पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २१७ गत्वाऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकमनुशस्तम् ॥ तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ॥ २ ॥ संख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः॥ उवाच तानैऋतयोधमुख्यानिन्द्रो यथा चमरयोधमुख्यान् ॥ ३ नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ॥ सूदितः सैन्यपालो मे सानुयात्रः ॐकुञ्जरः ॥ ४ ॥ सोहं रिपुविनाशाय विजयायाविचारयन् । खयमैव गमिष्यामि रणशीर्ष तदतम् ।। ५॥ अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् । निर्दहिष्यामि बाणौधैर्वनं दीप्तैरिवाग्निभिः ॥ ६ ॥ [ अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ॥ रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥ ७ ॥] स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् । प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥ ८॥ स शक्भेरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः। पुण्यैः स्तवैश्वाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ॥ ९॥ स शैलजीमूतनिकाशरूपैर्भासादनैः पावकदीप्तनेत्रैः । बभौ वृतो राक्षसराजमुख्यो भूतैर्युतो रुद्र ईवासुरेशः ॥ १० ॥ ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ॥ महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् ॥ ११ ॥ तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः । विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ॥ १२ ॥ शस्तं तच्चापीत्यनेन रावणेन स्वप्नेपि न तचि-||।८। आस्फोटितक्ष्वेलितसिंहनादैः आस्फोटितं भुजा- हतं । न्तितमिति सूच्यते । यद्वा शत्रोरुपचये समाश्रयः | स्फालनं । क्ष्वेलितशब्दःशब्दमात्रपरः। आस्फोटित- कार्यइतिनीतिः । तथापि रावणः कालचोदिततया जनितशब्दैः सिंहनादैश्चेत्यर्थः। पुण्यैः चारुभिः ॥९॥ समाश्रयणं विहाय अस्थाने क्रोधवशं गत इत्यपिश- स इति । काठिन्यसिद्धये शैलौपम्यं । संकोचविका ब्देन सच्यते ।। २–३ ॥ रिपवे रामाय । नावज्ञा | सार्हत्वसिद्धयै मेघौपम्यं । रूपं शरीरं । रुद्रस्यासुरेश्वर कार्या उपेक्षा न कर्तव्या । क्रियाग्रहणं कर्तव्यमिति रत्वं तामसप्रकृतित्वात् । तदुक्तं मैत्रायणीयानामुप चतुर्थी । यैश्च सैन्यपालः प्रहस्तः। वानरैर्वेतुभिः। मम | निषदि – यो ह वा अस्य तामसोंशः सोसौ रुद्रः” सानुयात्रः सानुचरः । सकुञ्जरश्च सूदितः। तेभ्योपि इति ॥ १० ॥ महार्णवाभ्रस्तनितं महार्णवाश्रयोरिव नावज्ञाकार्येत्यर्थः । केचित्तु रिपवे रिपुभ्यःअवशस्तनितं यस्येति तथा ॥ ११ ॥ अतिप्रचण्डं । घोषो एते कपयः किं करिष्यन्तीत्येवंरूपा । । rr न कायो अत्यन्तकोपनं । भुजगेन्द्रबाहुः युद्धौत्सुक्येन प्रवर्ध कुत इत्यत्राह--यैरित्यादीत्याहुः ॥ ४ ॥ दुर्बलैः प्रबलविनाशनादाश्चर्यं ।। ५-७ । तुरङ्गोत्तम - | मानबाहुरित्यर्थः। पृथुश्रीः युद्धहर्षेण संजातलक्ष्मी- राजैः तुरङ्गश्रेष्ठतमैः युक्तं । प्रकाशमानं अलङ्कारंभ | कः । सेनानुगतः स्वामिसंरक्षणाय सर्वतः समवेतसे- समानं । वपुषा ज्वलन्तं स्वरूपत एव प्रकाशमानं नापरिवृतः । शस्त्रभृतां वरिष्ठं वीरभटतारतम्यज्ञमिति स० अनु यात्रा रणाजिरगमनंयस्यतदनुयात्रं सैन्यं। तेनसहितः सानुयात्रः ॥ ४ ॥ ती० वस्तुतस्तु--सहलक्ष्मणंरामं विनेतिशेषः । बाणौधैः वानरानीकंनिर्दहिष्यामीतिसंबन्धः ॥ ६ ॥ शि० रावणोभूतैर्युतः अमरेशोरुद्रइवबभौ। ॥ १० ॥ [ पा० ] १ ज. सभ्रातरंनीलहतंनिशम्यशोकार्दितःक्रोशवशाभिभूतः. २ झ. निर्जरयूथमुख्यान्. ३ ड. झ. ट. रिन्द्रव लसादनः. ४ क. सवाहनः. ५ अयंश्लोकः ज• पुस्तकेडदयते. ६ झ. ब, ट. इवामरेशः वा• रा. २०५