पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः ५९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २२५ तमाह सौमित्रिरविसयानो गर्जन्तमुद्धृत्तशिताग्रदंष्ट्रम् ॥ राजन गर्जन्ति महाप्रभाव विकत्थसे पापकृतां वरिष्ठ ॥ ९६ ॥ जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च ॥ अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ॥ ९७ ॥ स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान्सुपुङ्गवान् । ताँठक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः॥ ९८ ॥ तान्प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् । लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान्पृषत्कान् ॥ ९९ ॥ स बाणवर्ष तु ववर्ष तीव्र रामानुजः कार्मुकसंप्रयुक्तम् । क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ १०० ॥ स बाणजालान्यथ तानि तानि मोघानि पश्यंस्त्रिदशारिराजः ॥ विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान्निशितान्मुमोच ॥ १०१ ॥ स लक्ष्मणश्चक्षु शराञ्शिताग्रान्महेन्द्रवजाशनितुल्यवेगान् । संधाय चापे ज्वलनप्रकाशान्ससर्ज रक्षोधिपतेर्वधाय ॥ १०२ ॥ स तान्प्रचिच्छेद हि राक्षसेन्द्रश्छित्वा च ताँलक्ष्मणमाजघान ॥ शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ॥ १०३ ॥ स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य । पुनश्च संज्ञां प्रतिलभ्य कृच्छाचिच्छेद चापं त्रिदशेन्द्रशत्रोः॥ १०४ ॥ निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शितागैः । स सायकार्ता विचचाल राजा छुच्छाच्च संज्ञां पुनराससाद ॥ १०५ ॥ स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः ॥ जग्राह शक्ति संप्युदग्रशक्तिः स्खयम्भुदत्तां युधि देवशत्रुः ॥ १०६ ॥ ॥ ९५ ॥ अविस्मयानः तृणीकुर्वन्नित्यर्थः । उद्धृत्तसि- | कार्मुकसंप्रयुक्तं चापसंहितं । नुरेति । क्षुरैः नापित ताप्रदंष्ट्रे उन्नतधवलाग्नदंऐं । न गर्जन्ति नासश्लाघां | शस्त्राकारैः । अर्धचन्द्रेः अर्धचन्द्राकारमुधैः। उत्तमैः कुर्वन्तीत्यर्थः। पापकृतां वरिष्ठेति हेतुगर्भतविशेषणं। कर्णिभिः कर्णिशरैः। भलैः उभयपार्श्वधारैः। शरान् पापकृद्वरिष्टत्वाद्विकत्थस इत्यर्थः । ९६ ॥ जाना रावणशरान् । चिच्छेद । तथापि न चुक्षुभे न कलु मीति सोपहासोक्तिः । तव विजने यतिवेषेण सीता- | षितहृदयोत् ॥ १०० ॥ स इति । त्रिदशारिराजः मपहृतवतः । प्रतापं शत्रुभीषणत्वं । पराक्रमं शौये । राक्षसराजः ।। १०१ ॥ महेन्द्रवघ्राशनितुल्यवेगान्

  • शौर्योद्योगौपराक्रमौ * इत्यमरः । मोघविकत्थनेन | महेन्द्रवजस्याशनेश्च तुल्यवेगान् ॥ १०२–१०३ ॥

निष्फलश्लाघनेन ॥ ९७ ॥ निशिते अग्रधारे अग्र- | शिथिलं यथा भवति तथा प्रगृह्य ॥१०४-१०५ । मे पाईं येषां तैः ॥ ९८ ॥ पृषत्कान् बाणान् ॥ ९९ ॥ | देत्यकारान्तत्वमर्ष । समुदग्रशक्तिः समधिकसामर्थः ति० मेदार्द्रगात्रइतिसंधिरार्षः । अथरावणः प्राणान्तापदंप्राप्तः प्रकारान्तरेणजीवननिर्वाहमसंभाव्यब्रह्मदत्ताममोघांशन्निजग्राहे- त्याह-जग्राहेति ॥ १०६ ॥ [ पा० ] १ घ. युधिस्थितोहं. २ क. ख. ङ. झ. अ. ट. खयमुत्रशक्तिः वा. रा. २०६