पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १९ वाष्यस्तसिन्गिरौ शीताः पल्वलानि तथैव च ॥ चक्रवाकानुचरिताः कारण्डवनिषेविताः॥ प्लवैः क्रौत्रैश्च संकीर्णा वराहमृगसेविताः ॥ ८५ ॥ फलैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः ॥ व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः॥८६॥ पलैः सौगन्धिकैः फुलैः कुमुदैश्चोत्पलैस्तथा ॥ वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ॥८७॥ तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥ ८८ ॥ स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः। अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः॥८९॥ फलान्यमृतगन्धीनि मूलानि कुसुमानि च ॥ ढंधुजुर्वानरास्तत्र पादपानां मदोत्कटाः ॥ १० ॥ द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ॥ ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः॥ ९१ ॥ पादपानबभञ्जन्तो विकर्षन्तस्तथा लताः । विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः ॥ ९२॥ वृक्षेभ्योऽन्ये तु कपयो नैर्दन्तो मधुदर्पिताः । अन्ये वृक्षान्प्रपद्यन्ते ऍपतन्त्यपि चापरे ॥ ९३ ॥ बभूव वसुधा तैस्तु संपूर्ण हरियूथपैः यथा कमलकेदारैः पदैरिव वसुन्धरा ।। ९४ ॥ महेन्द्रमथ संप्राप्य रामो राजीवलोचनः॥ अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ॥ ९५ ॥ ततः शिखरमारुद्य रामो दशरथात्मजः । कूर्ममीनसमाकीर्णमपश्यसँलिलाकरम् ॥ ९६ ॥ ते सर्वे समतिक्रम्य मलयं च महागिरिम् ॥ आसेदुरानुपूर्येण समुद्रं भीमनिस्खनम् ॥ ९७ ॥ अवरुह्य जगामाशु वेलावनमनुत्तमम् ॥ रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥ ९८॥ अथ धतोपलतल तोयौवैः सहसोत्थितैः । वेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥ ९९ ॥ वाष्य इत्यादि जलाशया इत्यन्तमेकं वक्य । जला- | वृक्षेभ्योन्यत्र । अत्रापि ययुरित्यनुषज्यते ॥ ९३ ॥ शयाः जलपूर्णा इति वार्पविशेषणं । अत्रापि पर्याकु- | इवशब्दो वाक्यालंकारे । अन्ये तु । तत्र तदानीं लीकृता इत्यनुषज्यते । कारण्डवाः जलकुकुटाः । पकैः कलमकेदारैः पक्कशालिक्षेणैः । संपूर्णा वसु प्लवैः जळकाकैः। क्रौञ्चैः प्रसिद्धेः । तीरवनमृगानाह | न्धरेव यथा भवेत् तथा तैर्हरिपुङ्गवैः संपूर्णा वसुधा -वराहेत्यादिना । तरक्षुभिः मृगादनैः । व्यालैः | बभूवेति योजयन्ति । अपरेतु कलमकेद्रैर्यथा दुष्टगजैः । सौगन्धिकैः कहारैः । वारिजैरिति । कलमकेद्रसदृशैः हरिपुङ्गवैः संपूर्णा वसुधा वसुन्ध एवमिति शेषः॥ ८५-८७ ॥ तस्य सानुष्वित्यर्धमेकं | रेव कलमकेदारभूरिव बभूवेत्याहुः । उपमानद्वित्वं वाक्यं ॥ कूजन्ति चुकूजुः । तत्सैन्यदर्शनादिति । व्यञ्जयितुमुपमावाचकद्वयं प्रयुञ्जते कवयः । यथा भावः ॥ ८८ ॥ अत्र जले वापीजले । प्लावयन्ति । “उद्धृत्य मेवैस्तत एव तोयमर्थं मुनीन्दैरिव संप्रणीताः। सिध्यन्ति ॥ ८९॥ शैलमारुहूत्युत्तरशेषः । अमृतग- । आलोकयामास हरिः पतन्तीर्नदीः स्मृतीयेंद्रमिवाम्बु धीनि अमृतस्वादूनि । मदोत्कटाः मदमत्ताः ।९०॥| रााशं ” इति ॥ ९४ ॥ अथ सह्यमलयातिक्रमण द्रोणमात्रप्रमाणानि द्रोणं शिवद्वयं तत्प्रमाणमधुपूर्णानि। | नन्तरं । राजीवलोचन इति समुद्रदर्शनाय महेन्द्रशि मधूनि मधुपटलानि । मधुपिङ्गलाः मधुवत्पिङ्गलवर्णाः | खरारोहणकुतूहलित्वमुक्तं । । ९५-९७ ॥ वेलावन ॥ ९१ ॥ विधमन्तः दहन्तः । « ध्मा शब्दाग्निसं- । स्योन्नतत्वादवरुहंस्युक्तं । रमयतां श्रेष्ठ इत्यनेन योगयोः ” इति धातुः ॥ ९२॥ अन्ये वृक्षेभ्यः । समुद्रसंभ्रमप्रदर्शनेन लक्ष्मणादिरजकत्वं व्यजितं ति० तत्रानुक्तमपिवासत्रयमन्यद्वोध्यं । आग्निवेश्योकेः। तेसर्ववानराः आनुपूर्येण सेनासंनिवेशक्रमेण ॥ ९७ ॥ [ प% ] १ झ. ट. रम्याः २ क. ख. पीतोदकास्तत्र ३ क, ख, घ, ङ. च. ज. -ट. बभक्षुर्वानराः ४ झ. ट. पिबन्तःस्खस्थास्ते५ ग. ज. झ. ट. नदन्तो. ६ ख. ट. प्रपिबन्यपि. ७ च. झ. ट. आरुरोहमहाबाहुः• ८ क, ख, ग. न्च. ज. झ. सलिलाशयं. झ. ट. सलिलाकुलं .