विविदधोभौ तत्र वानरपुङ्गवौ । विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ॥ २ ॥ निविष्टायां तु सेनायां तीरे नदनदीपतेः ॥ पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ ३ ॥ शोकश्च किल कालेन गच्छता ह्यपगच्छति । मम चापश्यतः कान्तामहन्यहनि वर्धते ॥ ४ ॥ न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति वा॥ एतदेवानुशोचामि वयोया ह्यतिवर्तते ॥ ५ ॥ वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥६॥ १२३ततइति विशेषाभिधानार्थत्वान्न पुनरुक्तिः। प्रसिद्धमिति लौकिका वन्ति । कान्तामपश्यतो सम भ्रान्तोर्मिजलसन्नामिति । चूर्णिततरङ्गजलसन्नादो तु शोकः अहन्यहनि वर्धते । लौकिकशोकविल; अस्मिन् तं प्रलोलमिव उद्धान्तमिव ॥ १२४ इति | णोमम शोक इतिभावः ४ ननु शत्रुहूताया दूरे श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि- | स्थितायास्तस्याः प्रत्याहरणसमर्थस्य तव किं शोकेनै रीढाख्याने युद्धकाण्डघ्याख्याने चतुर्थः सर्गः त्याशङ्कय न तद्विषयोयं शोकः किंपभोगयोग्यस्य श्रियावयसो वैफल्यानुस्मरणादित्याह--न म इति एवं कृतज्ञत्वमित्रानुरोधित्वपरीक्ष्यकारित्वमहोत्सा- | प्रिया दूरे स्थितेति मे न दुःखं । सुग्रीवेण प्रस्थानेन इत्वाद्यःशरण्यत्वौपयिका रामगुणा दर्शिताः । अथ तस्य निवर्यत्वात् । प्रबलूरक्षसा हृतेति मे दुःखं नास्ति रामस्य कारुण्यरूपं प्रधानगुणं दर्शयितुं सर्गान्तरमार- | तस्य तच्छिरःकृन्तनापनोद्यत्वात् । एतदेवानुशोचामि । भते-सा त्विति ॥खार आसमन्ताद्रक्षन्तीत्यारः | इदमेकमेवृ शोकनिमित्तं । वयोस्या ह्यतिवर्तते गतं यौवनं शोभनाः आरक्षाः यस्याः सातथोक्ता । विधिवत् | न प्रत्याहर्तुं शक्यमितिभावः । अत्र यौवनमतिवर्तत नीतिशास्त्रोक्तरीत्या । सुसमाहिता निराकुला इति नार्थः । नित्ययौवनत्वात्तस्याः । किंतु वयोति निवेशिता १ ॥ दिशमिति जात्येकवचनं । दिश वर्तते । व्यर्थतयैवयातीतिभावः। मानुषभावानुसारेण इत्यर्थः उभसर्वतसोः इत्यादिना द्वितीया चेदं वचनं ॥ ५॥ श्रियास्पृष्टद्रव्यस्पर्शस्य विनोदहेतु सर्वत इति सप्तम्यर्थे तसिः। दिशां सर्वेषु प्रदेशेष्वि- | त्वात्तत्संपादनार्थं वायु प्रार्थयते-वाहीति । हे वात त्यर्थः ॥२-३॥ समुद्रवेलावनाद्युद्दीपकर्शनादुद्धृतं | मेकान्ता यतः यत्र वसति तत्र वाहि गच्छ । विरहशोकं सोदुमशक्नुवन् सौमित्रिं प्रत्याह--शोक- | तत्रगत्वाकिंकरणीयमित्यत्राह-तामिति । न चैतद् श्चेत्यादिना । प्रथमश्चकारोऽवधारणे। द्वितीयस्त्वर्थः यतः सेत्स्यतीति सदृष्टान्तं दर्शयति-दृष्टिसमागमः शोकः इष्टवस्त्वन्तरवियोगजनितः शोकः। गच्छता | चन्द्रे यथा चन्द्राधीनः । तथा मे तद्गात्रसंस्पर्शापि । कालेन अपगच्छति । किलेन्थेति । गच्छत्येवेति । त्वयि त्वदधीनः। तथा तद्वलोकितं चन्द्रं पश्यन् ८ स० सासेनावित्यन्वर असाधुखा असाधूनां सा हिंसाययेति । तदर्थस्तुरिपुनाशिका १ ॥ ति० नन्वचिरात्प्रत्याहरि व्यामः किंशोकेनेत्यत्रतत्रैवविनशङ्कयादुःखमित्याह-नमेइति । प्रियादूरेस्थितेति मेदुःखंनास्ति । स्त्रीधर्मदिवसवत् । तथाहृतेत्यपि नदुःखं । प्रबलङ्गुष्कर्मचशंप्राप्तवान् । अपिखस्यावयः प्राणावस्थितिकालः अतिवर्तते । मासद्वयमात्रंजीवनमित्युकेः तत्रापि [ पा०]१ झ. ध. ट, जाल, २ क. खः प्रालोलमिव. ३ ग. च. विधिनाखार. ख, विधिवत्सुरक्षा.