पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अविभज्य तदा देवि न नमेयं तु कस्यचित् । त्रैलोक्ये स पुमान्नास्ति यो मया न जितो रणे ॥७॥ देवतानां बलं हत्वा देवराजो मया जितः । राघवं प्रणमे कस्मान्मूर्मेि स्थित्वा च देहिनाम् ॥८॥ मा कृथा हृदि संतापं शमयिष्ये शुचिसिते ॥ हनिष्ये राघवं चैव लक्ष्मणं वानरांश्च तान् ॥ ९ ॥ सुग्रीवं च हनिष्यामि हनूमन्तं च वानरम् । न तु संधिं करिष्यामि राघवेण सहैव तु ॥ १० ॥ वैदेहीं नापयिष्यामि राघवस्य भयादहम् ॥ सांप्रतं न च संधिं तु करिष्यति स राघवः ॥ ११ ॥ सागरं सुमहद्धध्वा लङ्कामेत्य सकाननाम् ॥ राक्षसप्रवरान्हत्वा संधिं कुर्यात्कथं प्रिये ॥ १२ ॥ न त्वहं संधिमिच्छामि कदाचिदपि भामिनि । गच्छ त्वं भव विस्रब्धा सर्वमेतत्सुखोदयम् ॥१३॥ मा कृथा हृदि संतापमहं यास्ये रणाजिरम् ॥ अद्य सचन्वधिष्यामि शङ्न्समरमूर्धनि ॥ १४ ॥ पुत्राश्च ते महावीर्यो मेघनादपुरस्सराः ॥ न तेषां मुच्यते कश्चिदपि मृत्युर्वरानने ॥ १५ ॥ अन्तःपुराय गच्छ त्वं सुखिनी भव सस्नुषा ॥ एवमुक्त्वा पॅरिष्वज्य भार्या प्रियमना इव ॥ १६ ॥ प्रविवेश तदा देवी खयं च भवनं शुभम् । चिन्तयामास तं घोरं विग्रहं समुपस्थितम् ॥ १७ ॥ रावणस्तु तदा वाक्यं राक्षसानिदमब्रवीत् ॥ १८ ॥ कल्प्यतां मे रथः शीघं क्षिप्रमानीयतां धनुः। अद्य क्रोधं विमोक्ष्यामि गूढं सुहृदयेशयम् ॥ १९॥ देवाहवे यथा पूर्व रुद्रेण निहतोऽन्धकः । चिरकालेप्सितं हृतद्युद्धं मे राघवेण ह ॥ २० ॥ अद्य तूणीशया बाणा विमुक्ता इव पन्नगाः ॥ रामं समभिधावन्तु विषाग्निप्रतिमाः शिताः ॥ २१ ॥ सुतेजसै रुक्मपुत्रैर्जलधौतैर्हिरण्मयैः ॥ शरैरादीपयाम्येनमुल्काभिरिव कुञ्जरम् ॥ । २२ ॥ वानरान्सुबहून्गृह्य राघवात्संप्रचोदितान् ॥ यमं नयामि विक्रान्तान्मम पार्श्वमुपागतान् ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रक्षिप्तः सर्गो द्वितीयः ॥ २ ॥ २ एकोनषष्टितमः सर्गः ॥ ५९ ॥ प्रहस्तनिधनश्रवणविहस्तेनरावणेन स्वयमेव महत्या सेनया सह रणायनिर्याणं ॥ विभीषणेनरामंप्रतिरावणानुयायि नांप्रधानरक्षसां तदीयचिह्नप्रदर्शनपूर्वकंतत्तन्नामनिर्देशः ॥ २॥ रावणेन स्वानुयायिनां नगररक्षणनियोजनेनविसर्जनपूर्वकं शरनिकरैः सुग्रीवादि विदारणे ॥ ३ ॥ रामेसमरोद्योगिनिसति लक्ष्मणेन प्रार्थनयातदनुज्ञासंपादनेन रावणाभियानं ॥ ४ ॥ अत्रान्तरे हनुमता रावणनिरोधनं ॥ ५ ॥ रावणकरतलाभिहतेनहनुमता । स्वकरतलेन तदुरक्षिताडनं ॥ ६ ॥ तेन सलघ सुट्या हनुमत्ताडनं । ॥ तेन किञ्चिद्विह्वलसतिहनुमति रावणेन नीलंप्रत्यभियानं । ॥ नीले रावणशिरश्शरासनादिषु लाघवेनचपलतर्संचरमणे रावणेचालब्धलक्ष्ये हसत्सुकपिष्टरुष्टेनतेनाग्नेयास्त्रेण नील निपातनपूर्वकं लक्ष्मणाभिगमनं ॥ ९ ॥ लक्ष्मणेनचापच्छेदनपूर्वकंशरताडितेनरावणेनब्रह्मदत्तयाशक्यालक्ष्मणवक्षस्ताडनं । १० ।वोपतितमूर्छितलक्ष्मणोद्धर णेप्रयतनेनाप्यशक्रुवतिलक्ष्मणशरीराकर्षणरुष्टेनहनुमतारावणोरलिमुष्टिघातनं । ॥ तेनसरुधिरोद्रंमूर्छितेरावणेहनुमः तालक्ष्मणस्य रामसमीपप्रापणं ॥ १२ ॥ लब्धसंज्ञेरावणेऽभ्यागच्छतिहनुमप्रार्थनयातमारूढेनरामेणतदभियानं ॥ १३ ॥ रामेणशरनिकरैः रावणस्यविरथीकरणपूर्वकं विह्वलताप्रापणेनतकिरीटकूटच्छेदनं ॥ १४ ॥ रामेणस्थादिसामग्रीसहित्येनपु रागमनचोदनपूर्वकंगृहगमनायाभ्यनुज्ञातेनरावणेनलज्जयालङ्कागमनं ॥ १५ ॥ तसिन्हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे ॥ भीमयुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ॥ १ ॥ अथ रावणमुकुटभङ्ग एकोनषष्टितमे--तस्मिन्हत | इत्यादि ।। १ ॥ पावकसूनु शस्तं पावकसूनुना नीलेन २० टि० १: परिष्वज्य विससर्जेतिशेषः ॥ १६ ॥ २ तथारामोमयायहन्यतइतिशेषः । [ पा० ] १ ख, ग. च. झ. प्रदुद्भवे.