पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ ततस्ते चुक्रुशुर्देष्टा लब्धलक्षाः प्लवङ्गमाः॥ नीललाघवसंभ्रान्तं दृष्ट्वा रावणमाहवे ॥ ८३ ॥ वानराणां च नादेन संरब्धो रावणस्तदा । संभ्रमाविष्टहृदयो न किंचित्प्रत्यपद्यत ॥ ८४ ॥ आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ॥ ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः । ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ॥ ८५ ॥ कपे लाघवयुक्तोसि मायया र्परयाऽनया ॥ जीवितं खलु रक्षस्ख यदि शक्तोसि वानर ॥ ८६ ॥ तानितान्यात्मरूपाणि सृजसि त्वमनेकशः । तथापि त्वां मया ऍक्तः सायकोत्रप्रयोजितः । जीवितं परिरक्षन्तं जीविताद्वंशयिष्यति ॥ ८७ ॥ एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः॥ संधाय बाणमन्त्रेण चमूपतिमताडयत् ॥ ८८॥ सोस्त्रयैतेन बाणेन नीलो वक्षसि ताडितः ॥ निर्दद्यमानः सहसा निपपात महीतले ॥ ८९ ॥ पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा ॥ जानुभ्यामपतद्भुमौ न च प्राणैर्ययुज्यत ॥ ९० ॥ विसंज्ञ बॅनरं दृष्ट्वा दशग्रीवो रणोत्सुकः ॥ रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ ९१ ॥ आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन् ॥ धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ॥९२॥ तमाह सौमित्रिरदीनसत्वो विस्फारयन्तं धनुरप्रमेयम् । अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोर्युद्धमहः॥ ९३ ॥ स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दसुग्रं च निशम्य राजा ॥ आसाद्य सौमित्रिमवस्थितं तं कोपान्वितो वाक्यमुवाच रक्षः ॥ ९४ ॥ दिष्यासि मे राघव दृष्टिमार्गं प्राप्तोन्तगामी विपरीतबुद्धिः॥ अस्मिन्क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ॥ ९५ ॥ आददे ॥ ८२ ॥ लब्धलक्षाः लब्धहर्षविषयाः । | युक्तोसीति पूर्वोक्तिविरोधात् । युक्तः प्रयुक्तः । अस्त्र- नीलमेव पश्यन्त इति वार्थः ॥ ८३ ॥ वानराणां प्रयोजितः अस्त्रमन्त्रेणाभिमश्रितः। जीवितं परिरक्षन्तं । चेति चशब्देन नीललाघवं समुच्चीयते । संभ्रमः | त्वां जीवितात् भृशयिष्यतीत्यन्वयः ॥ ८७० -८९॥ व्यग्रता । प्रत्यपद्यत अजानात् । आग्नेयेन आग्नेयम- | पितृमाहात्म्येति । पितृमाहात्म्यं अग्नेः पुत्रतया द्या त्रेण । संयुक्तं अभिमत्रितं ॥ ८४-८५ ॥ । कपे चच| लुत्ववैभवं ।। ९०-९१ ॥ सौमित्रिमासाद्य । वार लप्रकृते इत्यर्थः । अतो न वानरपदेन पौनरुक्त्यं | यित्वा सुग्रीवादीन्वारयित्वा। रणमध्ये ज्वलन् स्थितः ॥ ८६ ॥ तानि तान्यासरूपाणि सृजसि त्वमनेकश | धनुर्विस्फारयामासेत्यन्वयः ॥ ९२-९३ । रक्ष इति । लाघवातिशयेन सृजसीव दृश्यस इत्यर्थः। रक्षोरूपः। राजेत्यन्वयः ॥ ९४ ॥ अन्तगामी विना- ननु ताने तानीत्यनेन रावणो नीलं नान्तनुपरिप्र- | शेच्छुः । अतएव विपरीतबुद्धिः त्वं दिष्टया यह हयुक्तं मन्यत इत्यवगम्यत इति चेन्न । कपे लाघव च्छया दृष्टिमार्ग प्राप्तोसि । संसाद्यमानः पीड्यमानः रामानु० तानितान्यात्मरूपाणिसृज सिवमनेकशइत्यभिधानात् ध्वज किरीटादिषुनीलस्यवेगातिशयकृतमवस्थानंयुगपदनेकशरीर परिग्रहकृतमितिरावणोभ्रान्तवानित्यवगम्यते ॥ ८७ ॥ ति० अवेहिपश्य ॥ ९३ ॥ ती० सतस्यवाक्यमित्यारभ्यकिंमोघविक- त्थनेनेत्येतदन्तस्यप्रातीतिकार्थःस्पष्टः । वस्तुतस्तु लक्ष्मणस्यरावणेनकिमुत्तरंदत्तमतआह--सतस्येत्यादिश्लोकद्वयेन । रक्षः राजा। सतुलक्ष्मणस्यवाक्यंउर्ज्याशब्दंचनिशम्यकोपान्वितोपिविपरीतबुद्धिरपिअन्तगाम्यपि । अवस्थितंतंसौमित्रिमासाद्य हेराघव मेपापिष्ठस्यापिमम दिष्ट्या भाग्यवशेन दृष्टिमार्गप्राप्तोसीतिवाक्यमुवाचेतिसंबन्धः ॥ ९४ ॥ शि० अन्तगामी परलोकगमन शीलः । अत एव विपरीता अयोद्धव्येयोधनविषयाबुद्धिर्यस्यसः ॥ ९५ ॥ [ पा० ] १ क. -घ. च, छ, ज, परयाऽनघ. ङ. झ. ट. परयासह. २ क• ख. ग. च--ट. मुक्तः, ३ झ. मुक्तेन ४ क. ख, च, छ. अ. पाततदृष्ट• ५ कः ख. ङ.-ट. र्विस्फारयामासराक्षसेन्द्रःप्रतापवान, ६ ख. ग, च, छ, ज, अ. अन्वेहि क उ , झ. ट. अवेहि ७ क, ख, घ. च. -अ, योदुमर्हसि. .