पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ श्रीमद्वाक्मीकिरामायणम् । [ युद्धकाण्डम् ६ स तां विधूमानलसन्निकाशां वित्रासिनीं वनरवाहिनीनाम् । चिक्षेप शक्ति तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ॥ १०७ ॥ तामापतन्तीं भरतानुजोगैर्जघान बाणैश्च हुताग्निकल्पैः । तथापि सा तस्य विवेश शैक्तिर्बाह्वन्तरं दाशरथेर्विशालम् ॥ १०८ ॥ स शक्तिमाञ्शक्तिसमाहतः सैन्मुहुः प्रजज्वाल रघुप्रवीरः। तं विह्वलन्तं सहसाऽभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ॥ १०९ ॥ हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुद्धर्तु नै संख्ये भरतानुजः॥ ११०॥ शक्त्या ब्राह्मयाऽपि सौमित्रिस्ताडितस्तु स्तनान्तरेविष्णोर्रचिन्त्यं खं भागमात्मानं प्रत्यनुसरत् ॥१११॥ ।१०६। राक्षसराष्ट्रनाथराक्षससमूहनाथः१०७॥ [ मपि तथा कर्तुं शक्यं । तदधिपतेर्निजतनुजेनैव निगृ- बाह्वन्तरंवक्ष१०८॥ विह्वलन्तं मुह्यन्तं ॥ १०९॥ | हीतत्वात् । भरतानुजः जः। रामचतुथे लक्ष्मणं भुजाभ्यामुद्धर्तुमुद्युक्तं रावणमृषिः परिहस- भागइत्यर्थः। रामचतुर्थभागोद्धरणेष्यशक्तः कथं रामेण ति-हिमवानिति । शक्यमित्यव्ययं । हिमवान् | योढं शक्नोतीति भावःअयोध्याकाण्डे पञ्चपञ्चाशे धैर्येण हिमवानिवेति । समस्तधीरोपमानभूतो हिम- ‘‘ सीतामादाय गच्छ त्वमग्रतो भरताग्रज ” इति वानपि रावणस्य भुजाभ्यामुद्धर्तुं शक्यं । तदेकदेशस्य | वचनं बहुनीह्योक्तं । भुजाभ्यामित्यनेन हिमवदादयो कैलासस्य पुराचलितत्वात् । मन्दरः सकलसागर- | द्वाभ्यामेवोद्धर्तुं शक्यं । अयं तु विंशतिभुजैरपि न प्रधानगभीरतरक्षीरोदक्षोभणक्षमोपि मन्द्रो वा भुजा- | शक्यत इति सूच्यते । रिपूणामप्रकम्योपीत्यनुवादात् भ्यामुद्धर्तुं शक्यं । स्वनिजितैरेव निर्जरैरमृतमथने । सपरिकरेणापि रावणेन न शक्यमित्यपि सिद्धे। कथं जीरितत्वात् । मेरुः सकलकुलाचलवलयललामभू- | ताहिं हनुमतोडुत इत्यत्राह-संख्य इति । दुहृदयैर्ना- तोपि मेरुस्तथा कर्तुं शक्यं । वायुनैव तच्छिखरस्य बृढं शक्य इत्यर्थः । अतएव वक्ष्यति--वायुसूनोः लङ्काया अकूपारकुक्षौ निक्षिप्तत्वात् । त्रैलोक्यं पञ्च- सुहृत्वेनेति । अनेन हिमवदादिभ्योपि संख्ये पति शत्कोटिविस्तीर्णमुत्तीर्णपरिमाणान्तरं त्रैलोक्यमपि | तस्य लक्ष्मणशरीरस्य गरीयस्तोक्ता ॥ ११० ॥ कुतो तथा कर्तुशक्यं । तदेकदेशधरण्या हिरण्याक्षेण कक्षी- स्येतादृशी गरीयस्तेत्यत्राह-शक्त्येति ॥ ब्राहया कृतत्वात् । सहामरैः त्रैलोक्यनिर्वाहकंगीर्वाणैः सहित- ] ब्रह्मसंबन्धिन्या । शक्या । स्तनान्तरे वक्षसि सौमि- ति० विह्वलन्तं विकलंभवन्तं । राजा रावणः । तरसा बलेन । लक्ष्मणभुजाभ्यांजग्राह । इन्द्रजिद्वद्धयोरपिपुनरुत्थानदर्शनादिदा नीमपिपुनरुज्जीवनभयेन गृहीखासमुद्रंप्रक्षेपणीयः। तत्रगतेरामोसहायोनह्यत्येवेत्याशयेनायमारंभः । शि० शक्तिमानपिसमाहत इयनेन तस्यमर्यादापालकवंध्वनितं ॥ १०९ ॥ स० भुजाभ्यां एकैकपार्श्ववृत्तिदशकैकखविवक्षयाभुजाभ्यामित्युक्तिः । अन्य थाद्वाभ्यामुद्धरणाशक्तस्तनुयादेवसमणैर्यु जैर्यत्नभितितेपिवक्तव्याभवेयुः । तदव्यापारणेचनतस्याशाविच्छेदःस्यात् । यथोक्तमन्यत्र ‘स्खबाहुभिर्नेतुममुंसमैच्छत्’ ‘बलात्खदोर्भिःपरिचाखिलैः’ इतिच ॥ ११० ॥ ति० कुतस्तत्राह-शक्त्येति । अमोघया ब्रह्मदत्तया स्तनान्तरे आहतःसौमित्रिः विष्णोरमीमांस्यं निस्संशयविष्णुभागखवन्तं इयत्तयाचिन्तयितुमशक्यंवा। विष्णोर्भगमा त्मानं प्रत्यनुसरत् अन्यस्मरत् । नहिडीयंस्खेहिनस्तीत्याशयेनब्रह्मशक्तिमूलापत्राणार्थभगवत्तेजोंशएवाहमस्मीतिध्यातवान् । नट वदनकृतमनुष्यवस्येतरेषांडवप्रतीत्यर्थे । परंनसर्वदातथाध्यानं । एवंचब्रह्मभावनयालक्ष्मणेनस्खशरीरस्यगरीयस्त्वमापादितमित्यु- तंभवति । ती० ब्राह्वया ब्रह्मदत्तया । ताडनानन्तरं स्वं आत्मानं । विष्णोः सर्वव्यापकस्य । अचिन्त्यं इयत्तयाचिन्तितुमशक्यं । भागमंशं प्रत्यनुस्मरत । तद्विपपरिहारार्थभगवन्तंखमूलकारणंविष्णुमस्मरदित्यर्थः । अन्यथासर्वदैतादृशस्मरणेविद्यमानेसतिसर्व- दाऽनुवर्तमानामनुष्यबुद्धिर्बध्येत । तस्यांचबाधितायांतयासाध्यरावणसंहारादिरूपकार्यं नशक्येतेत्यभिप्रायः । एतेन खकीयांश स्मरणेन हेतुनालक्ष्मणेन स्वशरीरस्यगरीयस्त्वमुपात्तमित्युक्तंभवति । स० विष्णोः श्रीनारायणस्य अमीमांस्यौ साकल्ये- [ पा० ] १ ग. ज. वानरराक्षसानांख. घ. -छ. झ. अ. ट. संयतिवानराणां२ क. -ङ, छ. झ. ब. ट. शक्तिी: जान्तरं. ३ च. छ. थ. सन्पपातभूमौसरघु. ड. झ. ट. सजज्वालभूमौसरघु. ४ च. ज. सुरासुरैः. ५ झ. नशक्यो. ६ झ. ट. समीमांस्यभागं. ज. भंगममीमांस्यं.